संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६१ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि लीनक्षारनिवासिनः ।नागादस्य कथां चापि पापतापप्रणाशिनीम् ॥१॥लीनक्षारे तु नगरे नागखेलकरः सदा ।सर्पपालोऽभवद् वादी नागादनामकः खलु ॥२॥वादिकुटुम्बकं तत्र वर्तते सर्पपालकम् ।नकुलानां च सर्पाणां शीलानां युद्धदर्शकम् ॥३॥आरण्यकपशूनां च सरीसृपाणां पालकम् ।वानराणां च ऋक्षाणां कुक्कुटानां च पालकम् ॥४॥पशूनादाय राष्ट्रेषु राष्ट्रान्तरेषु याति हि ।पशुपक्षिसरीसृपखेलनैर्जीववृत्तिकाम् ॥५॥उत्पाद्य निर्वहत्येव ग्रामे ग्रामे भ्रमत्यपि ।पक्षिपशून् भक्षयति पशुवद् वर्ततेऽपि च ॥६॥पोषणार्थं भ्रमत्तद्वै कुटुम्बं शर्करापुरम् ।आययौ तत् सिन्धुतटे वृक्षषण्डे समीपतः ॥७॥मण्डपान्नातिदूरे च कथाशब्दाभिसारिणि ।स्थले वासं विधायैव तस्थौ जीवनहेतवे ॥८॥मानवानां तु सम्मर्दे खेलं दर्शयति प्रगे ।मध्याह्ने च तथा सायं जना ददति भोजनम् ॥९॥अन्नं वस्त्रं च पिष्टं चाऽक्षतान् वस्त्राणि दुग्धकम् ।शर्करां च गुडं शाकं पात्रं फलं दलादिकम् ॥१०॥घृतं तैलं चेक्षुदण्डं घासं कणान् सुपोलिकाः ।रोटकान् चणकान् भक्ष्यं ददत्येव दयावशाः ॥११॥नागादनादयस्तेऽपि वादिटाः सर्पकीशयोः ।सर्पनकुलयोश्चापि प्रदर्श्य खेलनं मुहुः ॥१२॥लोकान् प्ररञ्जयन्त्येव वृत्तिनिर्वाहहेतवे ।अथैवं खेलनं कृत्वा यथाकाले कथार्थिनः ॥१३॥वादिटास्ते कथां श्रोतुं सायमायान्ति नित्यशः ।पूजनं व्यासदेवस्य संहितायाश्च पूजनम् ॥१४॥साधूनां लोमशादेश्च कुर्वन्त पूजनं शुभम् ।उपदाश्चार्पयन्त्येव फलपुष्पाम्बरादिकम् ॥१६॥एकदा स्वपशूनां ते सभारञ्जनहेतवे ।व्यधुः खेलं सभारंगे सतां प्रसन्नताप्तये ॥१६॥भल्लुकानां च ऋक्षाणां कीशानां वृश्चिकस्य च ।कुक्कुटानां भोगिनां च नकुलानां च मेषयोः ॥१७॥रञ्जिताः खेलनैः सन्तः प्रसादं ते ददुस्तदा ।मिष्टान्नानि भोजनानि फलानि पिष्टकानि च ॥१८॥शर्कराश्च पयः सूपौदनानि भाजिकास्तथा ।पोलिकाः पूरिकाश्चापि शष्कुलीलड्डुकानपि ॥१९॥पायसान्नमपूपानि शाकान्युच्चावचानि च ।रन्धितान्नानि चणकान् संस्कृतान् पाचितान् शृताम् ॥२०॥चटनीं दधिदुग्धानि तक्राणि कृसराणि च ।महाभोज्यानि सर्वाणि वादिटेभ्यस्तु साधवः ॥२१॥ददुः प्रसादरूपाणि पशुभ्योऽपि शुभानि च ।प्रसादान्नानि सर्वाणि ददुः पयांसि यानि च ॥२२॥हरेः पादामृतं वारि ददुस्तेभ्यो दयान्विताः ।बुभुजुस्ते हृष्टचित्ता वादिटाः सर्वशस्तदा ॥२३॥पशवोऽपि प्रसादेन तृप्ताः किं वादिटाः पुनः ।पावनाः पापशून्यास्तेऽभवन् प्रसादभोजनात् ॥२४॥कथानां श्रवणैश्चापि सत्त्वचित्तास्ततोऽभवन् ।मोक्षार्थमर्थयामासुर्लोमशं श्रेयसे मुहुः ॥२५॥लोमशः प्रददौ तेभ्यो मन्त्रं नाम हरेरपि ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥२६॥प्रभोनारायणस्वामिन्माधवीन्रायणप्रभो ।जयाकृष्णललितान्रायणराधापते विभो ॥२७॥अथैवं प्राप्य मन्त्रं ते नामधुन्यं प्रमुक्तिदम् ।वैष्णवाः परमा जाताश्चक्रुस्ते भजनं हरेः ॥२८॥मासान्ते पावनानां वै प्रसन्नः श्रीनरायणः ।चैत्रस्यैव श्वेतपक्षे तृतीयायां श्रियः पतिः ॥२९॥भगवानाययौ तेषां श्रेयसे सविमानकः ।अनादिश्रीकृष्णस्वामी वल्लभो हि महाप्रभुः ॥३०॥विमानात् सहसा सायं चावातरत् सभास्थले ।कथोत्तरं स्वयं कृष्णो जगाद वादिटान् हितम् ॥३१॥आयात वादिटा यूयं मोक्षार्थं मद्विमानके ।ये सज्जास्त्विह मोक्षार्थं तेषां करोमि मोक्षणम् ॥३२॥कृपया चागतस्त्वत्र वो ददामि कथाफलम् ।इत्युक्ता मोहमापन्नाः स्वामिनिकृष्णमाधवे ॥३३॥वादिटाश्चाबालवृद्धाः पञ्चाशन्नरयोषितः ।शतेन सहिताः पक्षिपशुवृश्चिकभोगिनाम् ॥३४॥अन्यैश्च पशुभिः सर्वैः सहिताः श्रेय आर्थयन् ।प्राहुः श्रीपरमात्मानं पश्वाद्या बालका हि नः ॥३५॥तान् विहाय कथं कृष्ण यास्यामः श्रेयसे वयम् ।तान् समुद्धर भगवन् शरणागतवत्सल ॥३६॥एतेषां न भवेन्मुक्तिः प्रत्यक्षं मापतिं विना ।तिर्यग्योनिगतानां वै ततस्त्वं तान् समुद्धर ॥३७॥इत्यर्थितो हि भगवान्ननादिश्रीनरायणः ।वादिटैः सह पश्वादीन् जलेन प्रोक्ष्य तत्क्षणम् ॥३८॥दिव्यदेहान् विधायैव मुक्तरूपान् चतुर्भुजान् ।देवाकृतीन् समस्ताँस्तान् विमाने न्यस्य यावतः ॥३९॥सर्वेषां पश्यतां निन्ये धामाऽक्षरं निजं हरिः ।नागादनादयः सर्वे कृपया सेवया श्रुतेः ॥४०॥ययुर्धामाऽक्षरं बद्रि भक्त्या प्रपत्तिरूपया ।जयकारोऽभवत्तत्र महोत्सवो व्यवर्तत ॥४१॥अथाऽन्यं च चमत्कारं शृणु बद्रीप्रिये तथा ।आर्शफलाख्यनगराच्छ्रुत्वा कथामहोत्सवम् ॥४२॥आययुर्व्यायामखेलकुशला द्वे शते नराः ।नार्यश्चापि च खेलिन्यः सिंहाद्याः पशवो गजाः ॥४३॥वाजिनः शरभा भल्लुका द्विपा गवयाः खराः ।सारहास्यविदः सर्वे व्योमरज्ज्वादिदोलिनः ॥४४॥वज्रकार्यविदो निरालम्बोड्डयनवेदिनः ।महाबला नरा नार्यो देहकौशल्यदर्शिनः ॥४५॥उद्याने ते निवासं वै चक्रुः खेलपरायणाः ।नित्यं रात्रौ सुखेलानि कुर्वन्ति कारयन्त्यपि ॥४६॥एकदा ते विना मूल्यं खेलनानि व्यधुर्निशि ।सतां कथार्थिनां चापि मानवानां प्रदृष्टये ॥४७॥रंगस्तत्र हि भक्तानां प्रभक्तानां महानभूत् ।लक्षशो मानवा द्रष्टुं समायातास्तदा निशि ॥४८॥गजानां वाजिनां चापि सिंहानां खेलनान्यपि ।कृतवन्तश्च ते सारहास्यमण्डलिका नराः ॥४९॥नारीणां गीतकार्याणि नर्तनानि व्यधुः स्त्रियः ।पशूनां पक्षिणां यानि खेलनानि व्यधुश्च ते ॥५०॥व्योमोड्डयनरूपाणि वह्निकार्याणि यान्यपि ।यन्त्रखेलानि हृद्यानि चक्रिरे मानवादयः ॥५१॥प्रसन्नास्तानि संवीक्ष्य वैष्णवाः साधवोऽपरे ।नरा नार्यः प्रसन्नाश्च सञ्जाताः खेललोकनैः ॥५२॥उपदा खेलकेभ्यश्च ददुः श्रीवैष्णवा जनाः ।नृपाः प्रजाः श्रेष्ठिनश्च धनानि बहुधा ददुः ॥५३॥खेलान्ते साधवस्तेभ्यो मोक्षाशिषो ददुः शुभाः ।स्वतःप्रकाशो भगवान् प्रसादं बहुशोभनम् ॥५४॥भोजनं प्रददौ तेभ्यो मिष्टान्नं चरणामृतम् ।भुक्त्वा ते पावना जाता मानवाः पशुपक्षिणः ॥५५॥प्रातः स्नात्वा च ते नद्या जले श्रीलोमशं ययुः ।कथास्थानं पूजनार्थं व्यासस्य पुस्तकस्य च ॥५६॥प्रातः प्रपूजनं चक्रुर्बहुभिर्वस्तुभिश्च ते ।उपदाश्च पुरो धृत्वा चन्दनाद्यैरपूजयन् ॥५७॥प्रार्थयन् श्रेयसे तेऽपि कथाश्रवणपाविताः ।लोमशस्तत्र सर्वेभ्यो मनुं नाम ददौ मुदा ॥९८॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'प्रभोनारायणस्वामिन्माधवीन्रारायणप्रभो ॥९९॥जयाकृष्णललितान्रायणराधापते विभो' ।एवं मन्त्रं नामधुन्यं ददौ श्रीलोमशो मुनिः ॥६०॥ते सर्वे सारहासस्था जेपुर्मन्त्रं विधानवत् ।नामधुन्यं प्रचक्रुश्च मोक्षार्थं कृतनिश्चयाः ॥६१॥सेवां सतां वैष्णवानां साध्वीनां चक्रिरे मुदा ।कथां नित्यं शुश्रुवुस्ते दानधर्मपरायणाः ॥६२॥नित्यं ते भजनं चक्रुः कृष्णनारायणप्रभोः ।मासान्ते पावनानां तु मोक्षदाता नरायणः ॥६३॥महाविमानमादाय सूर्यभासं सुवर्णजम् ।लक्ष्म्या श्रिया प्रज्ञया पद्मया मुक्तैर्युतं शुभम् ॥६४॥आययौ मण्डपोद्यानमध्यदेशे ह्यवातरत् ।विमानं तत्सूर्यतुल्यं व्यलोकयन् प्रजाजनाः ॥६५॥सायाह्ने वै चैत्रशुक्लतृतीयायां द्रुतं जनाः ।महाश्चर्यपरास्तत्र कथान्तेऽभित आययुः ॥६६॥चक्रुस्ते दर्शनं स्वामिकृष्णनारायणस्य वै ।सर्वेषां पश्यतां कृष्णः सारहासस्य मानवान् ॥६७॥नरान्नारीः प्रावदद्वै त्वायान्त्वत्र विमानके ।भवन्मोक्षायाष्ठगतोऽस्मि समारोहन्तु सत्वरम् ॥६८॥ये वाञ्छन्ति परं मोक्षं ते त्वायान्तु विमानके ।इत्युक्ता बद्रिके सारहासमण्डलिनो जनाः ॥६९॥नरा नार्यो बालिकाश्च बाला वृद्धास्तथाऽपरे ।युवानश्च विमला ये गतमोहा निरञ्जनाः ॥७०॥निर्दग्धवासना ये च कथाश्रवणपाविताः ।सज्जा गन्तुमभवन् ये वैराग्यवेगशालिनः ॥७१॥ते सर्वे त्वरिताश्चासन् समुत्सुका हि मुक्तये ।चक्रुर्हलहलाशब्दान् विमानं प्रति दुद्रुवुः ॥७२॥पार्वणेन कृष्णनारायणपादजलेन तान् ।संप्रोक्ष्य दिव्यदेहान् वै कृत्वा तत्रैव तत्क्षणम् ॥७३॥दिव्योड्डयनशक्ताँश्च कृत्वा धृत्वा विमानके ।देहैस्तैरेव षोडशवर्षान् विधाय माधवः ॥७४॥मानवानां शतं चापि नीत्वा धामाऽक्षरं ययौ ।शतं तत्राऽवशिष्टाश्च पशुपक्षिसमन्विताः ॥७५॥महाश्चर्यपरास्तेऽपि भजनं चक्रुरादरात् ।तेऽपि पश्चाज्जातवेगा मोक्षार्थं निश्चयं व्यधुः ॥७६॥कीर्तनं नित्यमेवैते चक्रुर्वै भक्तिभावतः ।दध्युर्नारायणकृष्णं तन्मानसाश्च तत्पराः ॥७७॥सतां सेवां प्रचक्रुश्च विशेषतः समर्पिताः ।कथाश्रवणं चक्रुश्च नित्यं नित्यमतन्द्रिताः ॥७८॥प्रार्थनां तेऽपि मोक्षार्थं चक्रुः श्रीलोमशाग्रतः ।तथास्त्विति प्राह ऋषिश्चाशीर्वादान् ददौ ततः ॥७९॥चैत्रस्य शुक्लैकादश्यां प्रातस्तेषां जनार्दनः ।कृष्णनारायणो विष्णुर्मोक्षार्थं समुपागतः ॥८०॥बद्रिके ते कृतस्नाना कृतार्हणाः सभास्थलम् ।आयायुस्तत्र वै श्रुत्वा कथां तिष्ठन्ति यावता ॥८१॥तावद्विमानमाकाशादवातरत् सुवर्णजम् ।दिव्यं श्रीबालकृष्णेन वाहितं सुविशालकम् ॥८२॥सर्वेषां गोचरं रम्यं तस्मात् कृष्णो बहिर्मुदा ।आगत्य सारहासस्थानवशिष्टान् हि मानवान् ॥८३॥हरिः प्राह समायान्तु मोक्षपदं नयाम्यहम् ।सारहासस्याऽग्रनेता नाम्ना मार्तण्डमण्डलः ॥८४॥यो वै मोक्षं गतः पूर्वं तस्य पुत्रोऽर्कमण्डलः ।तूर्णं करे जलं गृह्य संकल्पं प्र व्यधान्मुदा ॥८५॥यद्धनं चोपकरणान्युच्चावचानि यानि च ।वाहनानि च यानानि वस्त्रभूषासमृद्धयः ॥८६॥सारहासीयकं सर्वं धनादि विविधर्द्धिकम् ।अत्र स्थितं त्वर्पयामि पारायणार्थमत्र यत् ॥८७॥जीवत्पशून् पक्षिगणान् सरीसृपादिकानपि ।अस्माभिः सह श्रीकृष्णनारायणो नयत्वपि ॥८८॥मोक्षपदं प्रयान्त्येव पञ्चाद्या अपि येऽत्र ह ।मानवाश्च नरा नार्यो बालाश्च बालिका अपि ॥८९॥दिव्यदेहा विमानेन प्रयान्त्वक्षरधाम ते ।शृण्वतां वै सदस्यानां जलं मुमोच वै क्षितौ ॥९०॥तावच्छ्रीकृष्णभगवान् जलं चिक्षेप तेषु तु ।जलस्पर्शेन सहसा दिव्यदेहाः समुज्ज्वलाः ॥९१॥सारहासजना आसन् दिव्याश्च दिव्यविग्रहाः ।पश्वाद्याश्च स्थिता वासे मृतास्ते पशुविग्रहाः ॥९२॥दिव्यदेहा अभवँश्च देवतुल्याः समस्ततः ।आरुरुहुर्विमानं ते सर्वे वै मुक्तविग्रहाः ॥९३॥नरा नार्यश्च पश्वाद्याः सारहासगतास्तु ये ।सर्वे विमानमारूढाः श्रीकृष्णाज्ञावशास्तदा ॥९४॥जयशब्दं नामधुन्यं विमाने ते प्रचक्रिरे ।कृष्णनारायणनीता ययुर्धामाऽक्षरं हरेः ॥९५॥बद्रिके जयशब्दाश्च तदाऽऽसन् सर्वतो ह्यति ।पुष्पाणां वृष्टयस्तत्र दिव्यानामभवन् शुभाः ॥९६॥चन्दनानां वृष्टयश्चाऽभवन् मेघपथश्च्युताः ।सतां सेवाफलं मन्त्रनामजापफलं तथा ॥९७॥कथाश्रवणजन्यं च फलं श्रद्धासमन्वितम् ।बद्रिके सारहासस्य मण्डलस्य प्रजीविनाम् ॥९८॥प्राप्तं कृपात्मकं चापि कृष्णनारायणस्य ह ।कृष्णस्य कृपया सर्वे मुक्तिं ययुः पराक्षरे ॥९९॥पठनाच्छ्रवणादस्य स्मरणादपि मोक्षभाग् ।सर्वेष्टसिद्धिरत्यर्था सम्मुखी सम्प्रपद्यते ॥१००॥संकल्पितं समस्तं वै लभ्येत श्रवणादपि ।भुक्तिर्मुक्तिर्महास्वर्गं सर्वं करगतं भवेत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वादिटस्य नागादननामकस्य सकुटुम्बस्य, सारहासमण्डलस्थानां मार्तण्डमण्डलादीनां समस्तानां च, कथाश्रवणसाधुसेवनभक्त्यादिभि-मोंक्षणमित्यादिनिरूपणनामैकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP