English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 31

Puran Kavya Stotra Sudha - Page 31

Puran Kavya Stotra Sudha - Page 31


पुरीणकाव्यस्तोत्र सुधा
ये बालभावे न पठन्ति विद्यां
कामातुरा यौवननष्टवित्ताः ॥
ते वृद्धभावे परिभूयमानाः
संदह्यमानाः शिशिरे यथाब्जम् ॥ ५० ॥
तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः
नासावृषिर्यस्य मतं न भिन्नम् ||
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥ ५१ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च
नेत्रवक्त्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ ५२ ॥
अनुक्तमप्यूहति पण्डितो जनः
परेडिगतज्ञानफला हि बुद्धयः ॥
उदीरितोऽर्थः पशुनापि गृहचते
हयाश्च नागाश्च वहन्ति दर्शितम् ॥ ५३॥
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छे-
त्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च ॥
भोगाद्भ्रष्टः सत्यधृतिञ्च गच्छे-
द्वाज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ ५४ ॥
Ibid, अ. १०९.
अथ दशोत्तरशततमोsध्याय: (११० ).
यो ध्रुवाणि परित्यज्य ह्यध्रुवाणि निषेवते ॥
ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥ १ ॥
वाग्यन्त्रहोनस्य ? नरस्य विद्या

शस्त्रं यथा कापुरुषस्य हस्ते ॥
न तुष्टिमुत्पादयते शरीरे
ह्यन्धस्य दारा इव दर्शनीयाः ॥ २ ॥
१. 'नष्टचित्ताः' इ. पा.
२. 'प्रागल्भ्यहीनस्य' इ. पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP