संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०८ Translation - भाषांतर श्रीबद्रीप्रियोवाच-नरनारायण कृष्णनारायण जगत्प्रभो ।कलेरन्ते पुनर्धर्माः सत्या भवन्ति वा न वा ॥१॥अन्तिमस्य कलेरन्ते कल्पान्ते कीदृशी स्थितिः ।पुनः किं जायते शून्यं यद्वा मूर्तं नवं परम् ॥२॥श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कलेरन्ते हरीच्छया ।संभवामि तु सत्यानां धर्माणां स्थापनाय वै ॥३॥तदा त्वं चाऽसिरूपा वै श्वेतस्वरूपधारिणी ।देवैरभिष्टुता दिव्या जलभूव्योमचारिणी ॥४॥जायसे तीक्ष्णधाराऽति नरोऽयं चाऽश्वरूपवान् ।श्वेतरूपो भूमिवारिखादिवह्निप्रचारवान् ॥'९॥भूत्वा देवैरभिवन्द्यो यत्पार्श्वे सम्प्रतिष्ठति ।तदाऽहं तं मत्स्वरूपं श्वेताश्वं नररूपिणम् ॥६॥आरुह्य धर्मपुत्रोऽहं विष्णुनामिद्विजात्मजः ।त्वां तदा दिव्यशक्त्याढ्यामसिरूपां सुशोभनाम् ॥७॥संगृह्य भूतले बद्रि! विचरामि जले स्थले ।कलिकल्मषपापानां नाशो मद्वायुना तदा ॥८॥पापिनां कल्कदेहानां विनाशश्च ममाऽसिना ।मानसानामनिष्टानां मद्ध्यानैः परिवर्तनम् ॥९॥मानवानां सात्त्विकानां तदायुष्यविवर्धनम् ।धर्मे स्थिरस्वभावानां निसर्गतः प्रसञ्जनम् ॥१०॥कृतधर्माभिपन्नानां महर्षीणां प्रकाशनम् ।गुरूणां देवकोटीनां तदा मम सहायनम् ॥११॥नारीणां कन्यकानां च सतीनां च विवर्धनम् ।शीलव्रतपराणां च तापसानां तदोदयः ॥१२॥कर्मठानां सतां लोके प्रायशश्च सुमेलनम् ।सन्न्यासानां दिव्यदृष्टिर्बालानां बहुवेदिनाम् ॥१३॥दिव्याचार्यगुरूणां च प्रभावो जन्मयोगिनाम् ।नैर्मल्यं भूविकाराणां मत्प्रभावकृतं तदा ॥१४॥स्फुरणं पूर्वधर्माणां कर्मणां मोक्षदायिनाम् ।सत्कर्मणां दर्शनं च प्रवृत्तिर्मखधर्मिणाम् ॥१५॥देवानां च तदा पृथ्व्यामागमनं ममाऽन्तिके ।धर्मसृष्टेः प्रचारश्च जने जने तदाऽस्ति वै ॥१६॥पृथिवी मत्पादयोगा पवित्रा पावनी शुभा ।जलानि मम योगेन दिव्यानि साधकान्यपि ॥१७॥मत्प्रसंगेन तीर्थानि भवन्ति शक्तिमन्त्यपि ।चैत्यानां चेतनत्वं च तदा समुपजायते ॥१८॥मानसानां बलवत्त्वं सफला कल्पना तदा ।सुखदुःखसहिष्णुत्वं शरीरिणां च पुष्टता ॥१९॥दीर्घायुष्ट्वं च बालानां सतीत्वं कन्यकादिषु ।संहारश्चापि दुष्टानां म्लेच्छानां योषितामपि ॥२०॥कल्कसम्पन्नदेहानामस्तित्वं तत्र नास्ति वै ।तथा चरामि खड्गेन बहुवेगेन खे भुवि ॥२१॥वर्षमात्रेण लोकानां करोमि युगपर्ययम् ।मद्भक्ताः कृतयोग्या ये ते तिष्ठन्ति न चेतरे ॥२२॥धेनवश्चोषधयश्च वनान्युद्यानवाटिकाः ।सरसा दुग्धपूर्णाश्च दीर्घजीवा भवन्ति ते ॥२३॥मद्भयाच्चौरलोकानां विलयश्च क्षितेस्तलात् ।विनाशो मम सैन्यैश्च दिव्यस्वरूपधारिभिः ॥२४॥त्वत्संकल्पात्तदा श्वेता अश्वाश्च दिव्यविग्रहाः ।लक्षशस्तव पुत्रास्ते सैन्यवाहा भवन्ति हि ॥२५॥मत्संकल्पाज्जायमाना देवाः सैन्यात्मकास्तदा ।नाशयन्ति परितस्ते म्लेच्छदुष्टाधिराक्षसान् ॥२६॥अधर्मिदानवदैत्यान् विधर्मिमानवान् मुहुः ।निर्मलं भूतलं सर्वं सर्वपापाऽस्पृशं शुभम् ॥२७॥जायते तु तदा बद्रि कलेरन्ते ममाश्रयात् ।धर्मांस्तदाऽहं बहुधा सत्यरूपान् वदामि ह ॥२८॥प्रजाः सर्वा मम भक्ता अहिंसासत्यवृत्तिकाः ।शीलव्रतपराश्चापि मनोबलसमन्विताः ॥२९॥उदयन्ति कृतकृत्याः शान्तिधर्मपरायणाः ।विरलाः स्वल्पसाहस्रा योजने त्वेकमानवाः ॥३०॥अन्ये विनाशमायान्ति मम कालाऽसिना तु ते ।मम पृथ्व्यां भ्रमणेन देवानां मण्डलान्यपि ॥३१॥विचरन्ति क्षितौ तत्र महर्षयोऽप्यगोचराः ।तीर्थानि धर्मदेवश्च धर्मपुत्राश्च शक्तयः ॥३२॥मत्प्रतापेन चाकृष्टा महानन्दा भ्रमन्ति ते ।पूर्वत्यक्तप्रदेशेष्वालयेषु चैत्यभूमिषु ॥३३॥आचरन्ति निवासं स्वं यथापूर्वं कृताय ते ।मम संकल्पयोगेन कालपर्ययतस्तथा ॥३४॥भाविपुण्यबलेनापि प्रजानां सत्यपर्ययः ।स्थले स्थले वर्तमानः प्रकाशते कृतात्मकः ॥३५॥शान्तिर्लोके प्रवृद्धा च वर्तते देहिनां तदा ।यदा चन्द्रश्च सूर्यश्च तथा पुष्यबृहस्पती ॥३६॥एकराशौ सम्मिलन्ति तदा कृतयुगं मतम् ।एवं योगे तु सञ्जाते सर्वं कृताऽर्हणं तदा ॥३७॥ब्रह्मसत्राणि जायन्ते विष्णुयागाः स्थले स्थले ।प्रायश्चित्तानि जायन्ते तीर्थयात्राश्च देहिनाम् ॥३८॥उत्सवा मे प्रजायन्ते राष्ट्रे राष्ट्रे गृहे गृहे ।बद्रिके सत्त्वनैर्मल्यं सत्त्वप्रकर्षता तथा ॥३९॥साधुवत् सर्ववर्णानां नैर्मल्यं काशते तदा ।मेघानां वर्षणं शश्वत् रसानामुदयो बहुः ॥४०॥दुग्धानां च मधूनां च प्रवाहा बहवस्तदा ।सम्पदां चाभिविवृद्धिः पुनः पुनः स्वतोऽधिका ॥४१॥प्रवर्तते कृते तत्र देहिनां दिव्यदर्शिता ।सुराणां च क्षितौ साक्षादागमनं प्रजायते ॥४२॥मानवानां दिवं प्रत्यप्यस्ति गतिस्तदा कृते ।सतीत्वं योषितां चापि तापसानां तपस्विता ॥४३॥शान्तत्वमिन्द्रियाणां च दावाग्नीनां शमस्तदा ।उत्तापानां प्रशान्तिश्चोद्वेगानां शमनं तदा ॥४४॥ब्रह्मभक्तिप्रधाना वै शिष्टाः प्रजाजनास्तदा ।वेदाः स्वयं हृदयेषु स्फुरन्ति देहिनां तदा ॥४५॥वर्णाश्रमव्यवस्था च शौचाचारप्रतिस्थितिः ।आस्तिक्यं सत्यवृत्तिश्च प्रजायन्ते कृते पुनः ॥४६॥ब्राह्ममुहूर्ते स्तवनं ध्यानं स्नानं प्रपूजनम् ।देवाराधनमेवाऽपि पितृतर्पणपूजनम् ॥४७॥वृद्धाभिवादनं चात्मचिन्तनं दैवयोगिता ।पञ्चयज्ञविधानं च सत्ये स्वभावतः पुनः ॥४८॥प्रवर्तन्ते प्रजास्वेव नैसर्गिकविचारतः ।धर्मसजीवनं पादचतुष्टयेन वै कृते ॥४९॥प्रतिष्ठाकर्म देवानां चमत्काराश्च मानसाः ।दर्शनं चापि देवानां स्वप्ने प्राग् जायते कृते ॥५०॥ततः शनैः शनैर्विप्रसाधुरूपेण दर्शनम् ।ततश्चागमनं साक्षात् कृते पृथ्व्यां तु नाकिनाम् ॥५१॥उद्भवाश्च महर्षीणां सतां कृते ससिद्धिकाः ।चमत्कारयुता बालाः प्रजायन्ते च बालिकाः ॥५२॥वाक्सिद्धयः प्रवर्तन्ते कर्माणि सफलान्यपि ।सस्यानां स्मृद्धयश्चापि प्रद्योतन्ते कणान्विताः ॥५३॥देवानां भक्तिरिष्टा च प्रजाजने प्रवर्तते ।रागद्वेषादिदोषाणां ह्रासो भवेत् कृतागमे ॥५४॥वह्नयः सम्प्रकाशन्ते निर्मलाः सुखदाः शिवाः ।अरोगा वायवश्चापि सुखस्पर्शाः प्रशान्तिदाः ॥५५॥भूतानि पक्षिणश्चापि यादांसि पशवस्तथा ।सत्त्वविशेषकाः सत्ये प्रजायन्ते युगानुगाः ॥५६॥मानवानां शरीराणि सत्यबलान्महान्ति च ।पशवः पक्षिणो वृक्षा उच्चदेहा भवन्ति च ॥५७॥बलं शतगुणं पश्चात् सहस्रगुणितं कृते ।वीर्यं ज्ञानं वीरता च सहस्रगुणिता कृते ॥५८॥अन्नेषु शक्तयश्चापि सहस्रगुणिताः कृते ।अस्थिजीवा असवश्च कृते पुनर्भवन्ति च ॥५९॥विमानानि मन्दिराणि नगराणि नवानि च ।प्रजायन्ते कारुबुद्धिभवानि सत्यवर्तने ॥६०॥प्रजानां दृष्टयो दिव्याः सतीनां सत्यदिव्यता ।साधूनां दिव्यवाचश्च प्रजायन्ते कृते पुनः ॥६१॥समुद्रगर्भे गतयश्चाकाशे गतयस्तदा ।भूविवर्ते गतयश्च जायन्ते देहिनां कृते ॥६२॥म्लेच्छानां विलये बद्रि राज्ञां रक्षणकारिणाम् ।स्थापनं वै मया तत्र क्रियते द्विजजातिषु ॥६३॥एवं धर्मस्य सत्ये वै चतुष्पात्त्वं प्रवर्तते ।सत्यं तपो मखो दानं प्रवर्तन्ते स्थले स्थले ॥६४॥सत्यान्ते च पुनस्त्रेताधर्मा भवन्ति शोभनाः ।ततो द्वापरधर्माश्च ततस्तिष्यस्य वै पुनः ॥६५॥एवं युगानां सततं चावर्तते तु चक्रकम् ।सहस्रयुगपर्यन्तं ततः कल्पाऽवसानकम् ॥६६॥जायते बद्रिके सायं कलेरन्ते शतं समाः ।अनावृष्टिर्हि महतो सर्वसत्त्वविनाशिनी ॥६७॥ततः सूर्यास्तापयन्ति पृथ्वीं ते भर्जयन्ति वै ।रूक्षांगारसमा पृथ्वी जायते सूर्यतापतः ॥६८॥वह्निमयं समस्तं वै भूतलं जायते ततः ।वह्निबाष्पोद्भवा मेघाः प्रवर्षन्ति शतं समाः ॥६९॥स्वर्गान्तं जलपूर्णं वै ब्रह्माण्डार्धं प्रजायते ।दशलोका निमज्जन्ति भस्मरूपा जलान्तरे ॥७०॥कर्दमास्ते भवन्त्येव कल्पान्ते निम्नगा यदा ।पाताले कर्दमाः सर्वे विश्रमन्ति जलप्लुताः ॥७१॥मत्स्यस्वरूपो भगवानहं बीजानि सर्वथा ।रक्षामि च पुनः सृष्टिहेतवे जलमध्यगः ॥७२॥कल्किस्तु भगवान् सायं साऽश्वः साऽसिः ससैन्यकः ।सूक्ष्मरूपः स्वयं भूत्वा तिरो महः प्रयामि वै ॥७३॥रात्रौ मत्स्यस्वरूपोऽहं रात्र्यन्ते तु भुवः कृते ।कृतयत्नो भवाम्येव वाराहरूपबान् भवान् ॥७४॥मत्स्योऽहं तु विचरामि सलिले प्रातरेव ह ।वाराहोऽहं तले गत्वा कार्दमं गोलकं महत् ॥७५॥कृत्वा नयामि तं गोलं जलपृष्ठे प्रभाववान् ।ततोऽहं वाडवो वह्निर्भवामि वडवामुखः ॥७६॥शोषयामि जलाधिक्यं चाऽष्टलोकसुखार्थकम् ।यथापेक्षं च रक्षामि शुष्कयामि क्षितिं ततः ॥७७॥श्वासैर्मुहुर्मुहुः सप्तपातालान् रचयामि च ।तत्र सर्वत्र बीजानि क्षिप्त्वा प्रजाः सृजामि च ॥७८॥मत्स्योऽहं तु ततस्तिरो भवामि जलसञ्चरः ।पृथ्वीं स्थिरां चाऽष्टपटां कृत्वा तिरोभवामि हि ॥७९॥हयग्रीवस्ततो भूत्वा प्रजाभ्यो वेदसंभवम् ।ज्ञानं ददामि सर्वाभ्यस्तूर्णं कृताद्यसञ्चरे ॥८०॥ततोऽनादिकृष्णनारायणश्रीवल्लभः प्रभुः ।पृथ्व्यामादौ कृते स्वेच्छारूपधृक् संभवामि वा ॥८१॥दिवि वाऽन्यस्तटे तत्र करोमि वर्णरक्षणम् ।उपासनां प्रवर्त्यैव स्थित्वा सपादलक्षकम् ॥८२॥वर्षाणां भूतले सर्वधर्मस्थितिं करोम्यपि ।मोक्षमार्गं हरिस्तत्र प्रवर्तयामि सर्वतः ॥८३॥क्षीरोदं च ततो लक्ष्मीनारायणो भवन् प्रभुः ।आविर्भवामि लक्ष्मीशस्तत्र स्वपिमि वै पुनः ॥८४॥बद्रिके च ततः कालान्तरे सम्पत्क्षयोत्तरम् ।समुद्रमथनं सर्वरत्नार्थं कारयाम्यहम् ॥८५॥कच्छपं तु तदा रूपं धारयामि गिरेः स्थितेः ।मोहिनीस्त्री दैत्यमोहकरी भवामि सुन्दरी ॥८६॥अमृतं देवताः सर्वाः पाययामि तदाप्यहम् ।तिरोभूत्वा पुनः सिंहरूपं धरामि हेतवे ॥८७॥हयशोर्षा भवाम्येव क्वचिद् दैत्यक्षयाय वै ।ज्ञानदानाय हंसात्मा भवामि कपिलोऽपि च ॥८८॥यज्ञभिक्षुर्वामनश्च भवाम्यासुरलोपकृत् ।हरिश्चाऽहं भक्तकृते भवामि दुःखहारकः ॥८९॥नरो नारायणः कृष्णो हरिर्भवामि धर्मतः ।पृध्वीपतिर्दोहनाय भवामि चक्रवर्तनः ॥९०॥तापसः साधुधर्मा च दत्तदानो भवाम्यपि ।बोधदश्च तथा योगी भवामि वनगोचरः ॥९१॥पर्शुधृक् क्षत्रदण्डात्मा भवाम्यपि क्वचित्ततः ।चक्रधृग्धर्मधारी च भवामि गोप इत्यपि ॥९२॥यज्ञश्चाऽहं तथा स्वामी कृष्णनारायणोऽपि च ।भवामि कृषिकर्ताऽपि राजराजो भवामि च ॥९३॥विप्रश्च क्षत्रियो वैश्यः किंकरोऽपि भवामि च ।यथाकालं तथाऽऽचार्यो भवामि व्यास इत्यपि ॥९४॥गुरुर्वा प्रमदा वाऽथ गोरूपः सुसती ह्यपि ।पत्नीव्रताख्यविप्रोऽहं भवाम्यप्यत्र भूतले ॥९५॥जिष्णुर्भवामि वै स्वर्गे पाताले हाटकेश्वरः ।शेषेश्वरः सागरे च मेरौ विष्णुश्चतुर्भुजः ॥९६॥देवो वा मानवो वापि गान्धर्वः संभवामि च ।चारणो वा च विद्याध्रो दक्षो वापि भवामि च ॥९७॥वनी वा न्यासयोगी वा यतिर्वा ब्रह्मशीलकः ।भवामि भूतले बद्रि बहुरूपधरः प्रभुः ॥९८॥यथापेक्षो यथाकालो यथारूपो भवामि च ।रक्षार्थं मम सृष्टीनां मोक्षार्थं तु विशेषतः ॥९९॥आराधनावशीभूतः क्वचिद्भवामि तादृशः ।क्वचित्पुत्रोऽर्थितश्चापि भवामि सुखदात्मकः ॥१००॥ब्रह्मा विष्णुर्महेशश्च रूपत्रय सदा मम ।आभूतसम्प्लवं चास्ते प्रवाहहेतवे सदा ॥१०१॥एवं ते कथितं बद्रि प्राविर्भावप्रयोजनम् ।प्रयोजनं प्रसाध्यैवाऽऽनन्दयित्वा निजाश्रितान् ॥१०२॥तिरोभवामि सहसा वारं वारं हि लीलया ।नाऽन्तोऽस्मि मे विभूतेश्च न संख्या जन्मनां मम ॥१०३॥न कर्मणां न रूपाणां चरित्राणां न चाऽवधिः ।श्रेयसां जनकश्चाऽहं प्रजाश्रेयः करोमि तु ॥१०४॥दुष्टानां दण्डनं भक्तजनानां रक्षणं तथा ।धर्मस्य स्थापनं भक्तेः प्रवर्तनं क्रिया मम ॥१०५॥स्तुतो देवैर्विशिष्टोऽहं भवाम्यतर्कितो मुहुः ।भक्तस्तुतो भवाम्येव भक्तमात्रस्य गोचरः ॥१०६॥सुराष्ट्रे धर्मराष्ट्रे वै निवसामि विशेषतः ।लीलया देवकार्याणि कृत्वा तिरोभवामि च ॥१०७॥मत्प्रसंगगता लोका नरा नार्यश्च वै तदा ।प्रजायन्ते दिव्यरूपा मोक्षगाश्च ततः परम् ॥१०८॥इत्येवं मे रहस्य ते कथितं बद्रिके परम् ।येन केनापि रूपेण त्वं चास्ते हि मयाऽन्विता ॥१०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने तिष्यान्ते भगवदपेक्षा कल्परात्रौ कल्पप्रातर्दिवाऽपि च भगवत्प्राविर्भावादिकथननामाऽष्टाऽधिकशततमोऽध्यायः ॥१०८॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP