संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
विषयानुक्रमणिका

तिष्यसन्तानः - विषयानुक्रमणिका

लक्ष्मीनारायणसंहिता


ओम्
श्रीलक्ष्मीनारायणसंहितायाः चतुर्थखण्डस्यतिष्यसन्तानस्याऽनुक्रमणिका
अध्यायाः
१ - श्रीनरनारायणस्य श्रीमाणिकीस्वरूपबदर्याश्च स्वरूपवर्णनं माहात्म्यकथनं कथाप्रस्तावश्चेत्यादि । १
२ महाभागवतस्य बदराख्यराजर्षेराख्यानं हेमाऽनला- ऽसुरयुद्धं - बदरभयेन भूमध्यशीतवार्धौ चाऽसुराणां प्रवेशनं, बदरस्तुत्या चन्द्रपदत्तचन्द्रकान्तमणेः शीतवार्धौ निक्षेपेण शीतोपलात्मकमहाहिमाद्रि- रूपपरिवर्तनं, चतुर्दशलोकवासिनां दिव्यहिमाद्रौ निवासस्पृहया बदरप्रदत्तवसतयः, स्वर्गीयौषधीनां देवादिभिः रोपितानि वनोद्यानमहारण्यानि चेत्यादि ।
३ - पुनर्हेमानलोत्थानं, शिखरक्षेपाद्युपद्रवाः, बदरेण हरिणा च गर्ते निक्षेपणं, हेमानलस्य पूर्वतपःकथा, वरदानं, श्रीपादाक्रान्तत्ववरप्राप्तिः, श्रीमाणिक्या- यास्तन्मर्दनार्थं बदरीरूपता, तत्पादैर्मर्दनं, श्रीकृष्ण- नारायणस्य नरनारायणरूपता, बदरस्य फलरूपता, नरस्यबीजरूपता, बद्रिकाश्रमतीर्थप्राकट्यमित्यादि । ७
४ - बदराख्यनृपस्य स्वदेहस्यौपयिकतासिद्ध्यर्थं बदरी- मूले तपसा भक्त्या रसात्मकता बदराख्यफलात्मकता चेत्यादि ।
५ - देवादीनां सतत बदरीफलाप्तिवाञ्च्छायां बदर्याः सबीजफलवत्त्वनिष्पादनं, नरस्य बीजरूपता, बदरी- माहात्म्यं चेत्यादि । १३
६ - श्रीशीलस्य सुशीलादिपुत्राणां दाराभाग्यपत्तने राज- सम्मानं, श्रीशीलविप्रस्य मरणं प्रेतता च, तदुद्धाराय बद्रिकाश्रमे श्राद्धे बदरादिदानं प्रेतमोक्षणं चेत्यादि । १५
७ - दाराभाग्यनृपस्य सहस्रमानवयुतस्य बद्रिकाश्रम- यात्रायां साधुसाध्वीरूपबदरीनरनारायणदर्शनं, परीक्षणं, नारायणार्थप्राणदानं प्रसन्नता, व्योम्ना बद्रिकाश्रमप्रापणं, दिव्यदेहवत्त्वं, मोक्षणं चेत्यादि । १८
८ - लूनीग्रामस्य ब्रह्मदेवविप्रस्याऽनपत्यस्य बद्रिकाश्रमे तपसा प्राप्तवरदानबदरफलाभ्यां पुत्रपौत्रीप्राप्तिप्रभृति- निरूपणम् । २१
९ - बालयोगिनीगीतायां सुरेश्वरीविप्राण्यै पुत्रीरूपया बदर्या बालयोगिन्या मुक्तया ब्रह्मभावोपदेशादि । २३
१० - बालयोगिनीगीतायां सुरेश्वर्यै भगवत्प्राप्तिस्थितिप्रभृति पुत्र्याबालयोगिन्याऽभिहितम् । २६
११ - बालयोगिनीगीतायां दास्येन नारायणीस्वरूपता- प्राप्त्यादि । २९
१२ - बालयोगिनीगीतायां नारीणां महाभागवतधर्मा- ढ्यतादिमत्त्वमित्यादि । ३२
१३ - बालयोगिनीगीतायां बालयोगिन्या कथितानां बालयोगधर्माणां निरूपणादि । ३४ १५८ - बालयोगिनीगीतायां परमवैष्णवीयोगविवेचनादि । ३७
१५ - बालयोगिनीगीतायां परब्रह्मप्रेमरसवर्णनं, नाग्नमुखीचारण्याः सतां सेवया श्रीकृष्णनारायणप्राप्तिः, परब्रह्मरसाऽऽप्तिः मोक्षणं चेत्यादि । ४०
१६ - बालयोगिनीगीतायां परब्रह्मरसाऽशनाऽऽप्तये देवलकपत्न्या विनोदिन्या विनोदेन प्रसादितभगवतो ब्रह्मरसायनसाधुरूपसाक्षात्प्राप्तिर्मोक्षणं, देवलकस्य देवलिकात्मकत्वं मुक्तानिकात्मकत्वं चेति । ४३
१७ - बालयोगिनीगीतायां बालयोगिन्या मात्रे बहुरूपधृग्युगलस्य बाहुलकलीलावतीनामकस्य भक्तिवृत्तान्तकथनेन परब्रह्मरसाऽवाप्तिसाधनोक्तिः सप्तदशे श्रीबालकृष्णजन्मदिनोत्सवे निरूपितेत्यादि । ४६
१८ - बालयोगिनीगीतायां मालियानमल्लिकाश्रीभ्यां मालाकाराभ्यां पुष्पफलादिसेवाभिस्तेनैव वर्ष्मणा परब्रह्मरसाऽवाप्त्या दिव्यतोत्तरं ब्रह्माऽक्षरधाम चाऽपुनरागमनाय लब्धमिति । ४९
१९ - बालयोगिनीगीतायां बालयोगिन्या मात्रे उपदिष्टस्य ज्ञानलभ्यस्योत्तमब्रह्मरसस्य निरूपणम् । ५१
२० - बालयोगिनीगीतायां श्रीकृष्णनारायणकान्तोपासनया तद्रसाऽवाप्तिरित्यादि । ५४
२१ - बालयोगिनीगीतायां शाश्वतबालयोगब्रह्मरसप्रद- धर्माणां निरूपणमिति । ५७
२२ - बालयोगिन्याश्चतुर्विधमहायोगवर्णनं मातृवचनेन प्रोद्वाहविध्यर्थम् अनादिश्रीकृष्णनारायणस्य ध्यानो- त्तरमाविर्भावस्तिरोभावश्च, धूनीग्रामम् प्रत्यागमनं, दिव्यवैकुण्ठवत् सम्पत्करणं महीमानसत्कारादि चेति । ६०
२३ - महीमानानां भोजनादि, श्रीहरेः शृङ्गारो मण्डपं प्रतिगमनं, शृङ्गारो मण्डपं प्रतिगमनं, विधिना महोत्सवः कुंकुमवापीं प्रत्यागमनं चेत्यादि । ६३
२४ - श्रीकृष्णनारायणेन निकामदेवाय मोक्षयोग उपदिष्ट इत्यादि । ६६
२५ - परब्रह्मस्वरूपयोगनिरूपणं, विशिष्टाद्वैताऽद्वैतात्मक- परब्रह्मविवेचन चेत्यादि । ६९
२६ - श्रीकृष्णनारायणकृत-निर्भययोगोपदेशोत्तरं निकाम- देवस्य दिव्यज्ञानाप्तिलाभोत्तरं स्तवनं चेत्यादि । ७२
२७ - अनादिश्रीकृष्णनारायणेन निकामदेवाय तत्पत्न्यै सुरेश्वर्यै च सर्वधामधामिरूपस्वदर्शनं दत्तं, द्वयोः सदेहदिव्यमोक्षणं कृतं चेत्यादि । ७४
२८ - भद्रानद्यां पिपठायनर्षियोगेन निगडभ्रमादिकैव- र्त्तानां श्रीकृष्णनारायणाश्रयो मोक्षणं चेत्यादि । ७७
२९ विभावरीपुरीस्थायाः कुथलीसागर्या मृतपितृबान्ध- वाया विप्रगृहे वर्धनं, स्वातन्त्र्येण कृतघ्नतादोषेण सागरपत्नीत्वं, कृतघ्नतायाः फलं राजयक्ष्मा, श्रीकृष्ण- नारायणाश्रयेण राजयक्ष्मविनाशः, मोक्षणं चेत्यादि । ८०
३० - वञ्चयित्र्या विषलाणीनामिकायाः सतां प्रासादिका- ऽन्नजलभोजनादिना विवेकोद्भवः तीर्थेऽनादि- कृष्णनारायणप्राप्त्या मोक्षणं चेत्यादि । ८३
३१ कटकर्त्र्या गङ्गाञ्जन्याः सतां हरेश्च योगेन मोक्षणं रमाञ्जन्या रमात्वं चेत्यादि । ८६
३२ - सौराष्ट्रे फणाग्रामस्थस्य रणस्तम्बकुंभकारस्य पत्न्याः सुनारिण्याः सतां भक्त्या चन्द्रः पुत्रतां प्राप्तः, तत्कुटुम्बस्य कालान्तरे कुंकुमवापीयात्रोत्तरं मोक्षणं चेत्यादि । ८९
३३ - माणिक्यपत्तने हेमसुधानाम्न्याः स्वर्णकारिण्या भक्त्या भगवता दुर्भिक्षेऽसंख्यमानवानां भोजनादि कारितं, मोक्षणं कृतम्, सोऽपि मुक्तिं नीतेति । ९१
३४ - विष्टिनार्या विद्रुमिण्या धनधृक्पत्तनवासिन्याः सत्सं- गेन लक्षाधिमानवानां दिव्यता मोक्षणं, तस्याश्च मोक्षणमित्यादि । ९४
३५ - मालवान्याश्चाण्डाल्या धर्मबलेन सेवाबलेन धर्म- देवतादर्शनं मूर्तिमत्षोडशाऽक्षरमनुदर्शनं शबलिका- योनिपावनतादर्शनं ततः कुंकुमवापिकागमनोत्तरं सकुटुम्बाया मोक्षणं चेत्यादि । ९७
३६ कारेलिकानाम्न्याः शूद्र्या हिताञ्जलिमुनिद्वारा कथाश्रवणेन बोधान्निर्मोहित्वं, तस्याः पञ्चपुत्रीणामपि निर्मोहिनीत्वं, वनान्तरे बद्रिकायनर्षिकृतं तासां परीक्षणं चेत्यादि । १००
३७ - कारेलिकायाः शूद्राण्या मार्जयित्र्या निर्मोहिनीत्व- परीक्षायां बद्रिकायनर्षेर्मूकत्वं, शापनिवृत्तिः, पञ्च- कन्यकानां पञ्चपुत्राणां पत्युश्च मोक्षणमित्यादि । १०३
३८ - यन्त्रकर्त्र्या गोमतीनाम्न्याः शूद्र्याः सकुटुम्बायाः क्षयरोगः, सतां सेवया साधुरूपेण भगवत्प्राप्त्या रोगनाशो मोक्षणं चेति । १०६
३९ - चामठीजातीयायाः कनकांगदायाः सकुटुम्बायाः साधुजनसमागमेन परमभक्त्या साधुरूपेण भगव- त्प्राप्तिर्मोक्षणं चेत्यादि । - १०९
४० - सिन्धुप्रदेशानां नृपयोर्द्यूते सर्वस्वापहारे पतिव्रतायाः शापेन उन्मत्तता गतयोर्भाणवाणीरायहरिनृपयोः श्रेयसे श्रीलक्ष्मीनारायणसंहितायाः कथार्थम् अश्व- पट्टसरोवरक्षेत्रात् साधूनामागमनमित्यादि । १११
४१ - शर्करानगरे संहिताकथारम्भे सर्वलोकवासिनामा- गमः, स्वजन्मजयन्त्यर्थं श्रीकृष्णनारायणस्य चागमः स्वागतादि । ११४
४२ - शर्करापत्तनस्य कथामण्डपे सायं सभायां श्रीहरि- कृतोपदेशो हरेः पूजनं, निशायामुत्सवाः, प्रातर्देवा- दिकृतरहःपूजनं चेत्यादि । ११७
४३ - प्रातर्जन्मजयन्त्युत्सवे नारीकृतं नरकृतं श्रीहरेः पूजनं, भाणवाणीरायहर्योश्च निरामयताकरणं, भोजनं, सायं सभा, साधुत्वविवेचनम्, आशीर्वादाः, रात्रौ विश्रान्तिश्चेत्यादि । १२०
४४ श्रीलोमशक्षेत्रेऽपि द्वितीयरूपेणैकविंशतितमजन्म- जयन्तीदिनोत्सवे श्रीकृष्णनारायणस्योपस्थितिर्लो- मशस्योपदेशो देवादीनां महोत्सवनिर्वर्तनं चेत्यादि ।
४५ - कच्छनृपतिर्माधवरायो हरिं कच्छमानिनाय, श्रीहरिर्नारायणसरसि शिवविष्णुवेधःसरस्वतीनां तीर्थानि कृतवान्, शबलाश्वहर्यश्वानां द्वेधारूपाणि कारयित्वा तीर्थे वासं मोक्षणं च दत्तवान्, भुजङ्ग- नगरे माधवरायनृपतिकुटुम्बं पावयित्वाऽश्वपट्टसर- स्तीर्थमाययौ चेत्यादि ।
४६ - संहिताकथाश्रवणेन संहितापूजनेन च विद्योता- नाम्न्याः कंसारिण्याः, कुभकारस्य नरराजस्य कुटुम्बिनाम्, स्वर्णकारस्त्रिया अम्बालिकायाः, धातुध्मस्त्रिया विनोदिन्याः, नाट्यकारस्य रञ्जनको- विदस्य, कदर्यस्य श्रीरामसुन्दरस्य च, श्रीकृष्णनारा- यणेन मोक्षणं कृतमित्यादि । १३०
४७ - संहिताकथश्रवणेन क्षीरोदवीरनृपतेः रुहारिणीराज्ञी- युतस्य, सहस्राधिप्रजानां, पञ्चपुत्रीसहितायाः सोमिकानाम्नीगणिकायाः, मिथुनकुट्टवासिनीवार- योषितां च मोक्षणमित्यादि । १३३
४८ - संहिताकथाश्रवणेन मद्यपस्य मिष्टासवध्वजिकुटुम्बस्य श्रीहरिणा मार्गे लुण्टकेभ्यः प्राप्तकष्टस्य श्रेष्ठिरूपेण रक्षितस्य मोक्षणं कृतमित्यादि । १३६
४९ - संहिताकथाश्रवणेन चक्रिणो यास्कवादस्य तत्पत्न्या गण्डवातायाश्च सहस्राधिनरनारीभिः सहितायाः श्रीकृष्णनारायणेन मोक्षः कृत इत्यादि । १३८
५० - सर्वनिन्दापरायणयोर्द्विर्वदन्तीद्विर्गर्जनयोर्यमदूतदर्श- नोत्तरं संहिताकथाश्रवणार्थं गतयोः कृपालुर्भगवान् परममुक्तिं कृतवानित्यादि । १४१
५१ - सुरप्रसादनामकविप्रस्य मातापितृसेवाविहीनस्य विद्याप्रदगुरुहत्याविधायिनोऽपि श्रीलक्ष्मीनारायण- संहिताकथाश्रवणेन सतां सेवया च पापनाशो मुक्तिश्चेत्यादि । १४४
५२ - नागविक्रमस्य क्षत्रियस्य तत्सहायिनां च देवद्रोहिणां व्यंगत्वादिमहाकष्टं, युद्धपुरकाराग्रहे पतनं भक्त्या प्रमोचनं, संहिताकथाश्रवणेन तेषां पापनाशो मोक्षणं चेत्यादि । १४७
५३ - शालमित्रनृपतेर्देवजीविकाऽपहरणेन तद्राज्ञ्याश्च महातिसाररुग्णताऽऽयुर्नाशश्चेतिवेदनोत्तरं संहिता- कथाश्रवणार्थं गतयोस्तत्र मुक्तिरित्यादि । १५०
५४ युद्धपत्तननृपतेर्युद्धराजस्य विषप्रयोगात् कन्याकुमार- योव्यसुत्वेऽपि जीवनायनसाधुयोगेन पुनर्जीवितता, शापेन युद्धराजस्याऽऽयुर्विनाशेन याम्यदूताऽऽगमो मृत्युश्च पापफलम्, साधुकृतं पुनर्जीवनं रक्षणं चेत्यादि । १५३
५५ - श्रीजीवनायनेन युद्धराजेन च समं प्रजादीनां कथां प्रतिगमनं तत्र युद्धराजादीनां मोक्षणं, कन्यकादीनां त्यागित्वमितरेषां युवराजेन सह राष्ट्रं प्रत्यागमन- मित्यादि । १५६
५६ - शर्करापुरवासिन्या व्यवसायकारयित्र्या गर्भभ्रूणबालघातिन्या अनंगवल्लर्याः, तत्सखीशतद्वयस्यापि च, संहिताश्रवणादिना मन्त्रव्रतसेवाभजनैश्चापि पाप- निर्मुक्तिर्मोक्षणं चेत्यादि । १५९
५७ - शर्करापुरवासिनां षण्ढप्रजादिषण्ढानां संहिता- श्रवणेन पापनिर्मुक्तिः, श्रीकृष्णनारायणदर्शनेन तैरेव देहैर्दिव्यमुक्तमुक्तानिकात्मकैरक्षरधामप्राप्तिश्च, तथा अन्यगुप्तनपुंसकानां शरणागत्या पुंस्त्वस्त्रीत्वाद्यभि- व्यञ्जकता चेत्यादि । १६१
५८ कराञ्चनीपुरीस्थस्य बहुहत्यापरायणस्य यवसन्धस्य सकुटुम्बस्य संहिताकथाश्रवणेन मोक्षणमित्यादि । १६४
५९ - भाण्डशीलाख्यं भाण्डं सार्धशतभाण्डसहितं, तथा - भवायनत्रिगालवं क्षुपदधीचनाट्यकारिणं बहुभिः सहितं च कथाश्रवणतो हरिर्मुक्तिमनयदिति । १५५
६० - हरिवीर्यादिमल्लानां, हर्षलालादिमृगयूणां, करिव- णादिव्याधानां, च कथाश्रवणादिना मोक्षण- मित्यादि । १६८
६१ - वादिटस्य नागादननामकस्य सकुटुम्बस्य, सारहास- मण्डलीयानां मार्तण्डमण्डलादीनां समस्तानां च कथाश्रवणसाधुसेवनभक्त्यादिभिर्मोक्षणमित्यादि । १७१
६२ - लुञ्चादनस्य विलासदेवविप्रस्य सकुटुम्बस्य राज्यप्रधानस्यापि कथाश्रवणेन साधुदीक्षाग्रहण मित्यादि । १७४
६३ - दुरितघोषनामकस्य प्रधानस्य सकुटुम्बस्य कथा- श्रवणेन त्यागिदीक्षाग्रहणं, धर्मभटनामकाऽमात्यस्य शीलयानीपत्नीसहितस्य मोक्षणं चेत्यादि । १७७
६४ - न्यायकर्तुर्मुकुन्दसावित्रविप्रस्य न्यायाक्षिण्यास्तत्पत्न्याश्च कथाश्रवणादिभिर्मोक्षणमित्यादि । १८०
६५ - कथाश्रवणादिना लेखकस्य विशालरेखस्य सपत्नीकस्य, करणाद्यानां कायस्थानां बहूनाम्, शाहविलापनक्षत्रियस्य सपत्नीदासीदासस्य च मोक्षणमित्यादि । १८
६६ - पूर्वजन्मनि दण्डारणिनामकौलिकस्य गृध्रजन्मनि कथास्थले भगवत्साधुप्रसादोच्छिष्टभोजिनो मोक्षणं, तत्सम्बन्धिगृध्राणामपि प्रसादभोजनेन मोक्षणमिति । १८
६७ - पूर्वजन्मनि धेनुपालस्य गोवाराभिधस्य मार्जारतां गतस्य, पूर्वजन्मनि ठठ्ठोलकाख्यवणिजः शृगालतां प्राप्तस्य, स्वर्णाञ्जनादिशतद्वयकर्मचारिनरनारीणां च प्रसादान्नभोजनाद्यैः सेवया कथया च मोक्षणमित्यादि । १८८
६८ अजापालभरवाटस्य श्येनजन्मनि, अजानां चटकाजन्मसु च, हरेः साधूनां च प्रसादोच्छिष्टभक्षणलाभेन कथालाभेन च मोक्षणमित्यादि । १९१
६९ कथाश्रवणादिप्रसंगेन पुरा सार्थवाटजातीनां दशकपोतानां, तथा पुरा कंकजातीनां शतकाकपक्षिणां, साधोः कृपयोच्छिष्टभोजनादिना च मोक्षणमित्यादि । १९३
७० - कथाश्रवणप्रसादभोजनजलप्रोक्षणादिभिः, पूर्वजन्मनि नाणकिन्याः खवासिन्याः पश्चाद् ग्रहगोधायाः, तथा पूर्वजन्मनि संघवाटादिद्वात्रिंशच्छूद्राणां पश्चान्मूषकाणां च, मोक्षणमित्यादि । १९६
७१ - सागरदानवारुटस्य कोरताराख्यभाटस्य च कथाश्रवणसाधुजनसेवनादिभिर्मोक्षणमित्यादि । १९८
७२ अर्धज्योतिर्विदोऽसत्यप्रदर्शनपापादियुक्तस्य देवगतीश्वरविप्रस्य पुण्यवतीभार्यायुतस्य संहिताकथाश्रवणादिनाऽसत्यप्रदर्शनपापादिनाशेन मोक्ष इत्यादि । २०१
७३ जयमानाख्यबन्दिजनस्य स्तवनेन प्राप्तवैराग्यविवेकस्य वज्रविक्रमनृपतेस्तत्प्रजादीनां च कथाश्रवणादिभिर्मोक्षणमित्यादि । २०४
७४ - सर्पदष्टस्य सप्ताऽब्धिसिंहनृपतेः सूतदत्तमन्त्रनामधुन्ययोगेन संजीवनं, कथाश्रवणेन च मोक्षणमित्यादि । २०७
७५ - कथाश्रवणसेवादानादिभिः प्रसन्नः श्रीहरिः, हर्षनयनाख्यं मागधं, योगिदासाख्यदासं, सौरभसावित्राख्यं ताम्बूलकारकम्, रंगिलाख्यं रंगकारं, डमरूकाख्यं वाद्यकारं, चिह्नरायाख्यं भावसारं रसेश्वरं ग्रामयाजिनं च, मोक्षपदं नीतवानित्यादि । २१०
७६ - कथाश्रवणादिभिः स्वर्णास्तरणप्रभतिविद्याधराणां, चित्रबर्हादिगन्धर्वाणां, किन्नरकिम्पुरुषचारणसिद्धानां च, मोक्षणमित्यादि । १३
७७ - पारायणसमाप्तिप्रसंगोत्सवे समागतत्रिभुवनीयराजप्रजादीनामुद्देशनम् । २१८६
७८ - आषाढशुक्लैकादश्यां संहितापारायणसमाप्तौ श्रीकृष्णनारायणेन देवै राजभिः प्रजाभिः सर्वसृष्टिदेहिभिः संहिताया व्यासस्य गुरोः साधूनां सतीनां द्विजानां महर्षीणां च कृतं पूजनोपदाऽर्पणाऽऽरार्त्रिकादिकं, स्वस्वगृहालयमन्दिरसौधादौ भ्रामणं प्रप्रतिष्ठानादि चेत्यादि । २१८
७९ - अखिलभूपाऽर्थितः श्रीहरिर्नैकरूपधरःसन् सर्वनृपराष्ट्रमन्दिराणि ययौ, पूजां प्रगृह्य पावयित्वा तिरोभूयाऽश्वपट्टसरः प्रत्याययावित्यादि । २२१
८० युद्धपुरेशनागविक्रमस्य सर्वमेधयज्ञं श्रीहरिः सम्पादयामासेत्यादि । २२४
८१ - दिलावरीनगर्या नन्दिभिल्लनृपसैन्यस्य नागविक्रमं जेतुमागमनं, नागविक्रमस्य ससैन्यस्य युद्धार्थं तत्प्रति निर्याणं शकुनाऽपशकुनस्वप्नादीनि चेत्यादि । २२७
८२ - कृष्णेन सह न योद्धव्यमिति गुरोरग्निरातस्योपदेशं स्वानुकूलं नन्दिभिल्लो मत्वा युद्धार्थाऽनुकुलमर्थं विदित्वा युद्धक्षणसूचकशंखध्वानमाचरत्, तत उभयसैन्ययोर्ध्वानानीत्यादि । २३०
८३ - रणसंग्रामे नन्दिभिल्लस्येन्द्रवज्रघातवज्रहरिद्वज्रेतिसेनापतित्रयसहितत्र्ययुतसेनात्मकयोद्धृणां निधनमित्यादि । २३३
८४ - संग्रामे नन्दिभिल्लस्याऽन्यषट्सेऽनापतिसहितानां षष्टिसाहस्रयोद्धृणां च विनाशनमित्यादि । २३६
८५ - रणे धर्मवज्रादिसेनापतीनां नागविक्रमशरणागतिः, विमानयुद्धम्, नन्दिभिल्लनृपमृत्युकालीनस्तवनम्, श्रीहरिकृतमोक्षणम्, दिलावरीसाम्राज्यं नागविक्रमे भगवता निहितमित्यादि । २३९
८६ - गृहगीतायां नन्दिभिल्लपत्न्या दिलावर्याः सतीत्वम्, सस्त्रीकदेवेश्वराऽवतारादीनां परमेशाऽऽज्ञाऽऽत्मकस्त्रीस्वरूपसेविनां मोक्षस्थितिर्मोक्षदातृत्वमित्यादि । २४
८७ - गृहगीतायां गृहाश्रमस्य निकृष्टतोत्कृष्टते, त्यागाश्रमस्योत्कृष्टता चेत्यादि । २४
८८ गृहगीतायां गृहस्थस्य मोक्षोपायाः, त्यागाश्रमे रूक्षता निश्चिन्तता सुखिता च, यथार्थत्यागो यथार्थ- दोषाश्च, गुणता दोषता चेत्यादि । २४
८९ गृहगीतायां सर्वाश्रमिणां संसारमग्नता, विध्याज्ञावतां मग्नता न, स्त्रीपुंसोर्बन्धनाऽबन्धने, सेवादिभिर्मोक्षणं, गृहित्यागिनोर्वैधर्म्यं साधर्म्यं च, गृहित्वयथार्थश्चेत्यादि । २५
९० सर्वधर्मादिवर्जितस्य गृहिणोऽपि मोक्षादिसाधनं गोस्थदेवताः, गोदानं तद्विधिश्चेत्यादि । २५
९१ - धर्मादिहीनानां पापिनामपिगृहाश्रमिणां मोक्षसाधनं साधुसत्संगतिरित्यादि । २५
९२ - श्रीहरेर्द्वाविंशतितमो जन्मजयन्तीदिनोत्सवः, तत्र च वर्धमानपुरेशितुः पुरञ्जयनृपतेः स्वप्ने सर्वनरकभोगः, तत शीघ्रं श्रीकृष्णनारायणसन्निधौ मोक्षणं चेत्यादि । २६
९३ - ब्रह्मणाऽर्थितो भगवान् कोट्यर्बुदाऽब्जपत्नीप्रभृतिसहितः शतयोजनविमानेन बहुकक्षकेण सत्यलोकं ययौ, तत्र दीपोत्सवाऽन्नकूटादिमहोत्सवे ब्रह्मसिद्धयतिमनुप्रभृतिभिः पूजितो हरिस्तान् सुखयित्वा तपोलोकं जगामेत्यादि । २६
९४ - श्रीहरिस्तपोलोकवासिनां पित्रादिदेवगणानां भवनेषु चाऽर्यमादिकृतपूजां प्रगृह्य प्राचीनपितृभ्यो मोक्षं दत्वा जनलोकं प्रजगामेत्यादि । २६
९५ - महर्लोकनिवासिनां मन्दिरेषु रुद्रादिकृतहर्यभ्यर्चनादि, रुद्रस्य ताण्डवनृत्यं चेत्यादि । २६
९६ - स्वर्गलोके मेरौ भुवर्लोके च भगवतो भ्रमणं, श्रीलोमशवापिकां प्रत्यागमनं चेत्यादि । २७
९७ - अतलादिसप्तपातालेषु प्रजानृपादीन् पावयित्वा क्षीरोदधिं श्वेतद्वीपं बद्रिकाश्रमं विशेषतो पावयित्वा भगवान् कुंकुमतीर्थमागत्य स्वस्य चतुर्विंशतितमं जन्मदिनोत्सवं चकारेत्यादि । २७
९८ - जम्बूप्लक्षादिसप्तद्वीपेश्वराणां राज्येषु भगवतो भ्रमणं, पञ्चविंशतितमस्वाऽऽविर्भावजयन्त्युत्सवस्याऽश्वपट्टसरः क्षेत्रे विधानं चेत्यादि । २७८
९९ - वैराजादीश्वरलोकेषु तथाऽवतारधामादिषु गत्वा भगवान् ससार्थः कुंकुमक्षेत्रमाययावित्यादि । २८०
१०० - षड्विंशतिजयन्त्युत्सवोत्तरं वसन्तर्तौ श्रीहरिः सौराष्ट्रीयनदनदीपर्वताऽरण्यसमुद्रपुलिनसिंहाऽरण्यादिषु विहारार्थं गतः, तत्र स्वपत्नीभिः पुत्रार्थं पुत्र्यर्थं च प्रार्थितो रेमे चेत्यादि । २८३
१०१ - अनादिश्रीकृष्णनारायणस्य द्वादशोत्तरशतमुख्यपत्नीनां चैत्रशुक्लतृतीयायां युगलात्माऽपत्योद्भवाऽभिधानानि, तथा तदधिकाऽष्टाविंशतिपत्नीनां तथा कोट्यर्बुदाब्जादिपत्नीनां च युगलात्माऽपत्यादिषु त्वमुकाभिधानोद्देशादि । २८६ १०२ - भगवतो युगलापत्यानां मानसोद्भवानां संख्यादि, संस्काराः, दाम्पत्यं, तत्प्रजाः, युगबलं चेत्यादि । २९०
१०३ - तिष्यमानुषस्वभावानां निरूपणम् । २९२
१०४ - कलिदोषाणां, मोक्षसाधनगुणानां सतां सेवादीनां च प्रदर्शनम् । २९५
१०५ - मायापालनृपस्य नास्तिक्यं महापापानि च, तत्फलानि सदेहस्य याम्यदण्डभोगाः, तद्रक्षार्थं सनत्कुमारागमश्चेत्यादि । २९८
१०६ - कामरूपाधिपस्य मायापालनृपस्य यमपुर्यां सदेहयमलोके यातनाभोगः, सनत्कुमारसाधुना कृतं रक्षणं, राज्यं प्रत्यानयनं, मोक्षणचेत्यादिनिरूपणम् । ३०१
१०७ - कलिधर्माणां संक्षेपतो वर्णनं, सेवाऽर्पणभक्तिध्यानदानकीर्तनेति षट्कान्यतमं मोक्षसाधनमित्यादि । ३०४
१०८ - तिष्यान्ते भगवदपेक्षा, कल्परात्रौ कल्पप्रातर्दिवाऽपि च भगवत्प्राविर्भावादि । ३०७
१०९ - ब्रह्मणः सृष्ट्युत्तरं राज्ञां निर्माणं, दिलावरीराजधानीनृपस्य नागविक्रमस्य तीर्थयात्राविचरणे कुंकुमवाप्यां गमनं, तत्र च समाधिफलं दिव्यतापादनमित्यादि । ३१०
११० - श्रीहरिः स्वपुत्रस्य मुकुन्दविक्रमस्य राज्याभिषेकं कर्तुं दिलावरीराजधानीं ययौ, मण्डपादीन् कारयामासेत्यादि । ३१३
१११ - दिलावरीराजधान्यां मुकुन्दविक्रमस्य राज्याभिषेकोत्सवादि । ३१५
११२ - मुकुन्दविक्रमस्यराज्ञो भगवत्परायणतादिवर्णनम् । ३१८
११३ - श्रीहरेर्निजपत्न्यादीनां परमाक्षरधामाऽवलोकनप्रार्थनां स्वीकृत्य सर्वाभिः सह कोटिविमानैः परमाक्षरधामाभिगमनं, तत्र च मुक्तनरस्वरूपेषु सर्वासां परिवर्तनं तजिज्ञासायाः समाधानं चेत्यादि । ३२१
११४ - परमाक्षरधामनि ब्रह्मप्रियादिभिर्ब्रह्मह्रदोत्तरस्थब्रह्मरससमुद्रतीराद्यवतारः कृतः, महावनपर्वताऽरण्यकोटिशृंगाद्रिवनोपत्यकोद्याननृत्यमण्डपरासमण्डपादीन्यवलोकितानीत्यादि । ३२४
११५ - विमानगा हरेर्विमानमण्डलं, राष्ट्रप्रदेशान्, सुराष्ट्रमण्डलम्, अक्षरधामपुरम्, अनादिमुक्तपुराणि, दिव्यभक्तिकलापान्, अक्षरब्रह्ममहोलम्, असंख्यावतारमहोलानि च संवीक्ष्य परमं धाम प्रति चाऽपासरन्नित्यादि । ३२७
११६ - हृद्यवोधने परेधाम्निदिव्याऽष्टदुर्गराष्ट्राऽनादिमुक्तवसतितदालयैश्वर्यतद्रहस्योपनिषदादिवर्णनमिति । ३३०
११७ - अष्टमदुर्गोत्तरं परधामप्रदेशाः, परब्रह्मपुरदुर्गः, परब्रह्मात्ममुक्तवसतयः, परब्रह्मपुरस्थानां वैमानिकानां स्वरूपद्वयेऽप्यैक्यम्, परब्रह्मपुरे स्वस्वालयेष्ववतरणम्, स्वागतम्, विश्रमणम्, परब्रह्मणः सभायां स्वशाश्वतधिष्ण्य प्रतिगमनमित्यादि । ३३४
११८ - परमधामनि रंगमहोलादिषोडशमहोलानां रहस्यमुक्तेभ्यः प्रदर्शनम्, तदीयर्द्धिप्रदर्शनं, स्वमूर्तौ स्वसृष्टिसर्वर्द्धिप्रदर्शनम्, श्रीकृष्णनारायणमूर्ति-गर्भगताऽनादितादात्म्यमुक्तसृष्टिप्रदर्शनं, तत्स्पृहावतां रहस्यमुक्तानां मूर्तिगर्भतादात्म्यमुक्तिप्रदानं, सप्ताऽऽयतनसमष्टिरूपश्रीहरेर्लोमशतीर्थं प्रत्यागमनं चेत्यादि । ३३३
११९ - भगवान् स्वोपार्जिताऽसंख्यस्मृद्धीनां दानानि चकारेत्यादि । ३३४
१२० - अनादिश्रीकृष्णनारायणस्य वानप्रस्थधर्मोत्तरं यतिदीक्षाग्रहणम्, लक्ष्मीकृतस्तवनम्, लक्ष्मीप्रभृतीनां स्वस्वामिनि शाश्वती लीनता चेत्यादि । ३४०
१२१ - अनादिश्रीकृष्णनारायणस्य मुनिरूपेणाऽपरेण स्वरूपेण श्रीया मनोरथपूरणार्थं पृथिव्यां सर्वतीर्थाभिगमनम्, तिष्यसन्तानस्य समस्तसंहितायाश्चाऽध्यायश्लोकसंख्यानिर्देशः तत्तद्दानादिमहिमा चेत्यादि । ३४
१२२ - श्रीलक्ष्मीनारायणसहितायाः पुरश्चरणविधिः, सार्वभौममहादानविधिः, संहिताधारणायाः फलं चेति । ३७९
१२३ - तिष्यसन्तानविषयाः, बद्रिकानारायणसन्निधौ संहितायाः कुमारीरूपेणाऽऽविर्भावः, श्रीनारायणश्रीकृष्णनारायणश्रीपुरुषोत्तमनारायणश्रीनरनारायणानां स्वस्वशक्तिभिः सह तत्रैव प्राविर्भावः, संहितायै वरदानानि, कथाश्रवणफलं चेत्यादि । ३

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP