English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 36

Puran Kavya Stotra Sudha - Page 36

Puran Kavya Stotra Sudha - Page 36


व्यवहारचातुर्ययोगः-
वृहस्पतिनीतिसार:
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १९ ॥
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः ॥
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥ २० ॥
येनाजितास्त्रयोऽप्येते पुत्रा भृत्याश्च बान्धवाः ॥
जिता तेन समं भूपैश्चतुरन्धर्वसुन्धरा ॥ २१ ॥
लंघयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च ||
सहि नश्यति वै राजा इह लोके परत्र च ॥ २२ ॥
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ॥
समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेत् ॥ २३ ॥
घोराः कष्टमनुप्राप्य न भवन्ति विषादिनः ॥
प्रविश्य वदनं राहो: कि नोदेति पुनः शशी ॥ २४ ॥
घिग्धिक् शरीरसुखलालितमानवेषु
मा खेदयेद्धनकृशं हि शरीरमेव ॥
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि
दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥ २५ ॥
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान् ॥
धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥ २६ ॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ||
स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥ २७ ॥
चापलाद्वारयेदृष्टि मिथ्यावाक्यं च वारयेत् ॥
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ २८ ॥
लीलां करोति यो राजा भृत्यस्वजनगवतः ॥
शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥ २९ ॥
हुंकारे भ्रुकुटीं नैव सदा कुर्वीत पार्थिवः ||
विना दोषेण यो भृत्यान्न्राजाऽधर्मेण शास्ति च ।। ३० ।
लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥
सुखप्रवृत्तैः साध्यन्तैश्शत्रवो विग्रहे स्थितैः ॥ ३१ ॥:
उद्योगः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ॥
षड्विधो यस्य उत्साहस्तस्य देवोऽपि शकते ॥ ३२ ॥
२१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP