संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि मध्याह्नभोजनान्यपि ।प्रवृत्तानि समस्तानि सर्वेषां तृप्तिदान्यति ॥१॥दिव्यामृतानि सर्वाणि निहितानि तु चक्रिणा ।यदग्रे मायिकाः सर्वे रसा निःस्वादतां गताः ॥२॥संकल्पैर्बालयोगिन्या ब्रह्मरसान्वितानि वै ।मिष्टान्नानि समस्तानि भोजनाऽवसरेऽभवन् ॥३॥जलं ब्रह्मह्रदात्तत्र समुद्भूतं तदाऽक्षरात् ।गोलोकाद्धृतदुग्धादि दध्याज्यनवनीतकम् ॥४॥वैकुण्ठाद्दिव्यशाकादि श्रीपुराद्भोजनानि च ।क्षीरोदात् पायसान्नानि बद्रीक्षेत्रात् फलानि च ॥५॥सूर्यलोकाच्चटन्यादि चन्द्राच्छ्रीखण्डकान्यपि ।हिरण्ययात्तु पात्राणि श्रीलोकाच्छयनानि च ॥६॥विष्णुलोकात् समस्तानि शृंगारकाणि चाऽगमन् ।नाऽपूर्णं विद्यते तत्र किंचित् संकल्पितं नवम् ॥७॥अदृष्टं चाऽश्रुतं वापि द्राग् रम्यं समजायत ।उपस्थितं द्रुतं भोक्तुः सन्निधौ चाऽविलम्बितम् ॥८॥सम्पन्ने भोजने त्वेवं बद्रिके मुखवासनम् ।ताम्बूलकादि सर्वं च योग्यं समर्पितं तदा ॥९॥विश्रान्तिं च ततः सौधेष्वेव ते मध्यकेऽहनि ।प्रापुस्ततस्तु सज्जाश्चाऽभवन् दिनव्ययोत्तरम् ॥१०॥अनादिश्रीकृष्णनारायणः शृंगारितस्तदा ।वरराजस्वरूपेण शोभान्वितः सुवेषितः ॥११॥सहस्रसूक्ष्ममणिभिर्मध्ये च महता तथा ।मणिना खचितः श्रेष्ठो मृदुसौवर्णनिर्मितः ॥१२॥मुकुटः कल्गिसहितस्तेजःपरिधिशोभितः ।संवृतः कृष्णशिरसि ललाटे चन्द्रमाः कृतः ॥१३॥कज्जलं नेत्रयोर्दत्तं कर्णयोः कुण्डले शुभे ।पुष्पावतंसाः परितो वरबोधनकारिणः ॥१४॥मुकुटे लम्बिता हाराश्चित्रसुगन्धिपुष्पजाः ।स्वर्णहारा रत्नयुताः कौस्तुभेन समन्विताः ॥१५॥कण्ठे धृता पीतवर्णनीशारोपरि वक्षसि ।पीताम्बरं स्वर्णतारैर्ग्रथितप्रान्तशोभितम् ॥१६॥पटं कटितटे बद्धं स्वर्णभासुरमुज्ज्वलम् ।पत्त्राणे कौशेयजन्ये रक्तवर्णे पिशंगिनी ॥१७॥स्कन्धयोः श्रेष्ठवसनं प्रावारवरमुत्तमम् ।सौवर्णप्रान्तसंशोभं पुष्पहारावलिभृतम् ॥१८॥भुजबन्धौ प्रकोष्ठस्थशृंखले कटके तथा ।ऊर्मिकाश्चांगुलिचक्रांऽगुलीयकानि वै तथा ॥१९॥रत्नाढ्यानि च दिव्यानि धारितानि हि चक्रिणः ।रशनां स्वर्णनिर्माणां खड्गं सौवर्णतैजसम् ॥२०॥धारयामासुरेवैनं नारिकेलफलादिकम् ।चतुर्दन्तं श्वेतवर्णं हस्तिनं चाद्रिसदृशम् ॥२१॥महाशुद्धं सुरूपैश्च रूपितं स्वर्णकूथिनम् ।साम्बालिकं सूर्यभावत् तैजसं मुक्तकोटिकम् ॥२२॥शृंगारित कृतसर्वकौतुकः श्रीनरायणः ।आरोहयच्छत्रयष्टिधरचामरिसेवितः ॥२३॥वरवाहिनिका देवैर्जुष्टा महर्षिमानवैः ।दिव्यवाजिगरुडाद्यैः शोभते धामगा यथा ॥२४॥प्रदीपाश्चौषधीनां च वृतानां विद्युतां तथा ।मणीनां दिव्यरत्नानां तदाऽऽसन् परितः सुखाः ॥२५॥एवं सा सर्वशोभाढ्या वृद्धजनैरलंकृता ।नारीवर्गैरतिगीता वाहिनी व्यचरत् पुरः ॥२६॥तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।पुष्पवृष्टिर्दिव्यहस्तैर्मुक्ताऽभवच्च चान्दनी ॥२७॥लाजाऽक्षतादिमांगल्यैर्वर्धितः परमेश्वरः ।हस्तिना संवृतः पृष्ठे ययौ विवाहमण्डपम् ॥२८॥विशालं चाऽम्बरस्पृष्टं विचित्राम्बरशोभितम् ।स्वर्णस्तम्भप्रशाखातोरणाद्यैरत्यलंकृतम् ॥२९॥नैसर्गिकप्रदीपाद्यैः स्वर्णकलशैर्वर्धितम् ।कल्पलतादिभिर्व्याप्तं निसर्गगीतिगर्जितम् ॥३०॥मगलायतनदैवप्रतिमाद्यभिराजितम् ।कुण्डविप्रोपकरणैर्वह्निदेवाधिवासितम् ॥३१॥सर्वसमित्समाजुष्टं वेदविप्राऽभिवर्धितम् ।एतादृशं धामतुल्यं प्राप्य वै मण्डपं वरः ॥३२॥अवतीर्य गजान्नमस्कृत्य तन्मण्डपेश्वरम् ।श्वशुरेण तथा श्वश्र्वा सत्कृतः पूजितो हरिः ॥३३॥लोकाचारैः संस्कृतश्च जलाद्यैर्मालिकादिभिः ।अक्षताद्यैर्वर्धितश्च गृहोपकरणैस्तथा ॥३४॥निर्विघ्नीकृत ईशेशो विश्रान्त्यै नीत आलयम् ।महामन्दिरमध्ये सुस्वर्णसौधान्तरे तदा ॥३५॥सिंहासने श्वशुराद्यैरुपावेशित आदृतः ।हारैः स्वागतयत्नैश्च प्रसादितोऽन्नवारिभिः ॥३६॥प्राघूणिकाः समस्ताश्च जलताम्बूलदानकैः ।मिष्टान्नकैः फलैश्चापि प्रसादिताः सुखीकृताः ॥३७॥वाद्यन्ते तत्र वाद्यानि गीयन्ते गीतयः शुभाः ।उद्धोष्यन्ते वेदमन्त्राः प्रमोदन्ते नराः स्त्रियः ॥३८॥अथ नार्यः कुमार्यश्च सौभाग्ययोषितस्तदा ।विविधैर्दिव्यवेषाद्यैः शृंगारैर्भूषणादिभिः ॥३९॥प्रसाधनैः शृंगारयामासुस्तां बालयोगिनीम् ।सुगन्धितैलसाराद्यैः सलिलैस्तीर्थपावनैः ॥४०॥चन्दनैः केसरैः पिष्टैः पिशंगैः स्वर्णचूर्णकैः ।संस्नाप्य घर्घरीं स्वर्णबुट्टरत्नादिसंभृताम् ॥४१॥निधारयामासुरपि शाटीं सौवर्णभासुरीम् ।कञ्चुकीं कानकीं सूक्ष्मतन्तूत्थां कचलीं तथा ॥४२॥चोलीं च कुचलीं स्वर्णवर्णां च नक्तकं शुभम् ।रक्तरूपां सूक्ष्मशाटीसहायिशाटिकां ददुः ॥४३॥केशवेशं च कबरीं धम्मिलं भूषणानि च ।सफुलकं ग्रथनं च कृत्वा सुमुकुटं न्यधुः ॥४४॥ललाटिकां बालपाशीं चूडामणिं च शृंखलाम् ।चूडामणिं कर्णभूषामीरयाने च बालिकाम् ॥४५॥नत्थीं च चन्द्रिकां फुल्लीं टिप्पकीं रत्नचक्रिकाम् ।पट्टपत्रीं फुल्लमालां मुद्गमालां च माषजाम् ॥४६॥चणहारान् मणिहारान् पर्वहारान् न्यधुर्गले ।कटके शृंखले सिंहकटके भुजबन्धके ॥४७॥ऊर्मिकाश्चांगुलिचक्राण्यपि प्रपद्मपत्रिकाम् ।रशनां धारयामासुर्झंझीरे घुर्घुरीयुते ॥४८॥किंकिणीजालनादाढ्यै कटके काम्बिके न्यधुः।पादाङ्गुलीयकान्यूर्ध्वचन्द्राढ्यानि न्यधुस्तथा ॥४९॥कण्ठीं ललन्तिकां ग्रैवेयकाणि कुण्डलानि च ।मुक्ताहारादिकान् हारान् गुच्छगोस्तनमालिकाः ॥५०॥कंकणे मेखलां मंजीरे च न्यधारयत्तदा ।नखालक्तकदानं च करपादतलादिषु ॥५१॥ओष्ठगण्डकपोलादौ भाले स्तनयोः रञ्जनम् ।कज्जलं नेत्रयोर्देहे वेषे स्वर्णादिचूर्णकम् ॥५२॥न्यधुस्ता योषितः कन्यारूपे रूपाभिवृद्धये ।पुष्पहारान्नधुश्चापि वधूटीमुकुटे शुभान् ॥५३॥स्वल्पलज्जां सूक्ष्मशाटिकया व्यरचयन् स्त्रियः ।ताम्बूलचर्वणं मिष्टभोजं वारिपानकम् ॥५४॥ददुः प्राप्ते मुहूर्तेऽथ लाग्निके मण्डपं प्रति ।वरं च महीमानादीनानयामासुरुत्सुकाः ॥५५॥विप्रा वृद्धा लोमशाद्याः शिष्टाचारं व्यधुस्तदा ।प्रक्षाल्य चरणौ सुरेश्वरी नीराजनं व्यधात् ॥५६॥पुपूजाऽक्षतकुसुमैर्लाजाद्यैः समवर्धयत् ।वरं चाथ गीतिवेदैर्वर्धितो मृत्कपालकम् ॥५७॥संचूर्ण्य नत्वा देवाँश्च गुरुं वह्निं स मण्डपे ।कुण्डाग्रे न्यषीदद् दर्शितासने वरराट् स हि ॥५८॥योषाभिश्चाऽक्षतपुष्पैर्वर्धितो विप्रपुंगवैः ।निपीतो ग्रामयोषाभिश्चक्षुर्भिस्तृषितैरति ॥५९॥हृदये गमितो दिव्यश्चात्मन्यर्पित इष्टवत् ।अथ स्त्रियः समानिन्युर्मण्डपं बालयोगिनीम् ॥६०॥सुरेश्वरीसहितास्ता जगुश्च लग्नगीतिकाः ।विप्राः कन्यां तदा गन्धाक्षतपुष्पादिभिर्द्रुतम् ॥६१॥वर्धयामासुरुच्चैश्च मंगलानि जगुर्मुहुः ।दिनं संकल्पयामासुर्न्यषादयन् सुरान्तिके ॥६२॥कन्यकां वामभागे श्रीकृष्णनारायणस्य वै ।गणेशादिपूजनं च कारयामासुरित्यपि ॥६३॥कामफलबन्धनं च मण्डपाग्निप्रपूजनम् ।कुण्डप्रपूजनं विप्रवृद्धादिपूजनं तथा ॥६४॥प्रायश्चित्तं तु शुद्ध्यर्थं कारयामासुरित्यथ ।श्राद्धादितर्पणं चापि कुलदेवादिपूजनम् ॥६५॥कारयित्वा वरगले कन्याहस्तेन मालिकाम् ।पुष्पाणां दापयामासुः पुष्पाक्षतादिवर्धनम् ॥६६॥वरहस्तेन कन्यायाः कण्ठेऽपि मालिकां तथा ।वस्त्रग्रन्थिमतो विप्राश्चक्रुस्ततोऽभिदानकम् ॥६७॥अग्नेः प्रदक्षिणां चतुर्वारं च नमनार्चनम् ।कारयामासुरेवैतौ हवनं हविषां तथा ॥६८॥हस्तग्रहं पिता तत्र कारयामास दानकृत् ।वरहस्ते ददौ हस्तं कन्यायास्तु निकामतः ॥६९॥निकामदेवो विप्रर्षिश्चाशीर्वादान् ददौ तदा ।महाभाग्यवती पुत्रि भव नारायणी सदा ॥७०॥बालकृष्णः प्रजग्राह करं कन्यार्पितं करे ।सहधर्मान् चरतां वै तादात्म्यं चरतां सदा ॥७१॥ददुर्विप्रा आशिषश्च दानं ददुः परे जनाः ।हस्तद्रव्यं ददुश्चापि बहुरत्नादिसंभृतम् ॥७२॥दक्षिणाऽर्हणदानानि विप्रेभ्यः प्रददौ पिता ।श्रीमद्गोपालकृष्णाद्या ददुर्दानानि भूरिशः ॥७३॥गोदानादिसमस्तानि महादानानि वै ददुः ।कवलं च मिथस्तत्र जगृहतुर्वधूवरौ ॥७४॥अन्योन्यस्य मुखे प्रेम्णा ददतुस्तत्र मण्डपे ।ऊर्मिकाखेलनं तत्र चक्रतुर्जलपात्रके ॥७५॥परिहारं तु भूदेवाश्चक्रुर्वै योषितस्तदा ।गीतिकापूर्वकं रम्ये मन्दिरे दम्पतीं शुभे ॥७६॥निन्युर्हास्यानि चक्रुश्च ददुस्ताभ्यां सुभोजनम् ।जलपानं तथा ताम्बूलकं ददुश्च वै रहः ॥७७॥शयनं प्रददुस्तत्र वधूटी पारितोषिकम् ।प्राप्य सिषेवे कान्तं चाऽथ प्राघुणास्तथा प्रजाः ॥७८॥भुक्त्वा व्यधुश्च शयनं प्रातर्जातं ततो जनाः ।पञ्चम्यामाषाढशुक्ले स्नात्वा भुक्त्वा समुत्सुकाः ॥७९॥दम्पतीवाहिनीयुक्ताः सज्जा गन्तुं ततोऽभवन् ।पितानिकामदेवश्च धनं प्रादान्महोत्तमम् ॥८०॥यौतकं बहुधा तत्र दिव्यं सर्वं विशेषतः ।प्रददौ कन्यका सापि श्रीमत्कृष्णनरायणम् ॥८१॥पति प्राह पितरौ मे सह कृष्ण नय त्वया ।धूनीग्रामे पितरौ मे मद्वियोगेन दुःखितौ ॥८२॥स्यातां तस्माद् भवत्क्षेत्रं नय कृष्ण कृपां कुरु ।अथ तावत् समागत्य पादौ धृत्वा हरेरपि ॥८३॥प्राह निकामदेवोऽपि नय नौ वै निजं गृहम् ।हरिः प्राह तथास्त्वेवं तथा गोपालकृष्णकः ॥८४॥निन्ये स्नुषापितरौ तौ निजां कुंकुमवापिकाम् ।सुरेश्वरी तथा निकामदेवो बालयोगिनी ॥८५॥ययुः कृष्णस्य वाहिन्या समं कुंकुमवापिकाम् ।धूनीग्रामजनाश्चाऽन्ये ययुर्भक्ता हरेस्तु ये ॥८६॥प्रस्थानं चक्रिरे सर्वे मध्याह्ने भोजनोत्तरम् ।देववाद्यान्यवाद्यन्त पुष्पवृष्टिर्बभूव ह ॥८७॥सुरेश्वर्या जिता माया जितः कृष्णः सुतार्पणात् ।जितो मोक्षश्चेति वाणी सुराणामभवद्दिवि ॥८८॥अथ स्वर्गसमो ग्रामो मण्डपो दिव्यकानकः ।यज्ञशाला रसशाला महानसानि यान्यपि ॥८९॥सर्वं तिरोऽभवत् सद्यः प्रस्थिते परमेश्वरे ।मिष्टान्नानि प्रसादानि देवाद्या निन्युरुत्सुकाः ॥९०॥तीर्थानि च सुराद्याश्च ययुर्विस्मयमच्युते ।दासा दास्यो हरिकृता अदृश्यतां ययुर्द्रुतम् ॥९१॥वाहयित्वा वाहिनीं स्वां बालयोगिनिकापतिः ।बालकृष्णः प्रियायुक् चाऽऽययौ कुंकुमवापिकाम् ॥९२॥मंगलानि समस्तानि तत्राऽऽसन् कृष्णमन्दिरे ।पिता प्रददौ दानानि भोजनानि मधूनि च ॥९३॥महीमानादिपूजां स प्रचकार तथाऽर्पणम् ।धनादीनां यथायोग्यं व्यसर्जयतत्तः परम् ॥९४॥महीमानाः प्रसन्नाश्च प्रययुः स्वालयाँस्ततः ।वध्वाः पित्रे च मात्रे च बालकृष्णः सुवर्णजम् ॥९५॥मन्दिरं नित्यवासार्थं प्रददौ भोग्यजातकम् ।प्रापतुस्तौ परानन्दं जामातारं हरिं प्रभुम् ॥९६॥प्राप्यकन्यामहाभाग्यं वीक्ष्य ययतुर्हर्षणम् ।निवृत्तौ तावृणात् कन्यां दत्वा तु विधिना ततः ॥९७॥युयुजाते हरेर्मूर्तौ मोक्षार्थं तावहर्निशम् ।अथैकदा श्रीनिकामदेवः पप्रच्छ तं हरिम् ॥९८॥श्रेयसे श्रेष्ठमत्रैव साधनं मोक्षकृत्तु यत् ।बद्रिके श्वशुरं मोक्षमानसं वीक्ष्य वै ततः ॥९९॥मोक्षयोगं स्वजामाता बोधयामास सर्वथा ।यत् प्राप्य मानवाश्चापि मोक्षं तूर्णमवाप्नुयुः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने महीमानानां भोजनादि, शृंगारः, मण्डपं प्रतिगमनम्, श्रीकृष्णस्य शृंगारो मण्डपं प्रतिगमनम्, विधिश्चोद्वाहः कुंकुमवापिकां प्रत्यागमनं चेत्यादिनिरूपणनामा त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP