English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 29

Puran Kavya Stotra Sudha - Page 29

Puran Kavya Stotra Sudha - Page 29


पुराणकाव्यस्तोत्रसुधा |
सञ्चितं ऋतुशतैर्न युज्यते
याचितं गुणवते न दीयते ॥
तत्कदर्य परिरक्षितं धनं
चोरपार्थिवगृहे प्रयुज्यते ॥ २६ ॥
न देवेभ्यो न विप्रेभ्यो बन्धुभ्यो नैव चात्मने ||
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ २७ ॥
अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च ॥
अरेर्वा प्रणिपातेन मा भूवस्ते कदाचन ॥ २८ ॥
विद्याधातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता ॥
व्याधीनां भोजनं जीणं शत्रोघतः प्रपञ्चता ॥ २९ ॥
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् ॥
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ ३० ॥
दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः ॥
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ ३१ ॥
जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ||
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ ३२ ॥
स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा ||
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ ३३ ॥
न स्वप्नेन जयेभिद्रां न कामेन स्त्रियं जयेत् ॥
न चेन्धनैर्जयेद्वन्हि न मद्येन तृषां जयेत् ॥ ३४ ॥
समांसर्भोजनः स्निग्धैर्मद्यैर्गन्धविलेपनैः १ ॥
वस्त्रैमंनोरमैर्माल्यैः कामः स्त्रोषु विजृम्भते ॥ ३५ ॥
ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् ॥
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ ३६॥
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ॥
योनिः क्लिद्यति नारीणां सत्यं सत्यं हि शौनक ॥ ३७ ॥
नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिके च ||
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ॥ ३८ ॥
१. 'मद्यशीधुसुरासव:' इ. पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP