श्रीनरनारायणस्तोत्रम् [ वियोगिनी ]
विनताघहरं नमत्सुरं कनकादीप्सितदं भयच्छिदम् ।
शरदब्दसुवर्णवाससं नरनारायणमाश्रयेsनिशम् ॥१॥
श्रितकल्पतरुं भवापहं घनभृङ्गाहिकचं सितासितम् ।
हृतभक्तशुचं कृपाम्बुधिं नरनारायणमाश्रयेsनिशम् ॥२॥
प्रणतेप्सितदं सुरार्चितं रमणीयात्मगुणं परात्परम् ।
शुकनारदमुख्यसंस्तुतं नरनारायणमाश्रयेsनिशम् ॥३॥
यममुख्यधनं स्मिताननं नतकाङ्क्षाधिकदं वरप्रदम् ।
भ्वपारदपादपङ्कजं नरनारायणमाश्रयेsनिशम् ॥४॥
Translation - भाषांतर
N/A