संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६० Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां मल्लप्रमोक्षिणीम् ।श्रीकारनगरे त्वासन् मल्लास्तद्युद्धकोविदाः ॥१॥पञ्चाशत्संख्यकाः श्रेष्ठाः कृताभ्यासा दृढास्थिनः ।अन्येऽपि मल्लवर्गस्य कुटुम्बिनोऽभवँस्तथा ॥२॥नरा नार्यश्च ते यान्ति नित्यं कथाश्रवाय वै ।श्रुत्वा नित्यं समायान्ति गृहाणि वर्णयन्ति च ॥३॥गृहस्थेभ्यः कथां दिव्यां श्रुतां यां मोक्षकारिणीम् ।तथा वदन्ति दृष्टं यं चमत्कारं विमानजम् ॥४॥ये ये मोक्षं प्रयान्त्येव तां तां वार्तां वदन्त्यपि ।ततो मल्लाः प्रसन्नाश्च कथास्थलीं ययुर्दृढाः ॥५॥बहुभिः स्वजनैः साकं मण्डपान्तमुपस्थिताः ।कथान्ते ते मल्लयुद्धं महाश्चर्यकरं व्यधुः ॥६॥लोमशस्तु प्रसन्नः सन् मन्त्रं तेभ्यो ददौ मुदा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥'७॥नामसंकीर्तनार्थं च भजनं प्रददौ तदा ।प्रभोनारायणस्वामिनारायण नरायण ॥८॥अनादिमाधवीकृष्णनारायण रमायण' ।मल्लास्ते सकुटुम्बा वै भजनं चक्रिरे सदा ॥९॥कथाश्रवणमेवापि नित्यं नित्यं प्रचक्रिरे ।सतां सेवां व्यधुः प्रेम्णा पूजनं वाचकस्य च ॥१०॥आरार्त्रिकं संहितायाश्चक्रिरे धर्ममानसाः ।दानानि स्वर्णरत्नानां भूषापात्रान्नवाससाम् ॥११॥चक्रिरे मुद्रिकाणां च गवां दानानि चक्रिरे ।भेजुः श्रीपरमात्मानं शुश्रवुः संहिताकथाम् ॥१२॥पवित्रास्ते प्रजाता वै निष्पापा वासनोज्झिताः ।मुक्तियोग्यास्तु ये जाता वृद्धा नार्यो नरा अपि ॥१३॥तेषामग्रेसरा नाम्ना हरिवर्यो गजक्रमः ।शतवाजः सिंहमर्दः शरभार्दः कसेरुकः ॥१४॥द्रुमभञ्जो वंशवारः शिलादो लोहपेषणः ।इत्येवमाद्याश्चान्येऽपि कृतकृत्या निराशयाः ॥१५॥प्रदग्धवासना जाता नार्योऽपि वृद्धयोषितः ।प्रतीक्षन्ते तु मुक्त्यर्थं सविमानागमं हरेः ॥१६॥सायं चैत्रामावास्यायां कथान्ते कृतपूजनाः ।सज्जा ये चाऽभवन् तांस्तु नेतुं कृष्ण उपाययौ ॥१७॥दिव्यविमानसहितो दिव्याभरणभूषितः ।श्रिया लक्ष्म्या पद्मया च रमया सह तेजसा ॥१८॥प्रकाशयन् दिशो हरिर्हसन् मल्लानुवाच ह ।मोक्षयोग्या भवन्तो वै मोक्षपुण्याभिभागिनः ॥१९॥विहाय भौतिकान्देहानारोहन्तु विमानकम् ।इत्युक्ता मल्लभक्तास्ते ये सज्जा गन्तुमक्षरम् ॥२०॥नरा नार्यश्च ते देहान् विहाय दिव्यमूर्तयः ।भूत्वा कृष्णेच्छया तूर्णमारुरुहुर्विमानकम् ॥२१॥सर्वा मुक्तानिका मुक्ता दिव्यात्मानः सुरूपिणः ।भूत्वा श्रीकृष्णदासाश्च जयशब्दान् प्रचक्रिरे ॥२२॥तान्नीत्वा श्रीकृष्णनारायणो बद्रीश्वरि निजम् ।धामाऽक्षरं ययौ व्योम्ना सर्वेषां पश्यतां सताम् ॥२३॥तेषां देहानपरे तु शिष्टा मल्लकुटुम्बिनः ।नीत्वा प्रदाहयामासुश्चोर्ध्वदैहिकमाचरन् ॥२४॥चमत्कारो महाँश्चायं प्रससाराऽतिवेगतः ।देशे ग्रामेषु मल्लानां मोक्षात्मकोऽतिमानवः ॥२५॥शृणु बद्रीप्रिये देवि चमत्कारं तथाऽपरम् ।वार्धूषिकाश्च गोधादा लूणीनगरवासिनः ॥२६॥दन्तधावनविक्रेतारश्च कुटुम्बिनस्तदा ।श्रुतवन्तो मानुषेभ्यः प्रशंसां परमात्मनः ॥२७॥कथायाश्च चमत्कारं पापिनां पापनाशनम् ।मोक्षं दिव्यविमानेन यानं श्रीकृष्णदर्शनम् ॥२८॥तेन प्रजातजिज्ञासा नरा नार्यश्च संहिताम् ।श्रोतुं कृतादराः सज्जा बभूवुर्वृद्धसंहिताः। ॥२९॥बालाश्च बालिकाश्चापि शतं ते मानवाः सुखम् ।वृषभैर्निजसामग्रीर्नीयमानाः शनैः शनैः ॥३०॥वाघ्घरयः श्रौकृष्णं श्रीनारायणं परेश्वरम् ।स्मरन्तः प्रययुः सिन्धुजले सस्नुस्ततो द्रुतम् ॥३१॥भक्षयित्वा तु पाथेयं प्रययुर्मण्डपान्तिकम् ।उद्याने वृषभाऽऽवासं चक्रिरे तरुषण्डके ॥३२॥ततः श्रोतुं कथां नीत्वा पूजासामग्रिकाः शुभाः ।व्यासासनं कथास्थानं ययुर्भावभराश्च ते ॥३३॥पुपूजुः परया भक्त्या भावप्रकाशवाचकम् ।लक्ष्मीनारायणसंहितां पुपूजुः समाहिताः ॥३४॥उपदा फलपुष्पाणि स्वर्णमुद्राः पुरो न्यधुः ।वस्त्रभूषामालिकाश्च मणिहारान् ददुस्तथा ॥३५॥गुञ्जाहारान् पुष्पहारानक्षतान् निदधुः पुरः ।धूपं दीपं च नैवेद्यं कुंकुमाऽगुरुचन्दनम् ॥३६॥समर्प्याऽऽरार्त्रिकं चक्रुः सर्वे चक्रुश्च दण्डवत् ।दक्षिणां रूप्यमुद्राश्च पुरो न्यधुस्ततः कथाम् ॥३७॥शश्रुवुर्भावतश्चापि पुपूजुर्लोमशं मुनिम् ।सतां सेवामाश्रमेषु गत्वा चक्रुरहर्निशम् ॥३८॥एवं वार्धूषिकाः सर्वे कथासेवाविधानतः ।गतपापा विशुद्धाश्चाऽभवन् तेभ्यस्तु लोमशः ॥३९॥मन्त्रं संश्रावयामास नामधुन्यं ददौ तथा ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥४०॥ 'प्रभोनारायणस्वामिन्मालतीन्रायणप्रभो ।जयाकृष्णललितान्रायणराधापते विभो' ॥४१॥प्राप्य मन्त्रं नामधुन्यं जेपुश्चक्रुः सदा प्रगे ।सायं त्वेवं कथां श्रुत्वा जेपुश्चक्रुः समागताः ॥४२।नित्यं चानाय्य ददति दन्तधावनकान्यपि ।बर्बुरादिद्रुमाणां वा क्षीरवतां सुशाखिनाम् ॥४३॥तनुशाखान्तलभ्यानि मृदूनि सुरसानि च ।एवं गत्वा पार्श्ववने त्वानयन्ति मधून्यपि ॥४४॥समर्पयन्ति साधुभ्यो वाचकाय महर्षये ।कृष्णनारायणस्यापि पूजार्थमर्पयन्त्यपि ॥४५॥आनयन्ति च समिधः काष्ठानि धुनिहेतवे ।मृत्तिकां चानयन्त्यत्र सेवन्ते साधुयोगिनः ॥४६॥एवं सर्वे क्रोष्टृव्याधा वैष्णवाः सेवयाऽभवन् ।पावनाः पापहीनाश्च कथाश्रुतेर्विवासनाः ॥४७॥मासान्ते श्रीप्रभुर्नारायणः श्रीमाधवीश्वरः ।कृष्णः प्रसन्नस्तेषां वै स्वप्ने साक्षात्तदाऽभवत् ॥४८॥चतुर्भुजः श्रीसहितः कृतसेवादिवस्तुयुक् ।हसन् दिव्यस्वरूपश्च सहस्रसूर्यभायुतः ॥४९॥क्षणात्तिरोऽभवच्चापि ततस्ते प्रातरेव ह ।उत्थाय तूर्णं संस्नात्वा प्रसन्ना लोमशं ययुः ॥५०॥पूजयित्वा तु वृत्तान्तं स्वाप्नं न्यवेदयन्मुदा ।लोमशोऽपि समाकर्ण्य प्राह क्रोष्टृहणः शुभम् ॥५१॥युष्माकं पातकं नष्टं पुण्यमभ्युदितं बहु ।देवानां दुर्लभं कृष्णदर्शनं व उपस्थितम् ॥५२॥यूयं योग्या मोक्षपदे नेतुं वित्त हि सर्वथा ।भगवान् श्रीकृष्णनारायणो नेष्यति वस्ततः ॥५३॥सज्जा भवत वृद्धाद्या ये वाञ्च्छन्त्यक्षरं पदम् ।नारायणः स्वयं लक्ष्मीपतिः समागमिष्यति ॥५४॥इत्युक्तास्ते वाघ्घरयोऽभवन् सज्जास्तु मुक्तये ।वृद्धा नार्यो नराश्चापि प्रतीक्षन्ते तदागमम् ॥५५॥चैत्रकृष्णामावास्याया रात्र्यन्ते प्रतिपद्दिने ।प्रातरेव समायातः श्रीकृष्णः पुरुषोत्तमः ॥५६॥चैत्रशुक्लाऽऽद्यदिवसे शुक्लातिशुक्लरूपवान् ।उज्ज्वलः श्रीसहितः श्रीकृष्णनारायणः स्वयम् ॥५७॥सर्वभूषाप्रभूषितः सर्वथा सौम्य ईशिता ।विमानेन द्रुतं चाऽवातरत् पृथ्व्यां पुरःक्षितौ ॥५८॥आश्चर्यं परमं जातं समुज्ज्वलं तदाऽम्बरम् ।जयनादाः सुराणां च पुष्पवृष्टिर्दिवौकसाम् ॥५९॥अभवन् परितस्तत्र क्रोष्टृहन्तॄनुवाच सः ।आयात संप्रसन्नोऽस्मि भक्त्या कथाश्रवेण च ॥६०॥साधूनां सेवया चापि मन्नामकीर्तनेन च ।पावनाः स्थः समायात विमानं मोक्षनेतृ मे ॥६१॥श्रुत्वा तु बद्रिके ये ये सज्जा गन्तुं परं पदम् ।अभवँस्ते द्रुतं देहाँस्त्यक्त्वा तत्र हि भौतिकान् ॥६२॥विमानं ते दिव्यदेहा भूत्वाऽऽरुरुहुरुत्सुकाः ।हर्षलालादिनामानो नत्वा श्रीपतिमीश्वरम् ॥६३॥श्रियं नत्वा नरा नार्यो मुक्ता मुक्तानिकास्तदा ।श्रीकृष्णेन प्रणीतास्ते ययुर्ब्रह्माऽक्षरं पदम् ॥६४॥सर्वेषां पश्यतां बद्रि परं मोक्षं ययुर्हि ते ।कृपया श्रीकृष्णनारायणस्य च कथाबलात् ॥६५॥अथाऽन्यत्ते कथयामि महाश्चर्यं तदा तथा ।शृणु बद्रीप्रिये देवि शृण्वतां पापनाशकम् ॥६६॥कश्चिन्मृगयुरभवत् सिन्धुवने कुटुम्बवान् ।दृष्टवानम्बरे तेजः प्रातरेव विमानकम् ॥६७॥मुमुदे वीक्ष्य सहसा कुटुम्बेन समन्वितः ।तस्याऽभवत्ततो बुद्धिः शुद्धा मोक्षाभिगामिनी ॥६८॥हिंसां विहाय पापानां नाशार्थं सकुटुम्बकः ।कथास्थलं ययौ तत्र पुपूज लोमशं मुनिम् ॥६९॥न्यवेदयत् स्ववृत्तान्तं पापनाशनहेतुकम् ।कथां श्रोतुं तथा मन्त्रं चाप्तुं गन्तुं परं पदम् ॥७०॥लोमशस्तं कीरवणं मृगयुं प्राह वै व्रतम् ।स्नानं प्रपूजनं मालावर्तनं सेवनं सताम् ॥७१॥नित्यं कथायाः श्रवणं कीर्तनं कमलापतेः ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥७२॥ददौ मन्त्रं हरेः पादवार्यमृतं ददौ तथा ।प्रसादं च ददौ ब्रह्मकूर्चं व्रतं ददौ ततः ॥७३॥कीरवणादयः सर्वे कुटुम्बिनो व्यधुर्व्रतम् ।भजनं सेवनं कथाश्रवणं रटनं सदा ॥७४॥एवं मासे गते साक्षात् कृष्णनारायणः प्रभुः ।आययौ साधुरूपो वै द्रुतं कीरवणं प्रति ॥७५॥भिक्षां ययाचे सहसा फलपुष्पादिभोजनाम् ।पात्राम्बरादिरूपा च नार्यर्पणात्मिकामपि ॥७६॥प्रसन्नः स कीरवणो वीक्ष्य साधुं समुज्ज्वलम् ।नारायणं विचिन्त्यैव ददौ नारीं फलादिकम् ॥७७॥निःसंशयं निजं भक्तं भक्तां परीक्ष्य माधवः ।साधुरूपादाविरास विष्णुरूपश्चतुर्भुजः ॥७८॥प्राप्त्वा फलं प्रपस्पर्श नारीं नरं कुटुम्बकम् ।दक्षकरेण भगवान् तावत् कीरवणादयः ॥७९॥दिव्यदेहा द्रुतं जाता दिव्यरूपाढ्यमूर्तयः ।विष्णुर्नारायणस्ताँश्च सर्वस्वदानकारिणः ॥८०॥शरणागतभक्तान् वै विमानेन सुवर्चसा ।अनयद् ब्रह्मलोकं वै पश्यतां देहधारिणाम् ॥८१॥बद्रिके सा कृपा स्वामिकृष्णनारायणस्य वै ।मृगयुं त्वनयत् कृष्णो यन्निजं धाम चाक्षरम् ॥८२॥श्रीबद्रीप्रियोवाच-कथं वै भगवन्नारायण विष्णो जगत्पते ।हिंसकस्याऽभवद् व्योम्नि विमानस्याऽस्य दर्शनम् ॥८३॥श्रीनरनारायण उवाच-बद्रीप्रिये वने नित्यं साधुसेवापरः स हि ।फलपुष्पादिभिश्चापि विश्रान्तिसंप्रदानकः ॥८४॥सतां पादादिसंवाहसेवाकृत् सकुटुम्बकः ।नारायणम्प्रभुं कृष्णं जपन् सत्संगकारकः ॥८५॥तेन योगेन देवेशि निर्मलात्मा सुपुण्यवान् ।त्यक्तमृगयाधर्मः स पश्चकालादवर्तत ॥८६॥एवमासीत् पुण्यशाली साधुभक्तोऽतिभाववान् ।ततोऽस्य श्रीविमानस्य दर्शनं त्वभवत्तदा ॥८७॥बद्रिके ये भागवतास्ते तु कृष्णप्रतापिनः ।दिव्यदृष्टयः पश्यन्ति दिव्यं कृष्णं विमानकम् ॥८८॥ये पापा दोषभृद्देहा दोषात्मानश्च दोषिणः ।नास्तिका भक्तिहीनाश्च सतां विद्वेषिणस्तथा ॥८९॥तेषां नैवाऽस्ति निस्तारस्तेषां न दिव्यदर्शनम् ।तेषां न योगः सुभगो मोक्षदः स्वर्गदोऽपि वा ॥९०॥अपि सत्संगपार्श्वे ये वसन्तोऽपि तु नास्तिकाः ।तेषां सत्संगलाभो न न पुण्यं नैव मोक्षणम् ॥९१॥अपि दूरे वसन्तो ये स्नेहवन्तो हरौ सति ।सत्सु तादात्म्यहृदयास्तेषां पुण्यं च मोक्षणम् ॥९२॥बद्रिके बाह्यसद्भिश्च सहाऽऽन्तरिकसाधवः ।मेलनीयाः प्रयत्नेन तदा मुक्तिः करे स्थिता ॥१३॥बाह्यतो न सतां योगश्चान्तरे विषयान्वितः ।तादृक् सत्संगहीनस्य न स्वर्गं न परा गतिः ॥९४॥बद्रिके वै जगत् सर्वं मायाविकृतिशोभनम् ।अन्तर्नग्नं बहिश्छन्नं गार्हस्थ्यं सुतरां तथा ॥९५॥सदा विषयचित्तात्म सदा भोगपरायणम् ।बर्हिः सुवेषमपि तन्नग्नं न याति मोक्षणम् ॥९६॥बद्रिके साधवः शान्ता जितेन्द्रिया हरौ स्थिराः ।अन्तर्विषयहीनाश्च बहिर्दिग्वाससोऽपि च ॥९७॥ब्रह्मगुणैर्दिव्यवस्त्रैश्छन्ना विभूषितास्तु ते ।अविकृता अकामाश्च वासनाविषवर्जिताः ॥९८॥स्त्रीपुंभानविहीनास्ते सुवेषाः साधवो मताः ।तेषां योगेन पापानां विनाशो ब्रह्मदर्शनम् ॥९९॥आत्मना दिव्यताप्राप्तिरैश्वर्याणां समर्जनम् ।मोक्षप्राप्तिर्हरेः प्राप्तिः सतां योगेन जायते ॥१००॥कालनाशस्तथा मायानाशः कर्मविनाशनम् ।बन्धनाशो वासनानां क्षयः सद्योगतो भवेत् ॥१०१॥एवं मृगयुश्चारण्ये साधुसेवापरायणः ।बीजबलवान् कृष्णस्य विमानं समलोकयत् ॥१०२॥पठनाच्छ्रवणादस्य स्वर्गो मुक्तिर्भवेदपि ।भुक्तिः स्यात्तु सकामानां साधुसंगाद्धि मोक्षणम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने हरिवीर्यादिमल्लानां, हर्षलालादिमृगयूणां, कीरवणादिव्याधानां च कथाश्रवणादितो मोक्षणमित्यादिनिरूपणनामा षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP