TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीडाकोरलक्ष्मीस्तव:

श्रीडाकोरलक्ष्मीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रीडाकोरलक्ष्मीस्तव: [ स्रग्विणी ]
पुष्पबाणक्रुधालोभमोहाद्यरि -
षट्कवश्यान्तरङ्गाप्यभिन्नाङ्घ्रिकाम् ।
तद्रिपुव्रातजित्प्रीतनैजाशयां
डङ्कमौनीपुराधीश्वरीं भावये ॥१॥
ब्रह्ममृत्युञ्जयाखण्डनाबीश्वरां
पित्तवाय्विन्द्रसेनादिसंसेविताम् ।
भक्तिकृज्जारठीदुर्मृताद्यार्त्तिहां
डङ्कमौनीपुराधीश्वरीं भावये ॥२॥
रङ्कधात्रीशमन्दस्वधीभूभृतो -
sप्याशु यत्पादवारिप्रभूसंस्मृते: ।
श्रीवचोधूतयक्षेशजीवा भव -
डङ्कमौनीपुराधीश्वरीं भावये ॥३॥
भूतपञ्चीक्रुतिस्वक्रियस्यापि यो
sभूद्विधाता तदीयादिशक्त्याकृतिम् ।
भूतमात्रानुकम्पाजनुर्मेदिनीं
डङ्कमौनीपुराधीश्वरीं भावये ॥४॥
नागकुम्भापहासिस्ववक्षोभवां
नागभृङ्गापहासिस्वशीर्षोद्भवाम् ।
नागराङ्वर्ण्यभिन्नापदानाङ्घ्रिकां
डङ्कमौनीपुराधीश्वरीं भावये ॥५॥
पादनीरेरुहद्वन्द्वभृङ्गाशय -
प्राग्जनु:साम्प्रतागामिपापापहाम् ।
स्वर्णदर्पापहृद्वर्णराजत्तनुं
डङ्कमौनीपुराधीश्वरीं भावये ॥६॥
अब्जभूरुड्भवद्वीपभूतोद्भव -
कुम्भभूमुख्यमौन्यालिभूभृन्नुताम् ।
अक्षरब्रह्मवित्प्राप्यतन्वाकृतिं
डङ्कमौनीपुराधीश्वरीं भावये ॥७॥
कामनात: स्वपादानतानां द्रुतं
सर्वकाम्यव्रजस्पर्शदीक्षाधराम् ।
कामहीनाशयानां च मोक्षप्रदां
डङ्कमौनीपुराधीश्वरीं भावये ॥८॥
धर्ममुख्यापवर्गान्तसर्वार्थद -
स्वीयपाण्यम्बुसञ्जातयुग्मद्वयाम् ।
भूधरश्रोणिकां भूधरोरोजनिं
डङ्कमौनीपुराधीश्वरीं भावये ॥९॥
सर्वविध्यण्डगाशेषलोकावली -
वासकृत्पाल्यमानस्वकीयाज्ञिकाम् ।
भूप्रमुख्याधिपत्वादिदाङ्घ्र्यर्चनां
डङ्कमौनीपुराधीश्वरीं भावये ॥१०॥
ईशजीवात्मविश्वादिनानाभिदा -
ज्ञानरूपासुरक्ष्मेशसंहारिणीम् ।
राजयक्ष्मादिरुग्जालहर्तृस्मृतिं
डङ्कमौनीपुराधीश्वरीं भावये ॥११॥
दुष्टसम्भीषणस्यन्दनाङ्गादियुक् -
शिष्टभीनाशकृन्मुद्रिकाधृत्कराम् ।
नैर्विकार्य्यओल्लसच्चित्तसञ्चिन्तितां
डङ्कमौनीपुराधीश्वरीं भावये ॥१२॥
विश्वसृड्विश्वसंरक्षिविश्वापहृन् -
मुख्यविश्वामरोत्तंससङ्घादृताम् ।
हृत्स्थितिस्पाष्ट्यकृदा ( च्चा ) ब्जनुर्विष्टरां
डङ्कमौनीपुराधीश्वरीं भावये ॥१३॥
चित्तशान्तीन्द्रिय [ न्त्यक्ष ] दान्त्यास्तिकीतृप्तता -
सर्वसन्त्यागसर्वक्षमाश्राणिकाम् ।
पादपद्मानतश्रान्तिनिर्मूलिनीं
डङ्कमौनीपुराधीश्वरीं भावये ॥१४॥
प्राग्वृकक्रव्यभुग्रूपमृत्युप्रदा -
न्मङ्क्षु मृत्युञ्जयं योsवति स्मादरात् ।
तन्महाशक्तिरूपामघक्षालिनीं
डङ्कमौनीपुराधीश्वरीं भावये ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:53.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

homomorphic

  • समरुपी 
  • Cyt.(said of chromosome pairs which have the same form and size) समरुपी 
RANDOM WORD

Did you know?

If the rituals after the death are not performed what are the consequences?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site