English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 178

Puran Kavya Stotra Sudha - Page 178

Puran Kavya Stotra Sudha - Page 178


स्तो त्र यो गः - विष्णुध्यानम्
प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ॥
सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ ८० ॥
समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ॥
कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥ ८१ ॥
वलित्रिभंगिना मग्ननाभिना ह्य वरेण च ||
प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ८२ ॥
समस्थितोरुजङ्घं च सुस्थितांघ्रिवराम्बुजम् ||
चिन्तयेद्ब्रह्मभूतं तं पोतनिर्मलवाससम् ॥ ८३ ॥
किरीटहारकेयूरकटकादिविभूषितम् ॥ ८४ ॥
शार्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ॥
वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ८५ ॥
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ॥
तावद्यावदृढीभूता तत्रैव नृप धारणा || ८६ ॥
व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ||
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ ८७ ॥
ततः शङ्खगदाचऋशार्गादिरहितं बुधः ||
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ८८ ॥
सा यदा धारणा तद्वदवस्थानवती ततः ||
किरोटकेयूरमुखंभूषणेः रहितं स्मरेत् ॥ ८९ ॥
तदेकावयवं देवं चेतसा हि पुनर्बुधः ॥
कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ९० ।।
तद्रूपप्रत्यया चैका सन्ततिश्चान्य निःस्पृहा ||
तद्धयानं प्रथमैरङ्गैः षभिनिष्पाद्यते नृप ॥ ९१ ॥
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् ॥
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ ९२ ॥
विज्ञान प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव ||
प्रापणीयस्तथैवात्मा प्रक्षोणाशेषभावनः ॥ ९३ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP