English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 193

Puran Kavya Stotra Sudha - Page 193

Puran Kavya Stotra Sudha - Page 193


१७८
पुराणकाव्यस्तोत्रसुधा ।
अनन्तगुणगभ्भीरो धीरोदात्तगुणोत्तरः ॥
मायामानुषचारित्रो महादेवाभिपूजितः ॥ ४३ ॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ ४४ ॥
सर्वयज्ञाधिपो यज्ञो जरामरणवजितः ॥
शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः ॥ ४५ ॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ॥
परंज्योतिः परं धाम पराकाशः परात्परः ॥ ४६॥
परेशः पारगः पारः सर्वभूतात्मकः शिवः ||
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥ ४७ ॥
२७. श्रीकृष्णनामाष्टोत्तरशतस्तोत्रम्
( ब्रह्माण्ड, मध्यभाग, ३६ )
छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ॥
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ २१ ॥
वसुदेवात्मजः पुण्यो लीलामानसविग्रहः ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ॥ २२ ॥
चतुर्भुजात्तचक्रासिगदाशंखाद्युतायुधः ||
देवकीनन्दनः श्रोशो नन्दगोपप्रियात्मजः ॥ २३ ॥
'यमुनावेगसंहारी बलभद्रप्रियानुजः ||
पूतनाजीवितहरः शकटासुरभञ्जनः ॥ २४ ॥
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ २५ ॥
नवनीतलवाहारी मुचुकुन्दप्रसादकृत् ||
षोडशस्त्रीसहत्रेशस्त्रिभंगी मधुराकृतिः ॥ २६ ॥
शुकवागमृताब्धीन्दुर्गोबिन्दो गोविदां पतिः ॥
वत्सपालनसञ्चारी धेनुकासुरमर्दनः ॥ २७ ॥
तृणीकृततृणावर्ती यमलार्जुनभञ्जनः ||
उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ २८ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP