English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 37

Puran Kavya Stotra Sudha - Page 37

Puran Kavya Stotra Sudha - Page 37


२२
पुराणकाव्यस्तोत्रसुवा ।
उद्योगेन कृते कार्ये सिद्धिर्यस्य न विद्यते ॥
दैवं तस्य प्रमाणं हि कर्त्तव्यं पौरुषं सदा ॥ ३३ ॥
Ibid, अ. १११.
अथ द्वादशोत्तरशततमोऽध्यायः (११२).
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः ॥
नियोक्तव्या यथार्हेषु त्रिविधेष्वेव कर्मसु ॥ १ ॥
भृत्ये परिक्षणं वक्ष्ये यस्य यस्य हि यो गुणः ॥
तमिमं संप्रवक्ष्यामि ये यथाकथितं किल ॥ २ ॥
यथा चतुर्भिः कनकं परीक्ष्यते
निघर्षणच्छेदनतापताडनैः ॥
तथा चतुभिर्भूतकं परीक्षयेद्
व्रतेन शोलेन कुलेन कर्मणा ॥ ३॥
कुलशीलगुणोपेतः सत्यधर्मपरायणः ॥
रूपवान्सुप्रसन्नश्च कोशाध्यक्षो विधीयते ॥ ४ ॥
मूल्यरूपपरीक्षाकृद्भवेद्रत्नपरोक्षकः ॥
बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ ५ ॥
इगिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः ॥
अप्रमादी प्रमाथी च प्रतोहारः स उच्यते ॥ ६ ॥
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः ॥
सर्वशास्त्रसमालोको ह्येष साधुः स लेखकः ॥ ७ ॥
बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः ॥
क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ ८ ॥
समस्तस्मृतिशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः ॥
शौर्य वीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ ९ ॥
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः ||
शुचिश्च कठिनश्चैव सूपकारः स उच्यते ॥ १० ॥
आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ॥
आयुःशीलगुणोपेतो वैद्य एव विधीयते ॥ ११ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP