संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीश्वरि देवि सर्वादस्य कथां तथा ।महीरायपुरे त्वासीद् दुरितघोषनामकः ॥१॥प्रधानपदभाग् विप्रः सर्वभक्षी यथा जनः ।सर्वादनः सर्वभोजी सर्वहारीति विश्रुतः ॥२॥सर्वाऽऽदानपरः पापी पापाचारोऽतिदूषितः ।प्रसह्य वा प्रसादेन सर्वं गृह्णाति सर्वतः ॥३॥नाऽग्राह्यं नाऽभक्ष्यमस्य किमप्यासीच्च कस्यचित् ।म्लेच्छधर्माऽभवत् पापात् पापिसंगात् पशुर्यथा ॥४॥पूर्वं सुधर्मकर्माऽपि पश्चात् प्रधानतां गतः ।सर्वधर्मविहीनोऽभून्नास्तिको निन्दकः खलः ॥५॥राज्यद्रव्यं तथा पापं मतिभेदकरं हि तत् ।पापमिश्रं प्रजानां तद् धनमन्नं करादिकम् ॥६॥दण्डद्रव्यं निकृष्टं च चौरधनं ततोऽप्यधः ।घातकान्नं गणिकान्नं यथाऽधोनाणकं तथा ॥७॥तत्प्रयोगेण जठरा मलिना मलिनं मनः ।बुद्धेर्मालिन्यमेवापि धर्मे नास्तिक्यमेव तत् ॥८॥सत्कर्मणां परित्यागो दुष्टकर्मानुवर्तनम् ।देवपूजापरित्यागो मोक्षमार्गादिवर्जनम् ॥९॥अभक्ष्ये च ततस्तस्य प्रवर्तना प्रजायते ।सर्वाशनो भवेत् पश्चाद् विप्रोऽपि राक्षसो यथा ॥१०॥एवं दुरितघोषोऽपि बद्रिके मानवोऽपि सन् ।विप्रोऽपि धिष्ण्यसंस्थोऽपि धिक्कृतिं समुपागतः ॥११॥मिलित्वाऽथ समस्ताभिः प्रजाभिः स निराकृतः ।विमानितो निजग्रामान्निष्कासितः कुटुम्बयुक् ॥१२॥ततः शोकं जगामाऽपि धर्मत्यागे हि धिक्कृतिः ।अवमानं प्रजाभ्यश्च देवेभ्योऽपि सदा तथा ॥१३॥धिक्कृतो मानवैर्नैव परलोकाय कल्प्यते ।न गतिः सुभगा तस्य दग्धभाग्यश्च काचन ॥१४॥रुदन्ति पितरश्चाऽस्य कुलदेवा रुषन्ति च ।धर्मो रुठति लक्ष्मीश्च पादौ कृत्वा निवर्तते ॥१५॥सम्मानः स्वागतश्चेति श्रीपुत्रौ विप्रकर्षगौ ।सम्पदो विविधा रम्या विलीयन्ते ह्यधर्मिणः ॥१६॥विघ्नाः कार्येषु जायन्ते स्खलनं च पदे पदे ।पराजयः समग्रेषु नैष्फल्यं चेष्टकर्मसु ॥१७॥आरब्धेषु क्षतिश्चापि प्रारब्धेषु शिलाहतिः ।दुर्भिक्षत्वं फलदेषु निष्फलेषु प्रवर्तना ॥१८॥गृहे कुटुम्बवर्गेऽपि कलिस्तस्य पदे धृते ।नारीपुत्राद्यमानं च श्ववृत्तिवत्तु जीवनम् ॥१९॥ग्रामे सूकरवद्वृत्तिः प्रकाशेऽप्यन्धताऽस्य च ।हृदयेऽपि पापपुञ्जाद् वह्निज्वलनमन्वहम् ॥२०॥आपत्तयः परितश्चागत्यैनं त्वर्दयन्त्यपि ।हरेर्भक्तिं सतां सेवां गुरोः प्राप्तिं हरन्ति च ॥२१॥दानं व्रतं तीर्थयात्रां विरुन्धन्ति क्षणे क्षणे ।अभ्युदयं परं श्रेयः कल्याणं नाशयन्त्यपि ॥२२॥किं बहुना बद्रिकेऽस्य पुरुषार्था वियन्ति च ।निरर्थका हि सर्वे ते ततो यात्यधमां गतिम् ॥२३॥एवं विचार्य बहुधा कल्याणमार्गणं व्यधात् ।शुश्राव जनमुखतः पारायणमहोत्सवम् ॥२४॥चमत्कारान् हरेश्चापि पापिनां पापनाशकान् ।मोक्षदान् दिव्यताऽऽधानान् शुश्राव सकुटुम्बकः ॥२५॥तत्र गन्तुं तदा बुद्धिमकरोत् स निराश्रयः ।सज्जोऽभवद् द्रुतं चाश्वशकट्योष्ट्राऽनसा तथा ॥२६॥योग्यवस्तून्युपकरणानि चादाय सत्वरम् ।प्रतस्थे सकुटुम्बः स स्मरन्नारायणं हरिम् ॥२७॥शर्करानगरं प्राप्य गत्या सभासुमण्डपम् ।महोद्याने कृतावासः कृतस्नानविधिस्ततः ॥२८॥धृतोपदः सकुटुम्बो ययौ व्यासासनं मुदा ।सायं पूजां प्रचकार संहिताव्यासयोर्मुदा ॥२९॥लोमशादेस्ततः पूजां कृत्वा नत्वा सतो जनान् ।सभायां श्रवणार्थं स उपाविवेश मानितः ॥३०॥कथान्ते स प्रचक्रे नीराजनं भावपूर्वकम् ।कृष्णपादामृतं चापि पपौ प्रसादमाश च ॥३ । ॥पूतात्मा सहसा जातो मन्त्रं जग्राह लोमशात् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥३२॥ 'प्रभोनारायणश्रीमन्माधवीन्रायण प्रभो ।जयाकृष्णललिताश्रीकृष्णराधापते विभो' ॥३३॥एवं श्रीकृष्णधुन्यं च जग्राह लोमशादपि ।नित्यं चक्रे नामधुन्यं सतां सेवनमन्वहम् ॥३४॥कथायाः श्रवणं चापि पापक्षयोऽभवत्ततः ।लोमशस्योपदेशेन ब्रह्मकूर्चव्रतं व्यधात् ॥३५॥मासान्तं तस्य मनसि व्यजायत शुभेषणा ।त्यागिदीक्षाग्रहणेच्छा प्रबला संव्यजायत ॥३६॥प्रार्थयत् स व्यासदेवं सोऽपि दीक्षां ददौ ततः ।प्रायश्चित्तोत्तरं श्राद्धं कारयित्वा विधानतः ॥३७॥हवनादि ततः कृत्वा कृष्णनारायणार्हणम् ।पञ्चगव्यं ततः प्राशयित्वा यज्ञोपवीतकम् ॥३८॥ददौ मन्त्रान् शरणं तु प्रथमं रक्षणं ततः ।ब्रह्ममन्त्रं तत आत्मनिवेदनं ततः परम् ॥३९॥सर्वसमर्पणं चापि ददौ काषायवस्त्रकम् ।समस्तवेषं प्रददौ विप्राय तत्स्त्रियै तथा ॥४०॥पुत्रेभ्यश्च चतुर्भ्योऽपि सप्तपुत्रीभ्य इत्यपि ।दीक्षां कण्ठीं तौलसीं च मूर्तिं पूजार्थमित्यपि ॥४१॥कृष्णनारायणमूर्तिं श्रीयुतां प्रददौ तदा ।नामजपं महादीक्षामादाय ते प्रचक्रिरे ॥४२॥जयकारोऽभवत्तेषां सर्वमन्यच्छुभं तथा ।अभवद्वै महादानादिकं तत्र तु दीक्षणे ॥४३॥एवं त्यागाश्रमे तस्थुर्नाम्ना सद्धोषणायनः ।पत्नी नाम्ना महासत्यायनी भागवतोत्तमा ॥४४॥पुत्रा नाम्ना तु वैराग्यायनः शंभ्वायनस्तथा ।योगायनस्तथा ज्ञानायनश्चेत्यभवँस्तथा ॥४५॥पुत्र्यः साध्व्यः सप्त नाम्ना प्रज्ञायनी कृतायनी ।सेवायनी तथा सत्त्वायनी रामायणी तथा ॥४६॥बोधायनी च प्रतिभायनीति वैष्णवीतमाः ।सर्वे ते चाभजन् कृष्णनारायणं प्रभेश्वरम् ॥४७॥कालेन ते ययुर्धामाऽक्षरं श्रीपरमात्मनः ।एवंप्रतापा बदरि संहितायाः कथा परा ॥४८॥पापिनां पापलयदा महापुण्यप्रदा तथा ।अन्ते मोक्षप्रदा दिव्या शाश्वतानन्ददायिनी ॥४९॥अनादिश्रीकृष्णनारायणप्राप्तिप्रदा शुभा ।स्वर्गमुक्तिप्रदा सम्पत्प्रदा सर्वर्द्धिसम्प्रदा ॥५०॥शृणु बद्रीप्रिये देवि कथां चान्यां सुपावनीम् ।दर्दुराख्ये पुरे त्वासीद् विप्रोऽमात्योऽतिबुद्धिमान् ॥५१॥नाम्ना धर्मभटो राष्ट्रयोगक्षेमकरः सदा ।स शुश्राव मनुष्येभ्यो माहात्म्यं बहुलं यतः ॥५२॥कथायाः श्रवणे तेन वाञ्च्छा तस्य व्यजायत ।सपत्नीको ययौ त्वेकहस्तिना वाहनेन सः ॥५३॥परिमेयाऽनुगो नीत्वा धनं तु स्वर्णरूप्यकम् ।स्नात्वा तीर्थजले गत्वा कथामण्डपमुत्तमम् ॥५४॥पूजां चक्रे संहिताया व्यासस्य लोमशस्य च ।सतां सतीनां साधूनां पूजां चक्रे स योगिनाम् ॥५५॥उपदाश्च न्यधात्तत्र स्वप्रकाशस्य सन्निधौ ।स्वर्णं रूप्यं रत्नमणीन् मौक्तिकानुत्तमानपि ॥५६॥पत्नी पुपूज वै तत्र संहितां वाचकं गुरुम् ।साध्वीश्च पूजयामास ददौ ताभ्योऽम्बराणि च ॥५७॥धनानि फलपुष्पाणि भोजनानि ददावपि ।नीराजनं प्रचक्राते ह्युभौ स्वर्णस्य दक्षिणाम् ॥५८॥न्यधातां स्थालिकायां च चक्रतुर्दण्डवन्मुदा ।निषेदतुः सभायां तौ मानितौ च महर्षिभिः ॥५९॥शुश्रुवतुः कथां दिव्या मनोनिःसंगकारिणीम् ।वैराग्योत्पादिकां साधुसेवामाहात्म्यबोधिनीम् ॥६०॥भक्तिशिक्षाप्रदां कृष्णे स्नेहदां दास्यदायिनीम् ।कथान्ते तु महोद्याने सौधे तौ ययतुर्मुदा ॥६१॥एवं प्रशान्तहृदयाबूषतुर्दिनपञ्चकम् ।तावत् सतां सतीनां च चक्राते सेवनं मुधा ॥६२॥पावनौ तौ सेवया च पावितौ पुनरेव ह ।प्रपावितौ च कथया भक्त्या नीतौ च दिव्यताम् ॥६३॥अपश्यतां निशायां तौ निद्रायां माधवीश्वरम् ।अनादिश्रीकृष्णनारायणं श्रीकृष्णचन्द्रकम् ॥६४॥क्षणेनाऽदृश्यतां प्राप्तं दिव्यं श्रिया युतं हरिम् ।अथ तौ सुज्ञातकृष्णमहिमानौ प्रगे द्रुतम् ॥६५॥उत्थाय दर्शनं स्वाप्नं परस्परं मुदाऽऽहतुः ।प्रसन्नौ तौ मिथः श्रुत्वा कृष्णदर्शनमुत्तमम् ॥६६॥मेने धर्मभटो भाग्यं धन्यं नैजं तदा खलु ।पत्नी नाम्ना शीलयानी मेने भाग्यं परं निजम् ॥६७॥स्नात्वा सम्पूज्य देवेशं ययतुस्तौ कथास्थलम् ।तत्र कथाऽन्तिकेऽमात्यसन्निधौ शीलयानिका ॥६८॥गत्वा प्रपूज्य तं व्यासं दृष्ट्वा श्रीकृष्णसन्निभम् ।नारायणसमं व्यासं स्वप्रकाशं समुत्तमम् ॥६९॥देववच्चोज्ज्वलं योग्यमुपावेष्टुं गजासने ।संकल्पं विदधे तत्र तावद् राजाऽपि तद्विधम् ॥७०॥संकल्पं विदधे व्यासं गजस्थं लोकितुं मुदा ।प्रकाशं प्राहतुस्तौ च स्वप्रकाशं समुत्सुकौ ॥७१॥व्यासस्तथास्त्विति प्राह कथान्ते तौ मुदा तदा ।गजं शृंगारितं स्वर्णाम्बालिकासहितं शुभम् ॥७२॥आनयामासतुर्दिव्यं पिशंगं लम्बदन्तिनम् ।ततस्तौ श्रीव्यासदेवं निषाद्य वारणोपरि ॥७३॥ऋषिं च लोमशं चापि निषाद्य तत्र वारणे ।धर्मभटो दधे स्वर्णचामरं लोमशोपरि ॥७४॥शीलयानी दधे स्वर्णचामरं वाचकोपरि ।वाद्यनादैर्जयनादैः साध्वीसाधुसुकीर्तनैः । ७२॥वन्दितौ पूजितौ मार्गे भक्ताभिवर्धितौ सुमैः ।सिन्धुतटं ययतुस्तौ गजेनाऽमात्यवाञ्च्छया ॥७६॥जलपानादिकं कृत्वा स्नात्वाऽमात्यालयं ततः ।ययतुस्तत्र तौ पत्नीपती पुपूजतुर्गुरू ॥७७॥आरार्त्रिकं व्यधातां च स्वर्णपात्रे धनानि च ।कम्बलानि विचित्राणि कौशेयान्यम्बराणि च ॥७८॥मणिरत्नादिहाराँश्च हीरकाढ्यविभूषणम् ।बहुधा सुविभूषाश्च फलपुष्पादि सम्पदः ॥७९॥ददतुस्तौ ततः पादार्चनं श्रीचन्दनादिभिः ।चक्रतुर्भावतश्चारार्त्रिकं स्तुतिं च दण्डवत् ॥८०॥प्रणामान् चक्रतुश्चाथ ततो मन्त्रं तु वाचकात् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८१॥ज्जगृहतुस्तथा नाम श्रीकृष्णचन्द्रकेति च ।प्रभोनारायण श्रीमाधवीनारायणप्रभो ॥८२॥जयाकृष्णललितान्रायण राधापते विभो ।नामधुन्यं जगृहतुस्ततो पादजलं शुभम् ॥८३॥प्रसादं जगृहतुश्च निषाद्य वारणोपरि ।महोत्सवयुतौ व्यासगुरू चामरराजितौ ॥८४॥प्रापयामासतुः स्थानं संहितामण्डपं पुनः ।एवं श्रीकृष्णचन्द्रस्य स्वरूपं व्यासमन्वहम् ॥८९॥भावभक्त्या सिषेवाते तौ द्वौ तल्लग्नमानसौ ।शृणु बद्रीप्रिये देवि चमत्कारं हरेस्ततः ॥८६॥विद्यमाने वारणेऽपि त्वादाय दिव्यवारणम् ।तमेव वारणं कृष्णश्चारुह्य श्रीसमन्वितः ॥८७॥तयैव दिव्यकानक्याऽम्बालिकया विराजितम् ।तौ द्वौ धर्मभटं शीलयानीं नेतुं हरिः स्वयम् ॥८८॥समाययौ व्योमसृत्या घण्टानादेन नादयन् ।अम्बरं तेजसा सर्वं धवलयन् कृपानिधिः ॥८९॥चैत्रकृष्णद्वादश्यां वै पश्यतां दिव्यचक्षुषाम् ।कथोत्तरं तु मध्यान्ते त्वाययौ भगवान् प्रभुः ॥९०॥उवाच प्रहसन् धर्मभट! एहि परं पदम् ।शीलयानि समायाहि मुक्तिपदं परं पदम् ॥९१॥श्रुत्वा श्रीभगवद्वाक्यं त्यक्तसंसारबन्धनौ ।उभौ सज्जावभवतां तूर्णं धृत्वा करे जलम् ॥९२॥हस्तिदानादि सर्वं श्रीव्यासदेवाय च तदा ।धर्मभटः शीलयानी ददतुश्च धनादिकम् ॥९३॥अनादिश्रीकृष्णनारायणेच्छया तु बद्रिके ।दिव्यदेहौ मुक्तरूपावजायतां मनोहरौ ॥९४॥वारणं चारुरुहतुः पुष्पवृष्टिस्तदाऽभवत् ।पश्यतां सर्वलोकानां गजेन व्योमगामिना ॥९५॥हरिर्निनाय तौ तूर्णं निजं धामाऽक्षरं शुभम् ।जयकारस्तदा सर्वलोकेषु प्राभवन्मुहुः ॥९६॥चमत्कारं समाकर्ण्य जना विस्मयमाप्नुवन् ।भक्तोऽमात्यो ययौ धामाऽक्षरं धन्यजनुर्भुवि ॥९७॥धन्या सा शीलयानी च पत्या सार्धं ययौ दिवम् ।इत्येवं प्रशशंसुर्वै मानवाः सर्वतः स्थिताः ॥९८॥बद्रिके संहितायास्तु श्रवणेन प्रमोक्षणम् ।नूनं प्रजायते सर्वपापानां चात्मनां तथा ॥९९॥पठनाच्छ्रवणादस्य चिन्तनादपि मोक्षणम् ।इष्टसिद्धिः समस्ता च भुक्तिर्मुक्तिस्तथा भवेत् ॥१००॥यत्र क्षणे यदा कृष्णो यद्देशे चाभियाति वै ।गन्तव्यं तेन साकं वै मायां त्यक्त्वाऽतिबन्धिनीम् ॥१०१॥कर्तव्यं तु तदेवाऽस्ति यन्मायामोक्षणं व्रतैः ।भक्त्या धामाऽक्षरप्राप्तिस्तत्र श्रीहरिसेवनम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दुरितघोषनामकस्य प्रधानस्य सकुटुम्बस्य कथाश्रवणेन त्यागिदीक्षाग्रहणं, धर्मभटनामकाऽमात्यस्य शीलयानीपत्नीसहितस्य कथाश्रवणेन मोक्षणं चेत्यादिनिरूपणनामा त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP