संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ५७

तिष्यसन्तानः - अध्यायः ५७

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रिप्रिये देवि कथां षण्ढव्रजस्य तु ।
षण्ढव्रजाभिधः षण्ढोऽभवच्छ्रीशर्करापुरे ॥१॥
शतषण्ढगुरुः सोऽयं बहुचराप्तदीक्षणः ।
नारीवेषधरो नैव स्त्रीलिङ्गो न पुल्लिङ्गकः ॥२॥
कामधातुविहीनोऽपि वासनाकामसंभृतः ।
वर्तते दीक्षितः षण्ढो षाण्ढीदीक्षान्वितः सदा ॥३॥
भिक्षया जौवनं नैजं राजवृत्त्या तु सर्वथा ।
तथाऽन्यक्लिष्टवृत्त्याऽपि निर्वहत्येव सर्वदा ॥४॥
माहात्म्यं तैः श्रुतं तत्र कथाया मोक्षदं शुभम् ।
जनेभ्यो मानवेभ्यश्च सर्वपापविनाशकम् ॥५॥
पुनर्जन्माऽदर्शनं च कथाश्रवणतो भवेत् ।
पूर्वपापानि सर्वाणि नश्यन्त्येव न संशयः ॥६॥
भस्मीभवन्ति चान्यानि ह्येतज्जन्मार्जितान्यपि ।
अपि मानवजन्मा यः कथां नैव शृणोति च ॥७॥
आत्ममोक्षं नाऽऽर्जयति स षण्ढः पशुरेव सः ।
अपि राजा धनी श्रेष्ठी प्रजापालः प्रजाग्रगः ॥८॥
तथाप्यात्मकृते मोक्षं कुर्यान्न स तु गोखरः ।
अपि षण्ढः पशुः पक्षी नारी प्रमत्त इत्यपि ॥९॥
आत्मश्रेयःकरः श्रेष्ठः श्वपचोऽपि शठोऽपि च ।
मोक्षः साध्यः परंश्रेयः पुरुषार्थः परः स वै ॥१०॥
साधनेषु समस्तेषु सत्सु सत्सु स्थितेषु च ।
मोक्षो न साधितो येन स कीटः सूकरोऽपि सः ॥११॥
धर्मार्थकाममोक्षा वै पुरुषार्था भवन्ति हि ।
धर्ममर्थं च कामं च प्रपाल्याऽपि यथोचितान् ॥१२॥
अन्ते त्यक्त्वा बन्धकृतो मोक्षमिच्छन्ति मानवाः ।
महर्षयः पूर्वजास्ते तथा कुर्वन्ति नान्यथा ॥१३॥
अन्येऽपि चात्मवेत्तारः प्रवर्तन्ते क्रमात्तथा ।
सन्यासिनस्तु ताँस्त्यक्त्वा मोक्षमिच्छन्ति साधवः ॥१४॥
राजानोऽपि वनं प्राप्य कामं दग्ध्वा तपःपराः ।
निष्कामाः सम्प्रजायन्ते मोक्षं प्रयान्ति वै ततः ॥१५॥
धातुर्दोषमयश्चास्ते वासनानां प्रवर्तकः ।
स चेन्नैव भवत्येव देहे सा तु कृपा प्रभोः ॥१६॥
एवं मत्वा हरिं श्रित्वा साधुं नत्वा प्रमोक्षणम् ।
प्रसेव्य सत्पुरुषाँश्च गुरुं भक्त्या प्रसाद्य च ॥१७॥
अर्पयित्वा समस्तं स्वं चात्मानं गुरवेऽपि च ।
कृत्वा मायापाशहीनं निर्मलं वासनोज्झितम् ॥१८॥
दिव्यभावं दिव्यदृष्टिं दिव्यं कृत्वा समस्तकम् ।
कृष्णविमानमारुह्य गन्तव्यं परमं पदम् ॥१९॥
दासो भूत्वा हरेर्दासी वैकुण्ठे कृष्णवर्तिनी ।
गोलोके चाऽमृते चाव्याकृते ब्रह्मनिवासने ॥२०॥
श्रीपुरे भगवद्धाम्नि त्वास्वादयेद्धरेः रसम् ।
अश्नुवीत सदा कृष्णनारायणप्रसादकम् ॥२१॥
स एवं प्राप्तकैवल्यो नरो वा योषिदेव वा ।
षण्ढो वा तिर्यगेवापि स एव पुरुषो मतः ॥२२॥
पुरुषार्थो महान् मोक्षो यस्तेन प्रसाधितः ।
अर्थवान् पुरुषो लोके पुरुषस्याऽर्थ इत्यपि ॥२३॥
मिथो वै वर्तते संसर्गस्तयोः सार्थकः सदा ।
एवं नैव विजानाति पुमर्थान्न तनोत्यपि ॥२४॥
वृथा पुरुषगर्वाढ्यः षण्ढः स नैव संशयः ।
षण्ढता सा सदा त्याज्या मायया निर्मिता पुरा ॥२५॥
जीवानां मोक्षमार्गाद्वै पातिनी चात्मघातिनी ।
सेव्याः सन्तः कथाः श्रव्याः प्राप्तव्यः श्रीपतीश्वरः ॥२६॥
परिहार्यं पुनर्जन्म षण्ढाख्यं तरुषण्डवत् ।
पुत्रपौत्रादिसम्पन्नो यदि मोक्षं प्रविन्दति ॥२७॥
वृक्षषण्डस्वरूपः सः साण्डोऽपि षण्ढ एव सः ।
विचार्येत्थं बद्रिके ते षण्ढा गुरुसमन्विताः ॥२८॥
षण्ढव्रजं पुरस्कृत्य कल्याणार्थमुपस्थिताः ।
आययुः श्रीकथास्थानं भक्तिभावसमन्विताः ॥२९॥
उपदाश्च करे कृत्वा पूजोपसाधनान्यपि ।
कृतस्नाना शुद्धिमन्तो भजन्तः कृष्णमुत्तमम् ॥३०॥
कीर्तयन्तः स्वामिकृष्णमाधवीश्रीनरायण ।
नारीश्वरनरावासबहुचराधिषायण ॥३१॥
एवं सतालिकं गीतं गायन्तस्ते कथास्थलम् ।
ययुः षण्ढाः समस्ता वै दूरान्नेमुर्हि मण्डपम् ॥३२॥
वर्तुलं ते तदा क्लृप्त्वा रासलीलां प्रचक्रिरे ।
रासं सतालकं सर्वे नारीवेषधरास्तथा ॥३३॥
सकूर्दनं सगीतं च सभ्रमणं प्रचक्रिरे ।
सवाद्यं सविलासं च सुनर्माख्यं प्रचक्रिरे ॥३४॥
एकः कृष्णोऽभवन्मध्ये वंशीधरो नरायणः ।
अन्याः सर्वा योषितश्च गोपिका रासमुत्तमम् ॥३५॥
वर्तुलस्थाश्च खेलादि दर्शयन्त्यो व्यधुः शुभम् ।
सभ्या रासं तु षण्ढानां वीक्ष्याऽऽश्चर्यं परं गताः ॥३६॥
ऋषयो मुनयश्चापि प्रजा राजा नराः स्त्रियः ।
प्रसन्नाश्चाऽभवँस्तत्र फाल्गुनस्य सिते दले ॥३७॥
पूर्णिमायां तदा सायं कथान्ते सर्ववैष्णवाः ।
प्रसन्नो लोमशो जातः स्वतःप्रकाशकोऽपि च ॥३८॥
षण्ढास्ते लोमशं नत्वा नत्वा श्रीसंहितां तथा ।
ब्रह्मप्रकाशं नत्वा च पूजां चक्रुस्तदोत्तमाम् ॥३९॥
हारान् हैमान् रत्ननद्धान् शुभवेषान् ददुस्तदा ।
स्वर्णरूप्यादिमुद्राश्च वस्त्रपात्रादि सन्ददुः ॥४०॥
कुंकुमाक्षतपुष्पाद्यैः पुपूजुः संहितां तथा ।
व्यासं च लोमशं चापि पुपूजुस्ते नपुंसकाः ॥४१॥
आरार्त्रिकं प्रचक्रुश्च तालीवादनपूर्वकम् ।
मृदंगकांस्यवाद्याढ्यं घुर्घुरानृत्यशोभितम् ॥४२॥
नैवेद्यं च न्यधुः श्रेष्ठं पक्वान्नानि फलानि च ।
ब्रह्मप्रकाशव्यासेन हरये तत्समर्पितम् ॥४३॥
प्रसादश्च सलिलं च तथा ताम्बूलकान्यपि ।
तेभ्यो भक्ष्यार्थमेवाऽपि दत्तानि पावनानि वै ॥४४॥
ते षण्ढाः प्राप्य रसिकं प्रसादं च जलामृतम् ।
फलं च भक्षयामासुः पपुः पादामृतं तथा ॥४५॥
ततस्ते प्रार्थयामासुर्लोमशं पावनं मुनिम् ।
षण्ढतापापनाशार्थं षण्ढताजन्मनुत्तये ॥४६॥
षण्ढताया निवृत्त्यर्थं मोक्षार्थं शुद्धयेऽपि च ।
ददौ तेभ्यो लोमशस्तु मन्त्रं च भजनं तथा ॥४७॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'कृष्णनारायण कृष्णनारायण नरायण ॥४८॥
बालकृष्णाऽनादिकृष्णनारायण रमायण' ।
लब्ध्वा मात्रं नामधुन्यं पावनास्ते तदाऽभवन् ॥४९॥
न्यूषुस्तत्रैव ते रात्रौ रासगानं प्रचक्रिरे ।
फाल्गुनस्याऽसिते चाद्यदिने पुष्पावदोलनम् ॥५०॥
उत्सवं परमं चक्रुस्ते सर्वे तु कथोत्तरम् ।
लक्षशो मानवाश्चापि पुष्पदोलामहोत्सवम् ॥॥५१॥
प्रचक्रुः रंगनिक्षेपैः कृष्णं दोलास्थितं हरिम् ।
स्नपयामासुरत्यर्थं रेमुश्च लक्षशो जनाः ॥५२॥
नरा नार्यः पृथग्भूताश्चक्रुः रंगप्रखेलनम् ।
एवं ते वैष्णवा बद्रि षण्ढा सर्वेऽभवँस्ततः ॥५३॥
नित्यं कथां प्रशृण्वन्ति कीर्तयन्ति नरायणम् ।
मन्त्रं जेपुश्च मालाभिः सेवन्ते च सतो जनान् ॥५४॥
तीव्रसंवेगभक्तानां गोचरो भगवान् द्रुतम् ।
जायतेऽथ तु षण्ढानां शीघ्रं प्रसन्नतां गतः ॥९५॥
चैत्रे कृष्णे तु ते षण्ढा एकादश्या व्रतं व्यधुः ।
चक्रुर्जागरणं सर्वे प्रातः स्नात्वा कथामृतम् ॥५६॥
पपुस्ते नित्यवत् प्रातस्ततो मध्याह्नके तु ते ।
भुक्त्वा सभास्थले गत्वा निषेदुः सुखितास्तदा ॥५७॥
ध्यानं चक्रुर्हरेस्तत्र तावत् कृष्णनरायणः ।
आययौ दिव्यरूपेण विमानस्थः प्रियेश्वरः ॥९८॥
उवाच तान् यथेष्टं वै भवन्त्विष्टसुरूपिणः ।
मुक्तरूपं तथा मुक्तानिकारूपं यथेष्टकम् ॥९९॥
येषां यासां यदिष्टं तन्मदिच्छयाऽत्र जायताम् ।
बद्रिके एवमुक्ते तु नारीषण्ढस्तु योऽभवत् ॥६०॥
मुक्तानिकादिव्यरूपं प्राप्तवान् सर्वथा पृथक् ।
नरषण्ढस्तु यस्तेषु स चाप्तो मुक्तरूपताम् ॥६१॥
एवं दिव्यस्वरूपा वै मुक्ता मुक्तानिकाः शुभाः ।
अभवँस्तत्र सहसा सर्वाभरणभूषिताः ॥६२॥
ततस्तानवदत्तत्र षण्ढव्रजोऽग्रमानवान् ।
भूत्वा दिव्यस्वरूपश्च बोधयामास मानवान् ॥६३॥
षण्ढत्वं जायते नार्या विघ्नकर्त्र्या रतिक्षणे ।
सपत्न्या विघ्नकर्त्र्याश्च दम्पत्योर्विघ्नयोषितः ॥६४॥
स्वपत्युर्विघ्नकर्त्र्याश्च पशूनां पक्षिणां तथा ।
युगलानां विघ्नकर्त्र्याः षण्ढात्वं समजायते ॥६१॥
पतिं त्यक्त्वाऽन्यसक्तायाः षण्ढात्वं संप्रजायते ।
रतिं चाऽसहमानाया विद्वेषिण्याः स्त्रियास्तथा ॥६६॥
आभिचारिकवेत्र्याश्च भगबन्धकयोषितः ।
लिंगापातनवेत्र्याश्च ऋतुभञ्जकयोषितः ॥६७॥
षण्ढात्वं जायते तस्या जन्मान्तरे च जन्मनि ।
नरस्यापि तथा तस्य पत्न्यकामप्रदस्य तु ॥६८॥
वियोनिवर्तमानस्य परभार्यारतस्य च ।
विघ्नकर्तुर्युगलयोः कन्यादिदूषकस्य च ॥६९॥
अगम्यागमकस्यापि वृषणोच्छेदकस्य च ।
लिंगादिनाशकस्यापि देहिनां पशुपक्षिणाम् ॥७०॥
षण्ढत्वं जायते गर्भहन्तुर्धातुक्षयस्य च ।
कुकर्मकारिणां प्रायः षंढत्वं जायते भुवि ॥७१॥
महापापं हि तत्प्रोक्तं मानवे जन्मनि ह्यति ।
पुंस्त्वस्त्रीत्वविहीनत्वं नरकस्यैव रूपणम् ॥७२॥
तद्गतं कृपया चाद्य कथायाः श्रवणेन नः ।
मुक्तात्वं चापि मुक्तत्वं लब्धमस्माभिरुत्तमम् ॥७३॥
पतिर्लब्धः परब्रह्मनारायणः प्रियेश्वरः ।
अमोघवीर्यो भगवान् ब्रह्मनन्दप्रदः प्रभुः ॥७४॥
मा कुर्वन्तु स्त्रियो पुंसो लोकेऽत्र कामदूषणम् ।
कामविघ्नकृतानां वै नरकं गोचरं त्विह ॥७५॥
येषामुद्धरणं न स्याद् विना श्रीवल्लभंहरिम् ।
तं भजन्तां महाभागा नरा नार्यो भयार्दिताः ॥७६॥
स्वस्वकुकर्मजालानि स्मृत्वा स्मृत्वा नरायणम् ।
यान्तु शरणं श्रीकृष्णं भवन्तु दिव्यविग्रहाः ॥७७॥
शाश्वतानन्दमग्नाश्च प्रजायन्तां तदङ्कगाः ।
वयं स्नात्वा तीर्थजले पीत्वा कथामृतं मुहुः ॥७८॥
भुक्त्वा कृष्णप्रसादं च प्राप्य प्रसन्नतां गुरोः ।
भक्त्या लब्ध्वा पतिं कृष्णं यामोऽक्षरं परं पदम् ॥७९॥
भूत्वा दिव्यस्वरूपाः श्रीकृष्णयोग्याः सुखाश्रयाः ।
शाश्वतानन्दसंमग्ना भवामो राधिकासमाः ॥८०॥
इत्युक्त्वा बद्रिके सर्वे मुक्तरूपा नराः स्त्रियः ।
कृष्णाज्ञया स्वर्णयाने निषेदुश्चाऽक्षरं ययुः ॥८१॥
तेनैव खलु देहेन स्वेन स्वेन नपुंसकाः ।
विवर्तमानकायास्ते मुक्ता दिव्यास्तदाऽभवन् ॥८२॥
अभून्नैषां देहपातः कायाकल्पो व्यजायत् ।
श्रीकृष्णस्पर्शनेनैव मुक्ता जाता नपुंसकाः ॥८३॥
सर्वे षोडशवर्षा वै नरा नार्यः सुतैजसाः ।
मुक्ता मुक्तानिकाः सर्वे कृष्णराधारमासमाः ॥८४॥
अन्यथाकर्तुरीशेशेशस्य नारायणस्य तत् ।
सामर्थ्यं चाऽप्रतिहतं प्राकाम्यं प्रकटीभवत् ॥८५॥
व्यराजत मनुष्याणां हृदये तु कृतास्पदम् ।
चमत्कारो महानेषः कथायां कृष्णदर्शितः ॥८६॥
जडं सचेतनं कुर्याद् विदध्याच्चेतनं जडम् ।
नारीं नरं विदध्यात् स नरं नारीं विधापयेत् ॥८७॥
नरं स्त्रियं च वा कुर्यादुभयं तु नपुंसकम् ।
नपुंसकं विदध्याद्वा नरं नारीं च पार्षदम् ॥८८॥
मुक्तं मुक्तानिकां वापि जडं दिव्यं विधापयेत् ।
मायां कुर्यादक्षरं सोऽक्षरं कुर्यात्तु प्रकृतिम् ॥८९॥
कुर्यात्तत्त्वान्यतत्त्वानि शून्यं तत्त्वात्मकं क्रियात् ।
तत्त्वात् तत्त्वान्तरं कुर्यादेतास्तु शक्तयो हरेः ॥९०॥
अनन्तशक्तियुक्तस्य विमानं दुर्गमं सदा ।
आश्चर्यं तत्र नास्त्येव सर्वं यदात्मकं यतः ॥९१॥
बद्रिके च ततः श्रुत्वा षण्ढानां दिव्यदेहताम् ।
गुप्तषण्ढाः स्त्रियश्चापि गुप्तषण्ढा नरा अपि ॥९२॥
संहितायाः स्थलं गत्वा शरणागतिमाप्नुवन् ।
मन्त्रं च भजनं धुन्यं लोमशाज्जगृहुर्मुदा ॥९३॥
पक्षं पक्षं च ते कृत्वा भजनं श्रवणं तथा ।
ध्यानं सेवां पूजनं च प्रसादभोजनाशनम् ॥९४॥
भूत्वा पापविहीनाश्च शुद्धात्मानो वृषान्विताः ।
सुपुण्याढ्यागुप्तप्राप्तेन्द्रियास्ते तास्ततोऽभवन् ॥९५॥
केचन श्रीहरिं ध्यात्वा मुक्ता भूत्वाऽक्षरं ययुः ।
एवं षण्ढाः कृष्णनारायणस्य कृपया क्षितौ ॥९६॥
सत्यनराः सत्यनार्यः सत्यमुक्तास्तथाऽभवन् ।
सत्यमुक्तानिकाश्चाप्यभवन् शाश्वतविग्रहाः ॥९७॥
अहो किमत्र दुष्प्रापं यत्र कृष्णकृपालवः ।
अहो कथाया माहात्म्यं बद्रिके पारमेश्वरम् ॥९८॥
सर्वं निष्पापतां प्राप्तं यथा मोक्षात्मकं जगत् ।
सर्वे विदेहमुक्ता वा जीवन्मुक्तास्तथाऽथवा ॥९९॥
शर्करापत्तने जाताः श्रीसंहिताकथाश्रवात् ।
पठनाच्छ्रवणादस्य भुक्तिमुक्तिः करे भवेत् ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापुरवासिनां षण्ढव्रजादिषण्ढानां संहिताश्रवणेन पापनिर्मुक्तिः, श्रीकृष्णनारायणदर्शनेन तैरेव देहैर्दिव्यमुक्तानिकात्मकैरक्षरपदस्य प्राप्तिश्च, तथाऽन्यगुप्तनपुंसकानां शरणागत्या पुंस्त्वस्त्रीत्वाद्यभिव्यञ्जकता, चेत्यादिनिरूपणनामा सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP