श्रीलक्ष्मीनारायणस्तुति: [ हरिणी ]
सुरनुतपदाम्भोजद्वन्द्वौ समस्तजगत्पती
विहितविनताल्पाशापूर्त्ती कृपार्णवचेतसौ ।
रुचिरसुगुणप्रीतान्योsन्यौ गजादिवसुप्रदौ
हृदयकमले लक्ष्मौनारायणौ निदधे सदा ॥१॥
प्रमदजलधे: पीयूषांशू विरक्तजनप्रियौ
द्रुतक्रुतनताभीष्टस्पर्शौ निलिम्पनमस्कृतौ ।
द्रविणमुखदस्वीयाङ्घ्र्यर्चौ अशेषकलानिधी
हृदयकमले लक्ष्मौनारायणौ निदधे सदा ॥२॥
अखिलविभवस्पर्शासक्तौ परस्परतोषका -
विहपरसुखप्राप्त्यै नित्यं सुपर्वसतीनुतौ ।
अडमकलितस्वाख्यावर्णौ नतप्रणवप्रियौ
हृदयकमले लक्ष्मौनारायणौ निदधे सदा ॥३॥
Translation - भाषांतर
N/A