संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १९

तिष्यसन्तानः - अध्यायः १९

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः श्रीबालयोगिना ।
स्वमात्रे ज्ञानलभ्यं यं प्राह ब्रह्मरसोत्तमम् ॥१॥
यादृङ्मोहः शरीरे स्वे तत्रापीन्द्रियगोलके ।
तत्रापि हृदये नैजे तथाऽऽत्मनि स्त्रियां सुते ॥२॥
पत्यौ धने जीविकायां देहिनः समवर्तते ।
तादृङ्मोहं हरेर्मूतौ कुर्यान्नारी नरोऽपि वा ॥३॥
अन्यमोहं त्यजेत्सर्वं नारायणमृषिं विना ।
क्षेत्रज्ञे श्रीपतौ कृष्णे कुर्यान्मोहं नरायणे ॥४॥
तत्र वृत्तिं धारयेच्च हरौ श्रीपुरुषोत्तमे ।
रमणीयतमे कृष्णे लग्नं मनो न चालयेत् ॥५॥
गुरौ सत्सु हरौ स्नेहं कुर्यान्नान्यत्र वै क्वचित् ।
आसक्तिं श्रीहरौ कुर्यात् तद्रसे पावनोत्तमे ॥६॥
आत्मन्येव हरिं कृष्णनारायणं प्रधारयेत् ।
हरौ सर्वविषयाणां सुखान्येकत्र सर्वथा ॥७॥
लभ्यन्तेऽतो ब्रह्मरसोऽवाप्यते दर्शनेऽपि वै ।
एवं ज्ञात्वा भजेत् कृष्णं पातिव्रत्येन सुन्दरी ॥८॥
प्रसन्नो जायते तस्या भगवान् कृपया ह्यति ।
शनैः शनैः सेवया तं प्रभुं नाथं प्रसादयेत् ॥९॥
अनेकावर्त्तसंसिद्धा सेवया रसमाप्नुयात् ।
अमाया स्यात् सदा यस्याः परे कान्ते रमेश्वरे ॥१०॥
सिद्धदशा भवेदस्याः कृतार्थता च शाश्वती ।
परब्रह्मानन्दरसयोग्यताऽस्यास्तदा मता ॥११॥
आत्यन्तिकं च कल्याणं साध्वीता चोत्तमा तथा ।
प्राप्तव्या तु यया साध्व्या तया पेयो रसो हरेः ॥१२॥
अहर्निशं स्मृतिः कार्या कृष्णकान्तस्य स्वात्मनि ।
धार्या मूर्तिर्भगवतः सेव्या दिव्येन वर्ष्मणा ॥१३॥
पूर्णाब्धिवत् सुखं तस्य भक्ताया पूर्यतेऽनिशम् ।
रसिकायां रसिकस्य कृष्णस्याऽऽनन्दपूर्णता ॥१४॥
भक्त्या रसिकया कृष्णो रसं नैजं ददाति वै ।
ब्रह्मरसं महानन्दं भक्तायै स्वामिभावनाम् ॥१५॥
निर्दोषदिव्यभावाया ब्रह्मान्तर्यामियुक्तया ।
भक्त्या चार्पितया कृष्णो रसिको रसमेति वै ॥१६॥
ब्रह्मैक्यभावया स्वामी सेव्यः सेविकयाऽनिशम् ।
सेविकाऽपि रसदाच्छ्रीकृष्णाद् रसं समश्नुते ॥१७॥
कृष्णः कान्तः प्रसन्नः स्याद् भक्त्या वा सेवयाऽपि च ।
आज्ञया चानुवृत्त्या वा तं धर्मं पालयेत् सती ॥१८॥
अखण्डचिन्ता कृष्णस्य यस्या भवति मानसे ।
सा तद्रसं महामिष्टं प्राप्नोत्यन्या न विन्दति ॥१९॥
एकताना भवेद् या तु सैकरसा प्रजायते ।
दृश्यते भगवान् यद्वन् मानवोऽपि न मानवः ॥२०॥
नाऽस्य बाधो मायिकैर्वै पदार्थैश्च पराभवः ।
अलौकिकं हि सामर्थ्यं कृष्णकान्ते विराजते ॥२१॥
असंख्यस्त्रीपतिः कृष्णो निर्लेपोऽपि रसप्रदः ।
विदित्वैवं प्रभुं नाथं भजते रसभागिनी ॥२२॥
कान्तव्रतं शूरता च सर्वार्पणं तदात्मता ।
पक्षः स्नेहश्च यस्याः स्यात् कृष्णे सा रसभागिनी ॥२३॥
सतां सेवा हरेः सेवा साध्वीसेवाऽपि सर्वदा ।
पद्मावतीकृष्णनारायणसेवात्मिका यदि ॥२४॥
यस्या भवति संसारेऽप्यसारे सारगा तु सा ।
अन्तरायकरं सर्वं त्यजत्येव हि सा सती ॥२५॥
महतां तु सतां सेवा हरेराज्ञा कृपा तथा ।
अर्पणं सर्वथा दिव्यपरब्रह्मरसप्रदाः ॥२६॥
आहाराः सर्वथा कृष्णे देहेन्द्रियाऽऽन्तरात्मनाम् ।
यस्या भवन्ति सततं सा स्याद्वै रसभागिनी ॥२७॥
आत्मनिवेदितायज्ञः सर्वयज्ञशिरोमणिः ।
परब्रह्मणि देवेशेऽर्पणं यत् पुरुषोत्तमे ॥२८॥
आन्तरं सर्वथा दानं बाह्यं दानं च सर्वथा ।
हरेः सम्बन्धवत् सर्वं वर्तनं स्फुरणादिकम् ॥२९॥
निर्गुणं भगवद्भावं प्राप्य निर्गुणवर्तनम् ।
महद्भाग्यं परं प्राप्य परं पदं च निर्मलम् ॥३०॥
या साक्षाद् भगवत्प्राप्तिः सर्वेन्द्रियादिहोमजा ।
राधालक्ष्मीसमा साध्वी तया प्रजायते सदा ॥३१॥
मूर्तेर्बलं तु बहुधा विपुलं रक्ष्यमेव यत् ।
स्नेहस्तस्याः प्रवर्धेत बलिष्ठाया हरौ प्रभौ ॥३२॥
हरेर्मूर्तेर्बलवत्या नैष्कर्म्यं संप्रसिद्ध्यति ।
भयं नास्या हि मायाया महाकालस्य वा भवेत्। ॥३३॥
पक्वभक्ता हि सा त्वेकान्तिनी भक्ता हि सा भवेत् ।
हरेः स्वरूपनिष्ठायां पक्वायाः श्रेय उत्तमम् ॥३४॥
एवंवेत्र्याः कृतार्थत्वं ब्रह्मरसाभिमग्नता ।
सारातिसारप्राप्तिश्च श्रीत्वं सम्पद्यते त्विह ॥३५॥
यदक्षरेशान्मुक्ताश्च मुक्तान्यः संभवन्त्यपि ।
अवतारा अवतारिण्यश्च राधारमादयः ॥३६॥
ईश्वरा ईश्वराण्यश्च गोपा गोप्यो भवन्त्यपि ।
सखायश्च तथा सख्यो दासा दास्यो भवन्त्यपि ॥३७॥
आतिवाहिकदेवाश्च तथाऽधिदेवताः सुराः ।
अध्यात्मानश्च पुरुषा व्यूहाः समुद्भवन्त्यपि ॥३८॥
अधिभूतानि सर्वाणि समस्ततैजसानि च ।
उत्पद्यन्ते हरेर्मूर्तेर्ब्रह्मान्तर्यामिशक्तयः ॥३९॥
तमनादिकृष्णनारायणं कान्तं समाश्रयेत् ।
सर्वानन्दप्रमोदानां निधिं ब्रह्मरसाश्रयम् ॥४०॥
कामपूरं च निष्कामं सर्वानन्दरसप्रदम् ।
संगिनं चाऽप्यसंगं च भोगिनं भोगवर्जितम् ॥४१॥
लेपिनं चापि निर्लेपं कान्तं कान्तत्ववर्जितम् ।
वरेण्यं चाऽवरं रम्यं शयानं शयनोज्झितम् ॥४२॥
वधूग्रस्तं च विधुरं गृहस्थं गृहवर्जितम् ।
अलिंगं दिव्यलिंगं च शास्त्रयोनिमयोनिकम् ॥४३॥
इन्द्रं निरिन्द्रियं चापि शक्तं शक्तिप्रयोजकम् ।
शीलिनं स्त्रीशीलिनं च कृष्णं श्वेतं निरूपिणम् ॥४४॥
अचेष्टं दिव्यचेष्टं च सर्वचारित्र्यसंभृतम् ।
एवंविधं परं कान्तं मत्वा कृष्णनरायणम् ॥४५॥
प्राप्य साक्षाद् दिव्ययोगं ब्रह्मरसमवाप्नुयात् ।
नैतादृश्याः प्रेमरसार्जने किञ्चिद्धि शिष्यते ॥४६॥
देवलोका ब्रह्मलोकाः सर्वलोका हरेः कृते ।
देवीलोकाः परीलोकाः श्रीलोकाश्च हरेः कृते ॥४७॥
गुणातीतादिलोकाश्च भक्तलोका हरेः कृते ।
मुक्तमुक्तानिकालोकाः श्रेयसामालयास्तथा ॥४८॥
सम्पदामालयाश्चापि कल्पिताः परमेश्वरे ।
भवन्ति मोक्षदाः सर्वे दिव्यस्वाम्यभिधिष्ठिताः ॥४९॥
सर्वविधायां विकृतौ कृतौ ज्ञाने प्रसेवने ।
हरेः प्रसन्नतावाञ्च्छा यस्याः सा रसभोगिनी ॥५०॥
आत्मप्रयत्नसंरूढा देहेन्द्रियादिशासिका ।
हर्यर्थकृतसर्वस्वा ब्रह्मरसं समश्नुते ॥५१॥
आलोचनरसान् दिव्यान् व्यापारसद्रसान् परान् ।
आनन्दमोदभोगादीन् स्नेहप्रेमसुखोत्सवान् ॥५२॥
कामसंकल्पसक्त्यादीन् रत्याकर्षणमूर्छनाः ।
समस्तामृतपानादीन् ताम्बूलरसमाधवीम् ॥५३॥
स्पर्शमाधुर्यलावण्याऽभिन्नसंगोद्भवान् रसान् ।
अश्नुते दत्तसर्वस्वा सर्वशृंगारजान् रसान् ॥५४॥
सर्वं ब्रह्ममयं यस्यास्तस्या ब्रह्मरसाशनम् ।
घनश्यामां श्वेतभां च मनोहरां किशोरिकाम् ॥५५॥
मुक्तानिकामहामण्डलादिभावप्रसेविताम् ।
मूर्तिं कृष्णात्मिकां प्राप्य भवेद् ब्रह्मरसाशनम् ॥५६॥
एकरसं महातेजोऽक्षरब्रह्मप्रकाशकम् ।
रसपूर्णं निजं धाम परब्रह्मरसात्मकम् ॥५७॥
सम्पादयति भगवान् प्रज्ञेशः पुरुषोत्तमः ।
कैवल्यसंभृतः श्रीमत्कृष्णनारायणः पतिः ॥५८॥
स एव मानवश्चास्ते तथाऽप्यमानवोऽस्ति सः ।
तद्वस्त्रालंकृतयश्च दिव्या वाहनदासिकाः ॥५९॥
परिचर्यापरा दासा दिव्याः पानाशनार्हणाः ।
सर्वावतारधर्ता सः सर्वावतारकारणम् ॥६०॥
अलौकिकोऽपि भगवान् वर्तते लोकवत् त्विह ।
एवंवेत्त्र्यास्त्विह मोक्षपदं करतलेऽस्ति वै ॥६१॥
कर्तव्यं शिष्यते नाऽस्याः साधनान्तं गता तु सा ।
वर्तते ब्रह्ममोदस्था परब्रह्मरसाशना ॥६२॥
सत्यप्राणस्थिता चास्ते भागवताप्तसद्रसा ।
एकान्तिकसतां योगात् तादात्म्यरूपनिश्चया ॥६३॥
निर्विकल्पसमाधिस्था निर्गुणब्रह्मरूपिणी ।
परब्रह्मरसास्वादा सैव भवति भामिनी ॥६४॥
या विशिष्टा स्थूलरूपा माया तद्रसमाधवी ।
या सूक्ष्माऽपि कृष्णयोगात् प्रसूतिं प्रकरोत्यपि ॥६५॥
सा कृष्णस्य सदा पत्नी भोग्या माया तु बन्धिनी ।
जडाऽपि कृष्णसम्बन्धाद् दिव्या तद्रससंभृता ॥६६॥
भवत्यसंख्यलोकानां कृष्णरसाभिषञ्जिका ।
राधारमाप्रियाद्याश्च परब्रह्मरसैः प्लुताः ॥६७॥
रसयन्ति जगत् सर्वं तथैव तन्नरायणी ।
साधुसंगतिमापन्ना चाऽप्रधृष्या हरीतरैः ॥६८॥
रसयत्येव सहजानन्दे निजात्मवर्तिनि ।
परब्रह्मरसे नित्ये स्वामिसक्तेऽतिशान्तिदे ॥६९॥
कृष्णनिष्ठावती साध्वी कृष्णस्वरूपलोभिनी ।
कृष्णार्थधर्मधर्त्र्येव शान्तिं द्रुतं प्रगच्छति ॥७०॥
तीव्रश्रद्धा हरेः प्राप्तौ तद्रसावाप्तयेऽपि च ।
यस्याः सा विन्दति प्रज्ञाप्रसूतं कृष्णजं रसम् ॥७१॥
यस्या विह्वलता कृष्णदर्शनादौ सदाऽस्ति सा ।
तीव्रवेगवतीश्रद्धाश्रया बोध्या तु भामिनी ॥७२॥
महात्म्यज्ञानयुक्तायाः श्रद्धातैक्ष्ण्यं प्रजायते ।
असंख्यरसलोभेन कृष्णकान्ता प्रजायते ॥७३॥
कृष्णमूर्तिं विना भेदं विना त्यागं प्रसेवते ।
स्थितप्रज्ञा निर्विकल्पा दृढप्रज्ञा प्रभुं पतिम् ॥७४॥
सेवते सर्वपापघ्नं रसदं चाऽभयप्रदम् ।
सोऽपि भक्तां तथा नैजां सेवते पुरुषोत्तमीम् ॥७५॥
निर्विकारं सर्वविधक्षेत्रज्ञं लेपवर्जितम् ।
योग्याऽयोग्यचरित्राणां गायिका गायति प्रभुम् ॥७६॥
अहोभाग्यं च मन्वाना स्थितप्रज्ञा हरौ हि सा ।
आक्षरीं स्थितिमापन्ना ध्यानकीर्तनतत्परा ॥७७॥
वन्दनार्चनदानाद्यैः प्रसन्नतापरायणा ।
दासीव सर्वसेवार्हा बद्रीमुक्ता यथा तथा ॥७८॥
श्वेतद्वीपनिवासाभा श्रीपुराभिस्थितेव सा ।
स्वेष्टदेवताश्रीकृष्णनारायणं श्रिता सदा ॥७९॥
पतिव्रता सा श्रीकृष्णनारायणे प्रभौपतौ ।
मनसा वर्ष्मणा भक्त्या मूर्तौ तत्सत्सु सेवया ॥८०॥
राधारमाप्रमापद्मावतीसमा प्रसादिता ।
वर्तते सा लभतेऽत्र परब्रह्मरसाशनम् ॥८१॥
यदा सा वर्ततेऽनादिकृष्णसंगमसद्रसे ।
तदा ब्राह्मी भवत्येव दिव्या मायापरा सखी ॥८२॥
आत्मचैतन्यतादात्म्यं हरौ लब्धवती सती ।
अनादिश्रीकृष्णकान्तमात्रसंसर्गसंभृता ॥८३॥
परब्रह्माभियोगेन ब्रह्मवद् व्यापिका तथा ।
सर्वैश्वर्यमहाशक्त्यसंख्यचमत्कृतिभृता ॥८४॥
सर्वज्ञेव महाराज्ञी सम्राज्ञी समजायते ।
सिद्धदशावती पत्नी महामुक्तानिका यथा ॥८५॥
सिद्धदशां परां प्राप्य तेनैव वर्ष्मणा प्रिया ।
गोलोकं चाक्षरं दिव्यं वैकुण्ठं श्रीपुरं तथा ॥८६॥
अव्याकृतं चामृतं च धामन्यन्यानि यानि च ।
तत्र याति हरेर्योगात् स्वतन्त्रा रसवेदिनी ॥८७॥
सृष्टित्रयेऽपि सुगतिर्जायते कृष्णभामिनी ।
कल्याणदं हि विज्ञानं सर्वकृत्त्वं हरेः सदा ॥८८॥
हरेः सतां चरित्राणि दैहिकानि पराण्यपि ।
सकामानि तथा यद्वा कामनावर्जितान्यपि ॥८९॥
दिव्यान्येव सदा मोक्षप्रदानि पावनानि च ।
अमायिकानि सर्वाणि प्रत्यक्षस्य हरेः सताम् ॥९०॥
प्रत्यक्षो भगवानत्र सन्तः साक्षाद् भुवि स्थिताः ।
प्राचीनाऽव्ययधामस्थसनातनस्वरूपिणः ॥९१॥
भवन्त्येवेतिमाहात्म्यज्ञानं यस्यास्त्विहास्ति वै ।
सा प्राप्ता परमब्रह्मचिन्तामणिं हि शाश्वतम् ॥९२॥
कल्याणं परमं तस्या जायते ज्ञानयोषितः ।
लक्ष्यं धामाऽक्षरं यस्याः प्राप्यो यस्याः पतिः प्रभुः ॥९३॥
राज्यं कृष्णरसाऽवाप्तिः प्रजा मुक्तानिकागणाः ।
आनन्दः श्रीकृष्णसंगे किं तस्या ननु शिष्यते ॥९४॥
हरिं विना न लोभोऽस्ति परत्र वा निजात्मनि ।
यावच्च ब्रह्मलोकेषु वैभवेष्वपि कश्चन ॥९५॥
यन्मनो न भवेल्लग्नं सा चैकान्तिककोटिगा ।
साध्वीं पदवीं चोत्कृष्टतमां साऽधिगता यतः ॥९६॥
साध्व्यास्तस्या ब्रह्मपत्न्याः पूजां कुर्वन्ति देवताः ।
हरेर्योगेन सा प्राप्ता ह्यलौकिकचमत्कृतिम् ॥९७॥
चिन्तामणिः कृष्णनारायणस्तस्याः करे स्थितः ।
तेन श्रीकृष्णभगवत्प्रेमरसं समश्नुते ॥९८॥
इत्येवं श्रीकृष्णनारायणकान्तरसं त्वहम् ।
मातर्नित्यं प्राप्तवती समश्नामि तदंकगा ॥९९॥
नान्यमिच्छामि राधेशाद्भिन्नं वा चेतनं जडम् ।
इत्युक्त्वा विररामाऽपि बद्रिके बालयोगिनी ॥१००॥
प्रभोकृष्ण हरिकृष्ण बालकृष्ण रमापते ।
कृष्णनारायणस्वामिन् माधवीश सतां पते ॥१०१॥
श्रावयामास भजनं मातरं बालयोगिनी ।
ननर्त च क्षणं मग्ना कान्ते भावभरा तदा ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां बालयोगिन्या मात्रे उपदिष्टस्य ज्ञानलभ्यस्योत्तमब्रह्मरसस्य निरूपणमित्यादिनामा नवदशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP