English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 134

Puran Kavya Stotra Sudha - Page 134

Puran Kavya Stotra Sudha - Page 134


का व्य यो गः – सावित्र्युपाख्याने वनदर्शनम्
मञ्जरी सहकारस्य कान्ता चञ्च्वग्रखण्डिताम् ॥
स्त्रदत्ते बहुपुष्पेऽपि पुंस्कोकिलयुवा वने ॥ ११ ॥
काक: प्रसूतां वृक्षाग्रे स्वामेकाग्रेण चञ्चुना ||
कार्की संभावयत्येष पक्षाच्छादितपुत्रकाम् ॥ १२ ॥
भूभागं निम्नमासाद्य दयितासहितो युवा ॥
नाऽऽहारमपि चाऽऽदत्ते कामाक्रान्तः कपिञ्जलः ॥ १३ ॥
कलविङकस्तु रमयन्प्रियोत्सङ्गं समास्थितः ॥
मुहुर्मुहुविशालाक्षि उत्कण्ठयति कामिनः ॥ १४ ॥
वृक्षशाखां समारूढः शुकोऽयं सह भार्यया ॥
करेण लम्बयञ्छाखां करोति सफलामिव ॥ १५ ॥
वनेऽत्र पिशितास्वादतृप्तो निद्रामुपागतः ॥
शेते सिंहयुवा कान्ता चरणान्तरगामिनी ॥ १६ ॥
व्याघ्रयोमिथुनं पश्य शैलकन्दरसस्थितम् ॥
ययोनेत्रप्रभालोके गुहा भिन्नेव लक्ष्यते ॥ १७ ॥
अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ||
प्रोतिमायाति च तया लिह्यमानः स्वकान्तया ॥ १८ ॥
उत्सङगकृतमूर्धानं निद्रापहृतचेतसम् ॥
जन्नूद्धरणतः कान्तं सुखयत्येव वानरी ॥ १९ ॥
भूमौ निपतितां रामां मार्जारो दर्शितोदरीम् ॥
नवैर्दन्तैर्दशत्येष न च पोडयते तथा ॥ २० ॥
शशक: शशकी चोभे संसुप्ते पीडिते इमे ||
संलोनगात्रचरणे कर्णैर्व्यक्तिमुपागते ॥ २१ ॥
स्नात्वा सरसि पद्मादचे नागस्तु मदनप्रियः ॥
संभावयति तन्वंगि मृगालकवलं: प्रियाम् ॥ २२ ॥
कान्तप्रोथसमुत्थानंः कान्तमार्गानुगामिनी ||
करोति कवलं मुस्तैर्वराही पोतकानुगा ॥ २३ ॥
दृढाङ्गसन्धिर्महिषः कर्दमाक्ततनुर्वने ॥
अनुव्रजति घावन्तीं प्रियामुद्धतमुत्सुकः ॥ २४ ॥
११९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP