श्री सिद्धिस्तुति: । [ हरनर्तनम् ]
रागिदूरपदां विरागिजनेक्षितां सुरपूजितां
वारितापमृतिं कुबेरसुरार्यजिद्धनवाक्प्रदाम् ।
कारुणीजलधिं धराधरजास्नुषां करिमुख्यदां
सर्वपापहरां भजे हृदयाम्बुजेs निशमृद्धिकाम् ॥१॥
कल्यहेर्गरुडं रुचा जितहाटकां मुनिवन्दिताम्
अक्षराकृतिकां प्रणम्रवरप्रदॉ पुरुषार्थदाम् ।
पङ्कजातदृशं प्रकाशिततत्त्विकां नृपताप्रदां
सर्वलोकनुतां भजे हृदयाम्बुजेs निशमृद्धिकाम् ॥२॥
रुग्जराशमनीं निराकृततानवां यमिचिन्तितां
राममुख्यनुतां शमादिगुणप्रदां श्रमनाशिकाम् ।
अङ्कुशादिधरां सुमावलिपूजितामघमर्षिणीं
मृत्युभीमुखहां भजे हृदयाम्बुजेs निशमृद्धिकाम् ॥३॥
Translation - भाषांतर
N/A