संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविष्णुत्रिविक्रमाष्टकस्तुतिः

श्रीविष्णुत्रिविक्रमाष्टकस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


प्रणतजनतासर्वाभीष्टप्रदायिसुरद्रुमौ
भवजलनिधौ मग्नानम्रोद्धृतिव्रत नाविकौ ।
निजकररुचा भग्नस्वाहंकृताम्बुसमुद्भवौ
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥१॥
पद्नतवरव्रातस्पर्शप्रतुष्टहृदम्बुजौ
चरणविनमत्काम्याधीदस्वपादरज:स्मृती
दिनकरकरभ्राजत्स्वीयाम्बरवृतवर्ष्मकौ
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥२॥
त्रिभुवनवसन्रम्यस्वीयाङ्घ्रिनीरजनुर्युगौ
नतजनकृपारम्यस्वान्तप्रवृत्तिपरम्परौ ।
निजपुरूतप:कृतस्वीयप्रणम्रकृतान्तकौ
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥३॥
यमनियमभृद्वर्यस्तव्यस्वपादपयोजनी
चरणकमलोद्भूतद्वन्द्वप्रणम्रवरप्रदौ ।
कनकविमुखस्वान्तौ स्वर्णप्रदस्वपदार्चनौ
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥४॥
अमितकरुणापारावारस्वचित्तपयोरुहौ
सुगतिरहितप्राणम्रालीभवाम्बुधिपारदौ ।
हृदयदहनक्लेशव्रातप्रतप्तकृपाम्बुधी
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥५॥
दृशिपदकणाद्देवाह्वाभूपतञ्जलिजैमिनि -
श्रुतिततिपृथक्कर्तृकार्यस्पृगङ्घियुगस्मृती ।
चरणविनमत्पापारण्यप्रदग्धृदवानलौ
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥६॥
रचित विनतावर्ष्मोद्भूतस्ववाहसमर्चनौ
करतलसद्धात्रीतुल्यात्मतत्त्वविबोधनौ ।
करविशदिताभीतिज्ञानप्रसादकमुद्रिकौ
परगुरुगुरो वन्दे विष्णुत्रिविक्रमतीर्थपौ ॥७॥
चरणनलिनद्वन्द्वभक्तव्रजार्तिदकष्टकृद् -
दुरितशमनभ्राजन्मोदप्रसूनिखिलेष्टदौ ।
प्रभवतमद:पादाम्भोभूपरायणमष्टकं
झतिति ( सपदि ) पठतामष्टैश्वर्यप्रदानजनुष्टिदौ ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP