English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 303

Puran Kavya Stotra Sudha - Page 303

Puran Kavya Stotra Sudha - Page 303


२९०
पुराणकाव्यस्तोत्रसुधा |
नवात्मिका | गौरी च देवी हृदया लक्षदा च मतंगिनी ||१६२|| निष्कत्रयपदा
चेष्टा वादिनी च प्रकीर्तिता। राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना
॥१६३|| इति ललितादेवीसहस्रनामस्तोत्रं सम्पूर्णम् ।
परिशिष्टम् ( क )
राधाकृष्णसहस्रनामस्तोत्रम्
(नारदीय, पूर्वखण्ड, ८२ )
सनत्कुमार उवाच -
ततस्त्वं नारद पुनः पुष्टवान्वे सदाशिवम् ||३४|| नाम्नां सहस्रं
तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीर-
संगतम् ||३५|| कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं
तु युगलाख्यं महामुने |॥३६॥ – देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।
गवाग्रजः कंसमोहः कंससेवकमोहनः ||३७|| भिलार्गलो भिन्नलोहः पितृबाह्यः
पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ||३८|| व्रजवासी व्रजा-
नन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ ३९॥
गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुबंकमुक्ति-
प्रदो हरिः ॥४०॥ बलदोलाशयशय: श्यामलः सर्वसुन्दरः | पद्मनाभो हृषी-
केश: क्रीडामनुजबालकः ॥४१॥ लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ||४२|| नित्यं मधुवनावासी
वैकुण्ठः संभवः ऋतुः | रमापतियंदुपतिर्मुरारिमंधुसूदनः ||४३|| माधवो
मानहारी च श्रोपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनर्भहासनः ॥४४॥
तृणावर्तप्राणहारी यशोदा विस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः
प्रियंकरः ॥४५॥ ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् | अजाध्यक्षः
शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥४६॥ वेदान्तवेद्यो ब्रह्मस्थः प्रजापति-
रमोघदूक् | गोपीकरावलम्बी च गोपबालकसुप्रियः ||४७|| बालानुयायी
बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाडगणरतिर्भद्रः सुश्लोकमङ्गलः
॥४८॥ नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः
पलायित: ॥४९॥ यशोदातर्जितः कंपो मायारुदितशोभन: । दामोदरोऽप्रमे-
यात्मा दयालुर्भक्तवत्सलः ||५०|| सुबद्धोलूखले नम्रशिरा गोपीकर्दार्थतः ।

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP