संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७२ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां ज्योतिर्विदस्य वै ।विक्रमनगरे विप्रो नाम्ना देवमतीश्वरः ॥१॥कुलकुटुम्बसहितश्चासीद्धर्मव्रतादिमान् ।देवसेवापरश्चापि प्रजाकल्याणचिन्तनः ॥२॥आतिथेयः शरण्यश्च परदुःखप्रभञ्जनः ।ब्रह्मकर्मपरश्चापि ज्योतिर्विद्याऽर्धपण्डितः ॥३॥बद्रिके सर्वलोकेषु चार्धज्ञः सर्वकर्मसु ।न पारं निर्णयं याति ततो भवति क्लेशभाक् ॥४॥औषधेषु भाग्यवित्सु ज्योतिर्वित्सु कलासु च ।सर्वथा पारगो दीर्घानुभवी च बहुश्रुतः ॥५॥साधनेष्वनुकूलेषु ध्रुवं फलं समश्नुते ।अपारगस्तु यत्नेन दैवानुकूलवर्त्मनि ॥६॥अकस्माल्लभते पुष्पं फलं वा लभते क्वचित् ।प्रायशो न फलं याति विफलं लभते सदा ॥७॥असत्याऽऽडम्बरदोषैर्लिप्यते विज्ञगर्ववान् ।अर्धदग्धेन भाव्यं न प्रायशः क्लेशकारिणा ॥८॥अर्धाभिज्ञो भिषङ्मध्य शतहिंसोत्तरं वरः ।उत्कृष्टभावमायाति हिंसापापशतान्वितः ॥९॥अर्धाभिज्ञस्तथा ज्योतिर्वेत्ता रेखाविदस्तथा ।बहूनामनृतानां च पापवान् जायते सदा ॥१०॥असत्यकथनैश्चापि सन्दिग्धानां प्रदर्शनैः ।निश्चितज्ञानविधुरा विश्वासघातदूषिताः ॥११॥विपथे वर्तमानास्ते परान् विपथयन्ति च ।तेन दोषेण जायन्ते मृतास्तिर्यञ्चि राक्षसाः ॥१२॥उपदेशकरा एवं वृथा वाचां विहारिणः ।स्वयमुक्तार्थशून्यास्ते परोपदेशपण्डिताः ॥१३॥तिरश्चां योनिमृच्छन्ति जायन्ते राक्षसा अपि ।बद्रिकेऽतो भिषक्त्वं विद्वत्त्वं ज्योतिःप्रवेतृता ॥१४॥सत्येन युञ्जिताः सर्वे स्वर्गदा मोक्षदा अपि ।असत्ययुञ्जिताः सर्वेऽधोगतौ निरयप्रदाः१५॥॥बद्रिके स तथा चार्धज्योतिषी ग्रहदर्शकः ।भाग्याऽभाग्यप्रवक्ता च मिथ्याचारोऽभवत्तदा ॥१६॥तेन पापेन संलिप्तो देवगतीश्वराभिधः ।गलगण्डेन रोगेण कण्ठमालरुजा तथा ॥१७॥गले कर्कटवृद्ध्या च पीडितश्चाऽभवत्तदा ।जिह्वामूलं रुजा छन्नं जिह्वा ह्रस्वा ततोऽभवत् ॥१८॥अस्पष्टवर्णा वाणी च शनैर्वै मूकतां गता ।एवं रोगाभिभूतस्य शिरसो वेदनाऽभवत् ॥१९॥गण्डयोश्चाऽभवत् पाकस्तेन दुःखेन पीडितः ।पूयपाकोऽभवद् भाले पूयस्रावश्च कर्णयोः ॥२०॥नेत्रयोरान्ध्यभावश्च बाधिर्यं चाप्यजायत ।अहो प्रारब्धदुःखं वा सञ्चितं तत्समागतम् ॥२१॥कृतं मिथ्याप्रचारं यत् समस्तं भुज्यते त्विह ।तस्मान्मिथ्या न कर्तव्यं न कर्तव्यं मृषा क्वचित् ॥२२॥असत्यं नाचरणीयं नोपदेष्टव्यमनृतम् ।अज्ञातं नोपदेष्टव्यं दर्शनीयं न चाऽनृतम् ॥२३॥सन्दिग्धं विपरीतं वा कथनीयं न सर्वथा ।नाऽहितं चिन्तनीयं च स्वार्थदोषाभिपातिना ॥२४॥नाऽनिष्टं करणीयं च कारणीयं न केनचित् ।नाऽन्धमार्गे धावनीयं नाऽऽकृष्टव्याः परेऽपि च ॥२५॥न पातनीया गर्तेऽन्धे पतनीयं न सर्वथा ।दृष्टं वाच्यं न त्वदृष्टं वाच्यं प्रामाणिकं तु यत् ॥२६॥वक्तव्यं फलवद् बद्रि निष्फलं नाऽनृतं मृषा ।आप्तश्रुतं प्रवक्तव्यं ह्याप्तश्रुत्या स्वया न तु ॥२७॥आशीर्वादाः प्रदातव्याः कृष्णार्पणविधित्सया ।वचनं तु प्रदातव्यं फलाऽऽयतिभृतं सदा ॥२८॥आज्ञा कार्या वह्यसह्या स्तुतिः प्रमोदकारिका ।नाटकं रसवत् कार्यं समाजाश्चर्यकारकम् ॥२९॥भजनं कीर्तनं गीतं कर्तव्यं तुष्टये हरेः ।प्रशंसा तु महतां वै कर्तव्या पूज्यभावतः ॥३०॥वर्णनं सर्वथा कार्यं शतगुणं ततोऽधिकम् ।चिन्तनं तु विधातव्यं सहस्रतर्कितं तथा ॥३१॥किन्तु रोगे ग्रहे सत्यं वाच्यं विश्वासकर्मसु ।व्यवहारे यथायोग्यं वक्तव्यं सत्यमेव ह ॥३२॥प्राणत्राणाय यद् योग्यं तद्वक्तव्यं विजानता ।बद्रिके गणकः सोऽयं भिषङ्मिथ्याभिदूषणैः ॥३३॥पीडितो बहुधा रोगैस्त्रातारं न ललाभ ह ।बहुधाऽपि व्ययं कृत्वा प्राप्तो निर्धनतां पुनः ॥३४॥अन्यायोपार्जितं सर्वं रोगेण विनियापितम् ।अथाऽस्य मतिरुत्पन्ना श्रुत्वा श्रुत्वा पुनः पुनः ॥३५॥कथाप्रशंसां बहुधा रोगघ्नीं मोक्षदां तथा ।कथास्थलं ततो गन्तुं रक्षितुं स्वं व्रतादिभिः ॥३६॥पत्न्यै निवेदयामास विचारं गमनात्मकम् ।बद्रिके दुःखभाक् प्राणी भजते श्रीप्रभुम्पतिम् ॥३७॥सुखे नैव स्मरत्येनं सुखदं माधवीप्रभुम् ।विपद्येव स्मरत्येनं स्वार्थी प्राणी बुधोऽपि सन् ॥३८॥मानुष्यं सर्वथा प्राप्तं स्मृत्यर्थं श्रीहरेः सदा ।तद् विस्मृत्य धने पत्न्यां यापयन्ति क्षणं खलाः ॥३९॥पूर्वकृतं भक्षयन्ति नवीनं नार्जयन्त्यपि ।पुण्यं त्यक्त्वा पापमेवाऽऽचरन्ति निरयाय ते ॥४०॥असत्यं हृदये यस्य वाचि त्वसत्यता भवेत्॥कर्मस्वसत्यता तस्य त्रीण्यत्र निरयाणि वै ॥४१॥तत्फलं घोरपापं च निरयं निरयप्रदम् ।फलं च नरकं दुःखं सर्वमसत्यकारिणः ॥४२॥प्रथमं नरकं देहे रोगः सम्परिकीर्तितः ।द्वितीयं नरकं चाऽन्नाऽम्बरलब्धिस्त्वतुष्टिदा ॥४३॥तृतीयं नरकं भार्या दुष्टा दुष्टः पतिश्च वा ।चतुर्थं नरकं दास्यं कैंकर्यं परवश्यता ॥४४॥पञ्चमं नरकं नित्यं कलहः स्वजनेषु वै ।षष्ठं तु नरकं ग्रामे देशे च बहुशत्रुता ॥४५॥सप्तमं नरकं राजदण्डश्चातिप्रयासिता ।अष्टमं नरकं तृष्णा वासना चाऽनिवर्तिनी ॥४६॥नवमं नरकं चेष्टाऽलाभस्तथाऽवमाननम् ।दशमं नरकं नित्यदारिद्र्यं सर्वतोऽधिकम् ॥४७॥एकादशं तु नरक सर्वत्रैवाऽर्धदग्धता ।द्वादशं तु नरकं यन्नित्यं नरकक्षालनम् ॥४८॥त्रयोदशं तु नरकं नवद्वारमलानि वै ।चतुर्दशं तु नरकम् उदरस्थं सदा मलम् ॥४९॥मलकुण्डः शरीरं वै नित्यं नरकसंभृतम् ।पञ्चदशं तु नरकं पशुवन्मलिना स्थितिः ॥५०॥षोडशं नरकं याम्यं सहस्रधा तु विस्तृतम् ।इत्येवं बद्रिके लोके भवन्ति नरकाणि हि ॥५१॥दुष्टपुत्रो दुष्टशिष्यो राजा दुष्टश्च भक्षकः ।रक्षको भक्षकस्त्राता हन्तेति नरकाणि वै ॥५२॥प्रातिकूल्यं तथाऽनिष्टप्राप्तिर्विघ्नानि यान्यपि ।सर्वे ते निरया लोके दुर्भाग्यानां भवन्ति हि ॥५३॥कारागारे निवासश्च तथाऽरातेरधीनता ।दुर्भिक्षे भिक्षुकी वृत्तिर्नरकाणि भवन्ति हि ॥५४॥लोभो मानं च रुट् कामो द्वेषो रागोऽप्यसूयिका ।ईर्ष्या मत्सर उद्वेगः साक्षात्ते निरयास्त्विह ॥५५॥अज्ञानं च तमो मोहश्चौर्यं शाठ्यमपूर्णता ।प्रतारणं च विश्वस्तघातनं निरयास्त्विमे ॥५६॥उन्मत्तत्वं विचित्तत्वं शीतोष्णागम उल्बणः ।छेद्यभेद्याऽङ्गहीनत्वं नरकास्ते सदा मताः ॥५७॥मलमूत्राशयाः सर्वे नरका देहरूपिणः ।गर्भवासो जन्ममृत्यू नरकास्ते सदा मताः ॥५८॥यावन्तः कर्दमाः स्वेदा दुर्गन्धा नरका हि ते ।अपकीर्तिश्च नरकं शोकाग्निर्निरयो महान् ॥५९॥आधयो व्याधयश्चोपाधयस्ते नरकाः सदा ।बद्रिके यस्य सन्तोषस्तस्य स्वर्गमनुत्तमम् ॥६०॥तृष्णाक्षयसुखं स्वर्गं निरीहता सुखं परम् ।प्रतिष्ठां शौकरीं विष्ठां गौरवं रौरवं तथा ॥६१॥अभिमानं सुरापानं त्यक्त्वा त्रीणि सुखी भवेत् ।नेच्छानां विलयश्चास्ति भोगानां विरतिर्न हि ॥६२॥कर्मणां शून्यता नास्ति त्रीणि त्यक्त्वा सुखो भवेत् ।तृप्तिर्नास्ति रसानां वै शान्तिर्नास्ति च कर्मिणाम् ॥६३॥निवृत्तिर्देहिनां नास्ति त्रिगुणः सर्वदा सुखी ।अध्यात्मज्ञाने दिवसो रात्रिर्यस्य नरायणे ॥६४॥निद्रा ब्रह्मात्मसन्धाने स वै स्यात् सर्वथा सुखी ।दुःखदा सुखतृष्णापि तां त्यक्त्वा स्यात् सुखी सदा ॥६५॥शरीरं नरकं सर्वं नवद्वारं मलैर्भृतम् ।पुष्टं मलात्मकैर्भावैरात्मनो निरयात्मकम् ॥६६॥अरे प्रपश्य बदरि नासिकायाः प्रगर्तयोः ।पूयभागः प्रस्रवति दुर्गन्धश्चौष्ठलेपकः ॥६७॥लालाजालं मुखे नित्यं कफश्चान्तःप्रदेशतः ।मुखमायाति नित्यं च दन्तमूलेषु पूयकम् ॥६८॥दुर्गन्धं दन्तमूलेषु पक्वं पूयं प्रवर्धते ।प्रातर्मुखं हि दुर्गन्धं श्वासो दुर्गन्धसंभृतः ॥६९॥स्वेदः सर्वेषु सर्वत्र रोमस्वभिस्रवत्यपि ।दुर्गन्धः क्षारभृत् सर्वः सुगन्धो यत्र दुर्लभः ॥७०॥श्रेष्ठांगमेवं दुर्गन्धमन्यांऽगानां तु का कथा ।मनुष्याणां विडालानां सिंहानां रक्षसां तथा ॥७१॥पिशाचानां सूकराणां काकानां देहसाम्यता ।बद्रिके सर्वथा नित्यदुर्गन्धाऽशुद्धिसंभृताम् ॥७२॥नैसर्गाऽशुद्धदेहोऽयं कथं शुद्धिमवाप्नुयात् ।तस्माद् योगिजना नित्यं क्षालयन्त्यान्तरं सदा ॥७३॥ध्यानेन चेतनं देहस्थितमात्मानमुत्सुकाः ।समाधिनाऽऽप्नुवन्त्येनं सत्यं सत्यात्मनाऽन्वितम् ॥७४॥परमात्मा नित्यशुद्धः कृष्णनारायणो हरिः ।यत्रास्ते चासने तच्चासनं शुद्धं सदात्मकम् ॥७५॥सन्नात्मा चेतनो नित्यसच्चिदानन्दतत्त्वकः ।तं सन्तं सात्त्वतं भक्तं भावयन्ति बुधाः सदा ॥७६॥हृदये वर्तमानं तं स्वामिना संविराजितम् ।प्रकाशितं श्रितं नित्यं श्रीकृष्णपरमात्मना ॥७७॥ध्यायन्ति ज्ञानविमला देहभावविवर्जिताः ।विवेकलब्धवैराग्याः सन्तः सन्तं हृदि स्थितम् ॥७८॥यत्राऽसत्यमनृतं च फल्गुमिथ्यामृषात्मता ।अणुतुल्याऽपि नास्त्येव सन्तो ध्यायन्ति तं निजम् ॥७९॥ते पारं सम्प्रयान्त्यस्य कर्दमस्य हि वर्ष्मणः ।सर्वमलानि सन्त्यज्य प्रयान्ति परमेश्वरम् ॥८०॥माया मलात्मिका नित्यं तत्रापि राजसो गुणः ।तमस्तु मलिनं नित्यं मलं सर्वं हि तामसम् ॥८१॥तत उत्पन्नतत्त्वानि महदहं च मायिकौ ।इन्द्रियाणि विषयाश्च भूतानि मलिनानि वै ॥८२॥भौतिकानि समस्तानि मलिनानि मलानि च ।बद्रिके तापसाः सन्तस्तस्मात् त्यजन्ति भौतिकम् ॥८३॥शाश्वतं चिन्तयन्त्येव भजन्ते शाश्वतं हरिम् ।तिष्ठन्ति ब्रह्मभावे च मोदन्ते चात्मगह्वरे ॥८४॥परिहरन्त्यसत्यं तज्जगत् पापौघसंभृतम् ।मोक्षार्थं च यतन्ते ते सद्गुर्वाश्रयमास्थिताः ॥८५॥एवं बद्रीप्रिये देवगतीश्वरस्तु भूसुरः ।सत्याऽसत्यमयं वीक्ष्य परभाग्यं ग्रहाँस्तथा् ॥८६॥सत्याऽनृतमयं सर्वं सन्दिग्धं भावि देहिनाम् ।निवेदयति देहिभ्यः पापमर्धं यथातथम् ॥८७॥तेन पापेन पीडावान् पत्न्यै सह प्रमुक्तये ।पत्नी धर्मवती श्रुत्वा पत्युः प्रियचिकीर्षया ॥८८॥पतिं नीत्वाऽनसा साध्वी जगाम शर्करापुरम् ।कथास्थलं मुनिं व्यासं ददर्श च पुपूज च ॥८९॥न्यवेदयत् स्वामिदुःखं मुक्तये प्रार्थयन्मुनिम् ।व्यासं स्वतःप्रकाशाख्यं व्यासोऽपि दयया तदा ॥९०॥भूसुराय ददौ मन्त्रं नामधुन्यं ददौ व्रतम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९१॥प्रभोनारायण पद्मावतीनारायण प्रभो ।जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो ॥९२॥पत्नी चापि प्रजग्राह मन्त्रं धुन्यं व्रतं तथा ।पपतुस्तौ हरेः पादामृतवारि शुभप्रदम् ॥९३॥चखदतुः प्रसादॆ च शुश्रुवतुः कथामृतम् ।मासान्ते श्रीहरिस्ताभ्यां दर्शनं प्रददौ प्रभुः ॥९४॥पस्पर्श तं कराग्रेण रुग्णं नीरोगिणं व्यधात् ।दिव्यभावॆ व्यधाच्चापि भार्यां दिव्यां व्यधात्तथा ॥९५॥ततस्ताभ्यां प्रार्थितश्च हरिर्मोक्षार्थमत्यति ।हरिः कृत्वा दिव्यदेहौ तौ तु निजे विमानके ॥९६॥न्यस्य वैशाखपूर्णायां निन्ये धामाऽक्षरं निजम् ।पश्यतां सर्वलोकानां ज्योतिर्वित् प्राप मोक्षणम् ॥९७॥पुण्यवत्या स्त्रिया साकं परं मोक्षमवाप सः ।बद्रिके महदाश्चर्यमभूत् तत् सर्वदेहिनाम् ॥९८॥मासमात्रेण विप्रस्य रोगनाशश्च मोक्षणम् ।प्रशशंसुर्जना विप्रभार्या पतिव्रतां शुभाम् ॥९९॥यया स्वामी प्रापितो वै मोक्षं चाज्ञाप्रवृत्तया ।धन्या सा गृहिणी लोके याऽऽज्ञाकरी वरस्य वै ॥१००॥धन्यो नारायणश्चापि शरण्यो मोक्षदो वरः ।बद्रिके जीवलोकेऽत्र स्नेहः स्वर्गः सदोत्तमः ॥१०१॥परोपकारः स्नेहेन सेवा स्नेहेन जायते [सुखदत्वं प्रेमभावैर्जायते श्रद्धया तथा ॥१०२॥पठनाच्छ्रवणादस्य स्मरणाद्वर्तनात्तथा ।भुक्तिर्मुक्तिर्भवेच्चापि कृपा कृष्णस्य वै भवेत् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने देवगतीश्वरस्य विप्रस्याऽर्धज्योतिर्विदोऽसत्यपापादिनाशेन कथाश्रवणकारिणः पुण्यवतीभार्यासहितस्य मोक्ष इत्यादिनिरूपणनामा द्वासप्ततितमोऽध्यायः ॥७२॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP