English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 25

Puran Kavya Stotra Sudha - Page 25

Puran Kavya Stotra Sudha - Page 25


पुराणकाव्यस्तोत्रसुवा
कालेषु हरते वीय्यं काले गर्भे च वर्तते ॥
कालो जनयते सृष्टि पुनः कालोऽपि संहरेत् ॥ ८ ॥
काल: सूक्ष्मगतिनित्यं द्विविधश्चेह भाव्यते ||
स्थूलसङ्ग्रहचारेण सूक्ष्मचारान्तरेण च ॥ ९॥
नीतिसारं सुरेन्द्राय इममूचे बृहस्पतिः ॥
सर्वज्ञो येन चेन्द्रोऽभूत्यान्हत्वाप्नुयाद्दिवम् ॥ १० ॥
राजविब्राह्मणः कार्य देवविप्रादिपूजनम् ||
अश्वमेघेन यष्टव्यं महापातकनाशनम् ॥ ११ ॥
उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम् ॥
अलुब्धंः सह मित्रत्वं कुर्वाणो नावसीदति ॥ १२ ॥
परीवादं परायं च परिहासं परस्त्रियम् ||
परवेश्मति वासं च न कुर्वीत कदाचन ॥ १३ ॥
परोऽपि हितवान्बन्धुः बन्धुरप्यहितः परः ||
अहितो देहजो व्याधिहितमारण्यमौषधम् ॥ १४ ॥
स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः ॥
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ १५ ॥
स भृत्यो यो विधेयस्तु तद्द्वीजं यत्प्ररोहति ॥
सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥ १६ ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति ॥
गुणधर्मविहीनो यो निष्फलं तस्य जीवनम् ॥ १७ ॥
सा भार्या या गृहे दक्षा सा भार्या या प्रियंवदा ||
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ १८ ॥
नित्यस्नाता सुगन्धा च नित्यं च प्रियवादिनी ॥
अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥ १९ ॥
सततं धर्मबहुला सततं च पतिप्रिया ॥
सततं प्रियवक्त्री च सततं त्वतुकामिनी ॥ २० ॥
एतदा विक्रियायुक्ता सर्वसौभाग्यवद्धनी ॥
यस्येदृशी भवेद्भार्या स देवेन्द्रो न मानुषः ॥ २१ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP