संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमहासरस्वतीश्रीमहालक्ष्मीश्रीमहाकालीस्तोत्रम्

श्रीमहासरस्वतीश्रीमहालक्ष्मीश्रीमहाकालीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तव्राताशेषाभीष्टश्राणनदीक्षामहिमह्रेपितकल्पलतापदपाथोजा -
भास्करभाधिपमुख्यविभास्वरवत्मंजभोक्त्रभ्रमराम्भोद्भ्रमकरकबरीभाराढ्या:
भूय:प्रादुमविध्वंसनपारम्पर्याकृतिभवसंज्ञकसागरनिपतनभीतिभेदो [ विभेदा: ]
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥१॥
निजपदपङ्कजनतजनवरवरवितरणविधिचणमुद्राभासुरनिजकरनिर्जितनीरभवा:
शरदृतुकालितपाथ:श्राणकनिभनिजदिव्याम्बरधृतिभूषितमर्मन्यक्कृततनुवर्णा: ।
प्रणमन्निर्जरनारीपूरुषनरमणिवर्यश्रेणीमुकुटगमणिगणनीराजितनिजपादाब्जा
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥२॥
पाथोजोद्भवपाथोजेक्षणपाथोजारिकलाधरनिजशीर्षेन्द्रार्कानलयमहिमकृत् -
पाथोनिधिपतिमारुतनिरृतिधनपतिमुख्याशेषत्रिदशनिकायाभिष्टुतपदकमला: ।
पादाम्भोजनिघूलीलेशस्मृतिलवकृज्जनतालिकृतान्तजसाघ्ज्वसहर्तृकृपाभरिता
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥३॥
रम्भामेनोर्वश्याद्यपसरईडितपीनोत्तुङ्गस्तनयुगमणितकार्तस्वरहुङ्कृन्निजतनु -
भल्लीभासाभासितरम्याम्भोभवधिष्ठिंतमूर्तिध्यायकसर्वाभीप्सितदा: ।
निजचरनस्मृतिसंज्ञाकीर्तनमूर्त्तिध्यानादिमसार्थीकृतजनिशुकशौनकघटजमुना
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥४॥
चोरदवानलडामरमुख्यसुघोरगदादिजदु:खशतावलिपूरितसंसृतिसंज्ञाभाग् -
भीकरसागरपारदप:रदडम्बरभारहवर्णविभासुरनैजकलेवरसञ्चिन्ता: ।
शारदनीरदनिजपटवेष्टितमूर्त्तिध्यानविशारदनारदशुकमुखवरददयापूरा
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥५॥
वीणापाणिप्रमुखप्राणायामपरायणमौनिश्रेणीचिन्तितवीणाविभ्राजत् -
पाणिपयोजक्षोणीधारिश्रोणीनीरदवेणीपरभृतवाणीशोणाम्भोजमुखा: ।
काणादादिमनयविश्राणननिपुणकटाक्षा एणाङ्कादृतमाणिक्योज्ज्वलनिजमुकुटा:
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥६॥
निजचरणाम्भोजविनतविनतातनुजनिवाहननलिनसमुद्भवमेनातनुजनुरसुनाथ -
प्रमुखत्रिदिवालयचयपालकपालकपालानुग्रहकारणकरुणावरुणालयदीक्षा: ।
निजनिजहृत्पत्यनुभवविषयाद्वैतविबोधकनैरन्तर्यस्तनभरविनमत्तनुमध्या
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥७॥
प्रणतजनेप्सितकनकमुखाखिलभौमविभूतिस्वर्गप्रमुखामिष्मिकभोगव्रात -
युक्तश्राणितसच्चित्सुखनिजवास्तवतत्त्वब्रह्माकृतिसाक्षात्कृतिसाध्रनसम्पत्तिकदम्बा: ।
धनकनकोदररसनासदनाकनकस्वाकृतिकनकाकारकवीर्योत्सङ्गनिजस्थाना
भवसहजाताभवकान्तासहसम्भवरमणीभवदयिता भवभूत्यै भूयासु: सततम् ॥८॥
अष्टकमेतत्पठतां भवसहजाभवकान्तासहभवरमणीभवदयिताङ्घ्रिपयोजानाम्
अष्टदरिद्रत्वादिसमस्तानिष्टसमष्टिविनष्टिविधायकसत्वरचेष्टालिविशिष्टम् ।
अष्टैश्वर्यप्राप्तिपुरस्सरसिद्धयष्टकलसदष्टाङ्गान्वितयोगानुष्टानजनिष्टाद्युत् -
कृष्टेष्टाखिलसाधनततिघातितनिजपुर्यष्टकपरिशिष्टात्मज्ञानं स्यात् स्पष्टम् ॥९॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP