संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०६ Translation - भाषांतर श्रीनरनारायप उवाच-बद्रिके धर्मराजस्तं सनत्कुमारकं मुनिम् ।विनयेन नृपस्यैव चेष्टितं प्राह चाऽघभृत् ॥१॥दण्डपात्रं स्वयं राजा सनत्कुमार! सर्वथा ।न मोक्तव्योऽतिपापात्मा महापापकरो हि सः ॥२॥मद्यं मांसं घसाशित्वं कृतवानयमुल्बणम् ।देवानां निन्दनं मूर्तिनाशं मखविघातनम् ॥३॥देवद्विजधनानां चापहारं कृतवानयम् ।उच्छेदं दानयज्ञानां कृतवान् स्तैन्यमुल्बणम् ॥४॥कन्याशीलविहन्ताऽयं व्यवायं कृतवानयम् ।परदाररतश्चायं पशुपक्षिप्रभक्षकः ॥५॥धर्मकार्यविहन्ताऽयं हरिंमन्योऽतिगर्ववान् ।नारायणस्य भागान् वै भुक्तवान् स्वयमेव ह ॥६॥यादसां भक्षकश्चाऽयं लुञ्चादो लुण्टकोऽप्ययम् ।सतीसाध्वीधर्षयिता स्नानतीर्थादिलोपनः ॥७॥देवानां देवतानां च मन्दिराणां विनाशकः ।निन्दकश्च सतां धर्मकर्मणां पापवाचनः ॥८॥पापश्रवणकारश्च नास्तिकोऽधर्मवर्त्तनः ।वृत्तिहा जीविकाहन्ता प्रसह्य शीलनाशकः ॥९॥शरणागतहन्ताऽयं स्वर्गमार्गनिरोधकः ।देवहविर्विरोधी च वह्निपूजाविनाशनः ॥१०॥साधूनां नाशकश्चाऽयं न मोक्तव्यः कथञ्चन ।कोटिवर्षसहस्राणि कोटिवर्षाऽर्बुदान्यपि ॥११॥भुञ्जानस्य स्वपापानां निस्तारोऽत्र तथापि न ।एवंविधोऽयं पापिष्ठो भगवन्निन्दकः सदा ॥१२॥कृष्णधिष्ण्यस्थितो नित्यं नैवेद्यं भुक्तवानयम् ।यावत् क्षितिर्भवेद् याम्यलोको यावच्च विद्यते ॥१३॥तावच्च निजपापानि भुञ्जानस्यापि नाऽवधिः ।एवं पापतमश्चाऽयं मोक्तव्यो न कथञ्चन ॥१४॥साधो राजा स्वयं पापी प्रजानां पापयोगदः ।प्रजानां पापमार्गेषु प्रेरकोऽयं यतः सदा ॥१५॥अतः प्रजानां पापात्मा प्रजापापफलाश्रयः ।ब्रह्मणो वर्षपर्यन्तं मोक्तव्योऽयं न वै क्वचित् ॥१६॥सर्वपापैर्मुच्यतेऽपि देवद्रोहान्न मुच्यते ।विश्वासघातकर्तुश्च द्रोग्धुर्देवस्य सद्गुरोः ॥१७॥धर्मघातकिनश्चापि निष्कृतिर्नैव विद्यते ।देवानां निन्दकस्यापि यज्ञनाशकरस्य च ॥१८॥मूर्तेर्हर्तुर्न वै चास्ति निष्कृतिस्तु मुने क्वचित् ।तस्मादयं न मोक्तव्यो ब्रह्माण्डपापवानयम् ॥१९॥श्रीसनत्कुमार उवाच-योग्यं दण्डप्रदानं वै यमस्य दण्डशासितुः ।योग्यं दण्डान्मोचनं वै साधोर्दयावतस्तथा ॥२०॥पापिनां पापनाशार्थं साधवो निर्मिताः पुरा ।ब्रह्मणा निर्मितश्चाऽहं पापनाशाय मुक्तये ॥२१॥ऋभुश्च सनकाद्या मे भ्रातरोऽपि तथा कृताः ।दयालवोऽघहन्तारो मुक्तिदाः सर्वदेहिनाम् ॥२२॥राजा तु प्राप्तवान् दण्डं बहुधा शिक्षणाय वै ।प्रजादुःखं महच्चापि विद्यते कामरूपके ॥२३॥अनावृष्टिकृतं रोगकृतं दैवापराधजम् ।मोक्तव्यास्ताः प्रजाश्चापि मया वृष्टिविधापनात् ॥२४॥द्रुतं मोचय राजानं नीत्वा प्रयामि नान्यथा ।स्वस्ति तेऽस्तु सदा धर्म साधोर्वाक्यानि पालय ॥२५॥हरेर्वाचः सतां वाचो नोल्लंघ्या वै कदाचन ।अप्रसन्नेषु सत्स्वत्र हानिर्महती चापतेत् ॥२६॥श्रीधर्मराज उवाच-अस्य पापानि कस्मैश्चिद् देयानि तु मुने त्वया ।राज्ञे देयानि शेषाणि ततो मुक्तिं प्रयास्यति ॥२७॥पापदानं कष्टदानं दुष्टदानं हि विद्यते ।पापशुद्धिं ऽ ना कर्ता न विमोक्तुं समर्हति ॥२८॥पुत्रो वा प्रमदा पुत्री भ्राता गुरुश्च वा सखा ।पापं चेन्नृपतेः सर्वं गृह्णीयान्मुच्यते तदा ॥२९॥श्रीसनत्कुमा उवाच-तिष्ठ धर्म क्षणं पत्नी विद्यतेऽस्य नयाम्यहम् ।उक्त्यैवं क्षणमात्रेणाऽनयद् राज्ञीं मुनिर्यमम् ॥३०॥वद राजा मुच्यतेऽत्र पापं गृहाण भूभृतः ।सा प्राह नाऽहं गृह्णामि पापं कष्टप्रदं यतः ॥३१॥पुण्यं गृह्णामि पत्युश्च न पापं कष्टद्ं क्वचित् ।मया कृतानि पापानि तानि गृह्णातु भूपतिः ॥३२॥राज्ञः पापेन मे पुत्राः पुत्र्यो नष्टाः शतं शतम् ।प्रजानाशो वर्तते च पापं गृह्णामि नैव ह ॥३३॥रुग्णाऽहं दुःखसंव्याप्ता कथं गृह्णामि पापकम् ।पुण्यस्य भागिनी स्यां वै न स्यां पापस्य भागिनी ॥३४॥इत्युक्त्वा विररामाऽसौ पत्नी मौनं दधार ह ।धर्मराजस्तदा बद्रि प्राह सनत्कुमारकम् ॥३१॥गृहाणर्षेऽस्य पापानि नय तं निजराष्ट्रकम् ।ओमित्याह दयालुः स पापं जग्राह वारिणा ॥३६॥राजा निर्दोषतां प्राप्तो यमेन मोचितस्तदा ।सनत्कुमारो भगवान् पूजितोऽथ यमादिभिः ॥३७॥नृपं नीत्वा च यावत् सः प्रस्थितस्तावदेव तु ।नारकाश्चासंख्य जीवाश्चक्रुराक्रोशमुल्बणम् ॥३८॥प्रत्वलामो वयं साधो माऽस्मान् विहाय याहि वै ।तवाऽऽगमेन कुण्डस्था वयं त्वद्वायुना तथा ॥३९॥दर्शनेन तव साधो परा शान्तिं गतास्त्विह ।दुःखानि देहसंस्थानि याम्यविषोल्बणानि च ॥४०॥तैजसानि ज्वलनानि नष्टानि चान्तराण्यपि ।तस्मादायाहि साधो त्वं रक्षयाऽत्र च नः सदा ॥४१॥इत्येवं नारकाः साधु प्रार्थयामासुरुत्सुकाः ।सनत्कुमारो भगवान् दयां प्राप्य पुनस्तदा ॥४२॥धर्मराजं समुवाच राजन्नेताँश्च नारकान् ।विमोचय महादुःखान्नरकान्मम वाञ्च्छया ॥४३॥साधोः समागमो नित्यं दुःखिनां दुःखनाशकः ।शान्तिदश्चाऽघहश्चापि परमोद्धारकारकः ॥४४॥यमराज महाबाहो दयां कृत्वा विमोचय ।नाऽन्यथाऽहमितो यामि तिष्ठाम्यत्रैव ते गृहे ॥४५॥इत्युक्तो यमराजश्च प्रत्युवाच मुनिं शनैः ।मुने समर्थ एवाऽसि किन्तु न्यायो न विद्यते ॥४६॥पापिनां मोचनं नैव योग्यं यमालयात् क्वचित् ।पापभोगं विना नैव त्यक्तव्या निगडस्थिताः ॥४७॥यद्येवं मोचये दुष्टान् न्यायालयो निरर्थकः ।साधूनादाय बहवश्चायास्यन्तीह मानवाः ॥४८॥निजान् विमोचयिष्यन्ति नारकान् वा तथाऽपरान् ।अन्धन्यायप्रवाहोऽयं प्रवर्त्स्यते ततः परम् ॥४९॥तस्मादिमे समस्ता वै त्यक्तव्या नारका नहि ।नृपं नीत्वा मुने याहि यथेष्टं कुरु भूतले ॥५०॥इत्युक्तो बद्रिके साधुः सनत्कुमार आचरत् ।निषद्य भगवन्नामरटनं धुन्यमुत्तमम् ॥५१॥ 'बालकृष्ण हरेकृष्ण कृष्णनारायण प्रभो ।अनादिश्रीकृष्णनारायण विष्णो हरे विभो' ॥५२॥सततं श्रावयामास भ्रमित्वाऽखिलतत्पुरम् ।नारकाश्च समाकर्ण्य मुक्तबन्धास्तदाऽभवन् ॥५३॥यमदूता ययुर्दूरं श्रुत्वा नाम हरेस्तदा ।नारका नरकं त्यक्त्या ययुः स्वर्गं तदोत्तरम् ॥५४॥सनत्कुमारः सततं बभ्राम दशवारकम् ।यमलोके मुहुः संश्रावयन् कृष्णनरायण ॥५५॥अनादिश्रीकृष्णनारायण गोपालबालक ।कम्भराश्रीमहालक्ष्मीनन्दनाऽच्युत केशव ॥५६॥प्रभोकृष्ण परस्वामिन् कृष्णनारायणाऽच्युत ।स्वामिन्नारायणविष्णो पुरुषोत्तम माधव ॥५७॥तालिकां वादयित्वैवं मुनिर्धुन्यं यमालये ।चकार परितस्तत्र विचरन् मोक्षयन् जनान् ॥५८॥नारका नरकान् हित्वा हित्वा भयं च दूतजम् ।निर्गत्य दिव्यदेहाश्च भूत्वा भूत्वा दिवं ययुः ॥५९॥कुण्डानि प्रायशस्तत्र रिक्तानि चाऽभवँस्तदा ।मुनेर्भजनवेगेन कुण्डानि रिक्ततां ययुः ॥६०॥नैकोऽपि नारकी तत्र दृश्यते तु यमालये ।एवं वै कृतवान् चानुग्रहं सनत्कुमारकः ॥६१॥मायापालो नृपश्चापि व्यधाद् भजनमुत्तमम् ।अन्तरात्मन् हरे स्वामिन् कृष्णनारायणेति च ॥६२॥तालिकां वादयित्वैव चक्रे धुन्यं प्रवेगतः ।नारकाः सुखितास्तेन मोचिताश्च यमालयात् ॥६३॥धर्मराजस्तथा दूताश्चित्रगुप्तादयोऽपि च ।यमाश्च भृत्यवर्गाश्चाऽभवन् गलितगर्वकाः ॥६४॥याम्यलोके न चैकोऽपि शिष्यते दण्डदोषवान् ।सनत्कुमारो भगवान् प्रेषयामास तान् दिवम् ॥६९॥यमो विस्मयमापन्नो पूजायामास तं मुनिम् ।अहो साधोः प्रमाहात्म्यं हरेरिव महत्तमम् ॥६६॥अन्यथाकर्तुमेवाऽपि समर्थोऽस्ति हरिर्यथा ।राजा प्रसन्नतां प्राप्तो यथा निगडबन्धिनः ॥६७॥विमोचयति तूर्णं स्वेच्छया तद्वन्महामुनिः ।समर्थानां प्रभावाऽग्रे नियमा यान्ति संक्षयम् ॥६८॥पापिनां पापनाशाय समर्थाः सन्त एव ह ।भाग्यरेखासुसंव्यत्यासेऽपि शक्ता हि साधवः ॥६९॥शापाऽनुग्रहशक्ताश्च तारकाः पापवारकाः ।पुण्यपुञ्जप्रदातारः समर्थाः साधवोऽन्वहम् ॥७०॥यत्र नारायणकृष्णस्वामीश्रीर्वर्तते हृदि ।सर्वा हि शक्तयस्तत्र वसन्ति साधुमाधवे ॥७१॥इत्युक्त्वाऽऽह यमेशस्तं क्षन्तव्योऽहं सदा त्वया ।साधुनाऽभ्युदयायाऽपि क्षन्तव्या गृहधर्मिणः ॥७२॥इत्यभ्यर्थ्य ददौ पूजां मुनये यमराट् स्वयम् ।पुष्पमालां चन्दनं च नीराजनं च दण्डवत् ॥७३॥नैवेद्यं मिष्टमिष्टं च क्षीरामृतं सुभोजनम् ।जलामृतं शुभं चापि मुखवासं तथोत्तमम् ॥७४॥पादौ प्रक्षाल्य दुग्धेन पपौ धर्मः स्वयं मुनेः ।धूम्रोर्णाऽपि च तत्पत्नी पपौ पादजलं मुनेः ॥७५॥चित्रगुप्तादयश्चापि ब्रह्मपुत्राश्च लेखकाः ।पपुर्मुनेः पादवारि प्रसादं जगृहुस्ततः ॥७६॥यमदूता समस्ताश्च श्रवणा पितरस्तथा ।अन्येऽपि भृत्यवर्गाश्च यमराजकुटुम्बिनः ॥७७॥सर्वे चक्रुर्दण्डवच्च सनत्कुमारकं मुनिम् ।विदायं चार्पयामासुर्जयशब्दैः सुघोषितैः ॥७८॥सनत्कुमारस्तान् सर्वानाशीर्वादैः प्रयुज्य च ।व्योममार्गेण राजानं नीत्वा कामाक्षिणीं ययौ ॥७९॥राजपत्नी च राजानं चास्थापयत्तदालये ।सदेहौ तौ प्रवीक्ष्यैव याम्यदुःखानि सर्वथा ॥८०॥जातौ तदास्तिकौ सर्व दैवकार्यपरायणौ ।यज्ञारम्भं चक्रतुश्च विप्रैर्महर्षिभिः शुभम् ॥८१॥विष्णुयागे ददतुस्तौ दक्षिणां कोशरिक्तताम् ।सर्वस्वं नाणकं स्वर्णं रौप्यं ददतुर्भावतः ॥८२॥सनत्कुमारो भगवान् वर्तयामास चाऽध्वरम् ।मेघो ववर्ष चात्यर्थं रोगा नष्टाः समन्ततः ॥८३॥राजयक्ष्मा नृपतेश्च नष्टो निर्मूल एव ह ।मुनेः कृपया राष्ट्रं च सस्यसम्पत्सुशोभनम् ॥८४॥जातं यावच्च वै तावत् साधुर्ददौ नृपाय तु ।अक्षयां तुम्बिकां दिव्यां मिष्टान्नपूरितां शुभाम् ॥८५॥साच्छादनां तथा चाऽन्यामक्षय्यवारिसंभृताम् ।आज्ञां च दत्तवान् राज्ञे राज्ञ्यै सनत्कुमारकः ॥८६॥अरिक्ताभ्यां तुम्बिकाभ्यामन्नवारि प्रपूर्णकम् ।आच्छाद्य दक्षहस्तेन दातव्यं च निरन्तरम् ॥८७॥अक्षयं तज्जलमन्नं वर्षमात्रं भविष्यति ।ततस्ते तुम्बिके मह्यं स्वयमेवाऽऽगमिष्यतः ॥८८॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।मन्त्रं ददौ नृपायाऽपि राज्ञ्यै प्रजाभ्य इत्यपि ॥८९॥इत्युक्त्वा दक्षिणां लब्ध्वा प्रदत्वा तुम्बिके ततः ।मुनिर्ययौ व्योमपथा सत्यलोकं सुखाश्रयम् ॥९०॥मृतानां च तदा राजाऽवभृथे श्राद्धमाचरत् ।तेऽपि पीत्वा च भुक्त्वा च पितरः प्रेतसंज्ञकाः ॥९१॥ब्रह्मपुत्रीजले स्नात्वा मुक्ता भूत्वा ययुर्दिवम् ।कामाक्षी सुप्रसन्ना च सञ्जाता सर्वकामदा ॥९२॥राजा तां प्रत्यहं राज्ञी चापि पुपूज मातरम् ।देवालयान् समस्तांश्च कारयामास वै पुनः ॥९३॥प्रतिष्ठां कारयामास मायापालः पुनस्तथा ।जीविकां दापयामास योजयामास भूसुरान् ॥९४॥अहिंसां ब्रह्मचर्यं चाऽस्तेयं ररक्ष भूपतिः ।मांसमद्यादिसन्त्यागं चकार सर्वथा नृपः ॥९५॥कथोत्सवान् सुबहुलान् कारयामास वै नृपः ।अन्नसत्राणि रम्याणि विद्याशालाः सुशोभनाः ॥९६॥साध्वाश्रमाँश्च विपुलान् कारयामास शोभनान् ।धर्मकृत्यानि दादानि सतीसाध्व्यादिसेवनम् ॥९७॥अनाथदीनरक्षां च कारयामास भूपतिः ।भजनार्थं मण्डलानि क्लृप्तयामास राष्ट्रके ॥९८॥ 'बालकृष्ण हरिकृष्णाऽनादिकृष्णनरायण ।राधालक्ष्मीपते मुक्तपते मोक्षपरायण' ॥९९॥एवं धुन्यं प्रजाश्चक्रुर्मन्त्रजापं प्रचक्रिरे ।कृपया परमेशस्य वैष्णवं राष्ट्रमेव तत् ॥१००॥सञ्जातं भगवन्मार्गपरायणं समस्तकम् ।मोक्षमार्गगतं सर्वं प्रजाः कालेन मोक्षणम् ॥१०१॥प्रापुर्नृपोऽपि कालेन सनत्कुमारतारितः ।विमानेन स्त्रिया साकं ययौ धामाऽक्षरं हरेः ॥१०२॥एवं बद्रीप्रिये! साधुः सर्वपापप्रणाशकः ।सर्वपुण्यप्रदश्चाऽपि कृपालुः सेवितो यदि ॥१०३॥मोक्षं दद्याद् दिवं दद्याद् व्यसनानि विनाशयेत् ।कलिकालमहादोषान्नाशयेत् क्षणमात्रतः ॥१०४॥निगडानि नाशयेच्च मायाबन्धं विमोचयेत् ।प्रापयेत् परमात्मानं कृपापात्रं निजाश्रितम् ॥१०२॥साधुर्वै साधनं तस्मात् कलौ मोक्षप्रदं महत् ।दिव्यं पात्रं परेशस्य साधुः सर्वार्थसम्प्रदः ॥१०६॥बद्रिके चातिपापानां नाशकः साधुसत्तमः ।सेवनीयः कलौ लोकैः सर्वेच्छापूरको हरिः ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कामरूपभूपतेर्नाम्ना मायापालस्य सदेहयमलोके यातनाभोगः, सनत्कुमारसाधुना कृतस्तस्योद्धारश्चेत्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP