English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 38

Puran Kavya Stotra Sudha - Page 38

Puran Kavya Stotra Sudha - Page 38


व्यवहारचातुर्ययोगः - बृहस्पतिनीतिसारः
वेदवेदाङ्गतत्त्वज्ञो जयहोमपरायणः ॥
आशीर्वादपरो नित्यमेष राजपुरोहितः ॥ १२ ॥
लेखक: पाठकश्चैव गणकः प्रतिरोधकः ॥
आलस्ययुक्तश्चेद्राजा कर्म संवर्जयेत्सदा ॥ १३ ॥
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम् ॥
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १४ ॥
दुर्जनः परिहर्त्तव्यो विद्ययाऽलङकृतोऽपि सन् ||
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १५ ॥
अकारणाविष्कृतकोपधारिणः
खलाइयं कस्य न नाम जायते ॥
विषं महाविषमस्य दुवंचः
सदुःसहं संनिपतेत्सदा मुखे ॥ १६ ॥
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ||
अर्द्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥ १७ ॥
शूरत्वयुक्ता मृदुमन्दवाक्या
जितेन्द्रियाः सत्यपराक्रमाश्च ॥
प्रागेव पश्चाद्विपरीतरूपा
ये ते तु भृत्या न हिता भवन्ति ॥ १८ ॥
निरालस्याः सुसन्तुष्टाः सुस्वप्नाः प्रतिबोधकाः ॥
सुखदुःखसमाधोरा भृत्या लोकेषु दुर्लभाः ॥ १९ ॥
क्षान्तिसत्यविहीनश्च क्रूरबुद्धिश्च निन्दकः ॥
दाम्भिकः कपटी चैव शठश्च स्पृहयाऽन्वितः ॥
अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ २० ॥
सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च ॥
दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥ २१ ॥
षण्मासमथ वर्ष वा सन्धि कुर्यान्नराधिपः ||
पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥ २२ ॥
मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः ॥
अयशश्चार्थनाशइच नरके चैव पातनम् ॥ २३ ॥ ..

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP