संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ५६

तिष्यसन्तानः - अध्यायः ५६

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथामन्यां सुपावनीम् ।
शर्करानगरे तत्र त्वेकाऽऽसीत् कुट्टनी सखी ॥१॥
वारांगनानां मैत्र्याढ्या व्यवायिनां नियोजिनी ।
योषितां युवतीनां कन्यकानां शौलनाशिनी ॥२॥
नाम्ना साऽनङ्गवल्लीति या सा निर्धना ह्यति ।
व्यवाययोगलब्धेन निर्वाहं प्रकरोति सा ॥३॥
पापिनी पापरूपा सा जानाति ह्यौषधान्यपि ।
ज्वरनाशकरं चौष्ण्यनाशकृद् रोगनाशकृत् ॥४॥
गुप्तेन्द्रियादिरोगाणां त्वौषधं वेत्ति सा सखी ।
गर्भस्रावौषधं भ्रूणघातौषधं च वेत्यपि ॥५॥
अत एव व्यवायादौ निर्भया योगदायिनी ।
पापज्ञानविहीनाऽऽसीज्जडा कामातिकामिनी ॥६॥
स्वयं दुष्टा परा दुष्टाः सम्पादयति कर्मणा ।
एवं तया तु बह्वीनामधवानां समुद्भवाः ॥७॥
गर्भा निपातिता बीजनाशाश्चापि कृता मुहुः ।
पक्वबाला जन्मयोग्या औषधैर्मारिता ह्यपि ॥८॥
एवं सा बालहत्याऽघा शुश्राव संहिताकथाम् ।
तया ज्ञातवती पापं बालहत्यादिजं महत् ॥९॥
दुःखं ज्ञानवती चापि याम्यजं दुःसहं सखी ।
स्वस्या अपि प्रतिगर्भं पतनं दण्डमुल्बणम् ॥१०॥
ज्ञात्वा शुशोच बहुधा पापान्न्यवर्तताऽपि सा ।
प्रायश्चित्तस्य जिज्ञासां चकार सद्गुरोस्ततः ॥११॥
एकदा श्रीलोमशाऽग्रे निवेदयितुं सा ययौ ।
कथान्ते लोमशं गत्वा पूजयित्वा तु दीनवत् ॥१२॥
कृत्वा तु दण्डवद्योग्यं जग्राह चरणौ मुनेः ।
पादप्रक्षालनं कृत्वा लोमशस्य महात्मनः ॥१३॥
पपौ पादामृतं सर्वं शिरो धृत्वा तु पादयोः ।
जगाद कृत्य पापादि सर्वं कपटवर्जितम् ॥१४॥
कृपालुलोमशः श्रुत्वा ब्रह्मकूर्चव्रतं ददौ ।
पलाशपत्रप्रभृतिक्वाथं च पञ्चगव्यकम् ॥१५॥
पातुमाज्ञां ददौ तस्यै सा चकार यथोदितम् ।
मासान्ते सा शुद्धदेहा मन्त्रं जग्राह लोमशात् ॥१६॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'कृष्णनारायण कृष्णनारायण नरायण ॥१७॥
बालकृष्णाऽनादिकृष्णनारायण रमायण' ।
मन्त्रमेवं भजनं च जग्राह लोमशान्मुनेः ॥१८॥
मालाशतं कृष्णनारायेणनाम्नाऽप्यवर्तयत् ।
नित्यं स्नात्वा सिन्धुनद्या जले पाति पदामृतम् ॥१९॥
नित्यं कृष्णप्रसादं च भक्षयत्येव भावतः ।
साधूनां पात्रशेषं च भक्षयत्यपि पावनम् ॥२०॥
साधुवासेषु नित्यं सा मार्जनं पात्रमञ्जनम् ।
करोति सेवनं गत्वा गात्रसंवाहनं सताम् ॥२१॥
धूलिभिर्मार्जिताभिश्चोद्धूलनं निजवर्ष्मणि ।
करोति भावतोऽनङ्गवल्लिका पापनुत्तये ॥२२॥
धुन्यं च कीर्तनं नित्यं करोति सदसि स्थिता ।
ददाति फलपुष्पादि संहितावाचकाय च ॥२३॥
श्रीकृष्णाय सतीसद्भ्यो लोमशाय महात्मने ।
धनं तु ढब्बुकमात्रं नित्य ददाति चक्रिणे ॥२४॥
अक्षतानां नित्यमुष्टिं वाचकाय ददाति सा ।
एवं कृतवती नित्यं भक्त्या साऽनङ्गवल्लिका ॥२५॥
कथां शुश्राव बहुधा सर्वपापविशोधिनीम् ।
सर्वाऽज्ञानहरां दीर्घतमोघ्नीं ज्ञानदायिनीम् ॥२६॥
मासश्चास्या व्यतीयाय कथासेवादिकर्मभिः ।
सा ददर्श ततः स्वप्ने प्रभुं कृष्णं समागतम् ॥२७॥
स्पृशन्तं स्वां हसन्तं स्वां हासयन्तं श्रियः पतिम् ।
वदन्तं स्वां विशुद्धाऽसि नयन्तं स्वां निजं प्रति ॥२८॥
क्षणमेवं प्रदर्श्यैव भगवान् माधवीपतिः ।
अदृश्यतां ययौ साऽपि जजागार समुत्सुका ॥२९॥
उत्थाय सहसा ब्राह्मे मुहूर्ते तु निजालये ।
तूर्णं सा परितः कृष्णं मार्गयामास भामिनी ॥३०॥
प्रेमविह्वलतां प्राप्ता यदा लब्धवती न तम् ।
तदा मुग्धा द्रुतं स्नात्वा पूजां कृत्वा परात्मनः ॥३१॥
ययौ तूर्णं संहितायाः पूजार्थं कुंकुमाऽक्षतैः ।
ब्राह्मे मुहूर्ते नारीणां प्रवाहस्तुमुलः प्रगे ॥३२॥
सततं संहितायास्तु पूजने वर्तते सदा ।
तन्मध्ये सा गता शीघ्रं ध्यात्वा स्वाप्नं प्रियं प्रभुम् ॥३३॥
पूजयित्वा ततस्तूर्णं समुत्सुका तु लोमशम् ।
गत्वा जगाद सर्वं तत् प्रसन्नमानसा सखी ॥३४॥
श्रुत्वा श्रीलोमशः प्राह शुद्धा त्वं भक्तियोगिनी ।
कृष्णप्रसन्नतां प्राप्ता वर्तसेऽद्य रमा यथा ॥३५॥
भव सज्जा धाम गन्तुं मोक्षो तेऽत्र भविष्यति ।
सर्वं पापं गतं तेऽद्य कृष्णो यद्गोचरोऽभवत् ॥३६॥
ततः सापि जगादैनं गुरुं श्रीबद्रिके द्रुतम् ।
सज्जाऽस्मि किन्तु भगवन्नास्ते मे हृदि चिन्तनम् ॥३७॥
मम योगेन या नार्यो युवत्यो धववर्जिताः ।
गर्भपातादिदोषाढ्या भ्रूणूहत्यान्वितास्तथा ॥३८॥
तासां कल्याणमिच्छामि पापनाशनपूर्वकम् ।
कृपा तेऽस्ति तथा चाज्ञा कृपालोस्ते गुरोरिह ॥३९॥
ताः सर्वास्त्वच्छरणं चानयामीह प्रमुक्तये ।
विना नारायणं कृष्णं विना च सद्गुरुं क्वचित् ॥४०॥
पापानां नैव निस्तारो योषितां स्यात् कदाचन ।
विना वैष्णवभक्तानां शरणं नैव रक्षणम् ॥४१॥
विना श्रीकृष्णभक्तानां सेवनं नाऽघमर्षणम् ।
विना सतां प्रसादं न पापिनां वासनाक्षयः ॥४२॥
विना चेतनतीर्थं न पापात्मनां विशोधनम् ।
नारीणां दुर्लभा शुद्धिर्गुरो लोकेऽत्र मायिके ॥४३॥
कामक्षेत्रे तु निष्कामिसतां सेवा हि शुद्धिदा ।
या नारी वाञ्छति शुद्धिं मुक्तिं ब्राह्मीं परं पदम् ॥४४॥
तया सेव्या हरेः सन्तो निष्कामाः कृष्णमूर्तयः ।
सतां प्रसेवया कामक्रोधलोभादिनाशनम् ॥४५॥
वासनानां विनाशश्च भवेन्मे वै यथाऽभवत् ।
तस्माद् गुरो समिच्छामि मत्सखीनां विशोधनम् ॥४६॥
प्राप्ते कृष्णे गुरौ दिव्ये त्वात्ममोक्षः पुरो मतः ।
कृष्णगुर्वोः कृपया तु चात्मीयानां मतोऽपि सः ॥४७॥
आत्मनस्तारणे पुण्यं ततोऽयुतं परस्य तु ।
योषितां तारणे तत्र पुण्यं कोटिगुणं मतम् ॥४८॥
अनाथानां तारणे तु ब्रह्माण्डोद्धारजं हि तत् ।
अनाथा योषितो यास्ता मत्पाशे पतिता गुरो ॥४९॥
यावत्तासां तु नोद्धारस्तावन्मे नरकं भवेत् ।
पातितस्योदयं कृत्वा क्षन्त्वाऽपराधमस्य च ॥५०॥
निर्ऋणं तु निजं कृत्वा ततो गम्यं दिवं सुखम् ।
इत्येवं मे गुरो चास्ते मतिर्नारीप्रमोक्षिणा ॥५१॥
ताः सर्वास्तमसि स्थाप्य कथं मे मोक्षणं भवेत् ।
सखीत्वं तु तदेवाऽत्र समलाभो यदात्मनोः ॥५२॥
स्वार्थमात्रस्तु लाभादिर्नरकं कपटान्वितम् ।
तन्मया सर्वथा तासां कर्तव्यं मोक्षणं प्रभो ॥५३॥
पुनः क्षणो दिव्यगतिर्नागमिष्यति सद्गुरो ।
इत्युक्त्वा सा विरराम बद्रिकेऽनङ्गवल्लरी ॥५४॥
लोमशोऽपि शुभं मत्वा कृपया तां जगाद ह ।
योग्यं वदसि कल्याणि श्रेष्ठं विचार्यते त्वया ॥५५॥
स्वार्थस्य साधकः प्राणी नारकी नात्र संशयः ।
स एव काकः सर्पश्च सूकरः स्वार्थसाधकः ॥५६॥
त्वं परार्थपरा साध्वी द्वयोः कल्याणकारिणी ।
परकल्याणकर्त्र्यास्तु स्वं कल्याणं प्रजायते ॥५७॥
अवश्यं परलोकाँस्त्वं जिताऽसि चोपकारिणी ।
यथेष्टं वर्तमाना या चापि पापातिपापिनी ॥५८॥
परोपकारधर्मा चेत् स्वर्गं विन्दति सा सती ।
परोपकारः पुण्यार्थः परपीडा तु पापदा ॥५९॥
परपीडानाशयित्री मुच्यते दुःखबन्धनात् ।
परेषां सुखदो लोकः स्वर्गे लोके महीयते ॥६०॥
अवश्यं चानङ्गवल्लि! समानय सखीजनान् ।
ताभ्यो मन्त्रं प्रदास्येऽत्र दास्ये नामजपं तथा ॥६१॥
व्रतं दास्ये ब्रह्मकूर्चं करिष्ये पापनाशनम् ।
पावनास्ताः करिष्येऽहं मोक्षभागा विशुद्धिगाः ॥६२॥
इत्येवं बद्रिके सोक्ता लोमशेन महर्षिणा ।
शर्करानगरं तूर्णं गत्वा यत्र च यत्र च ॥६३॥
युवत्यो धवहीनाश्च व्यवायव्यवसायिकाः ।
गर्भपातभ्रूणहत्यादोषवत्योऽभवन् पुरे ॥६४॥
अनङ्गवल्लीसंगिन्यस्तास्ताः साऽनङ्गवल्लरी ।
बोधयामास पापानां नुत्तये श्रेयसे तथा ॥६५॥
ताश्च विश्वासमापन्ना अनङ्गवल्लिकायुताः ।
स्नात्वा पूजोपसामग्रीर्नीत्वा गुर्वग्रमागताः ॥६६॥
युवत्यस्ताः शतं बद्रि विधवा गर्भपातिकाः ।
कन्यकाश्च शतं गर्भहन्त्र्योऽपि यौवनान्विताः ॥६७॥
आगताः श्रीलोमशाग्रे पापभयेन शोकिताः ।
सलज्जा स्वसखीवाक्यविश्वस्ता आययुर्मुनिम् ॥६८॥
पादजलं पपुः सर्वा लोमशस्य ततः कथाम् ।
शुश्रुवुस्तास्ततो ब्रह्मकूर्चं व्रत च जगृहुः ॥६९॥
पूजां ताः संहितायाश्च प्रचक्रुर्वाचकस्य वै ।
प्रदक्षिणं स्तुतिं चक्रुः क्षमां ययाचिरे ततः ॥७०॥
मन्त्रं जगृहुर्मुनितो नामधुन्यं प्रजगृहुः ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥७१॥
 'कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण ॥७२॥
एवं मन्त्रं च भजनं प्राप्य तथा समाचरन् ।
स्नात्वा तीर्थे सदा ताश्च शुश्रुवुः संहिताकथाम् ॥७३॥
एवं तासु समस्तासु वर्तमानासु बद्रिके ।
पूतासु जायमानासु सतां सेवापरासु च ॥७४॥
आज्ञापरासु सर्वासु लोमशस्य प्रसन्नता ।
अभवल्लोमशस्ताभ्यो ददौ कृष्णप्रसादजम् ॥७५॥
स्वभुक्तं फलमेवाऽपि मिष्टान्नं निजपात्रजम् ।
साधुप्रसादमासाद्य बुभुजिरेऽतिभावतः ॥७६॥
तावत्तासां शरीरेभ्यः कृष्णाः काका विनिर्ययुः ।
सर्वे ते गर्भहत्याख्या भ्रणूहत्यास्तथाऽभवन् ॥७७॥
उड्डीयोड्डीय चाकाशे निपेतुः सिन्धुसागरे ।
विनाशं सहसा प्रापुः काकात्मकान्यघानि वै ॥७८॥
स्त्रियस्ताः शुद्धतां प्राप्ता भजन्ति स्म नरायणम् ।
पारायणं भावभिन्नाः शृण्वन्त्वेकाग्रमानसाः ॥७९॥
तावदनगवल्लीं तु नेतुं कृष्णः समाययौ ।
फाल्गुनस्य तु पूर्णायां तिथौ कृष्णनरायणः ॥८०॥
विमानेनाऽऽस्थितो भूमावनंगवल्लिकापुरः ।
प्राह तां तु समागन्तुं मोक्षार्थं तु विमानके ॥८१॥
तावत् सा दयया प्राह कृष्णनारायणप्रभो ।
द्वे शते मम संगिन्यश्चैताः स्त्रियोऽघभाजनाः ॥८२॥
कथालोमशयोगेन निष्पापा यदि सन्ति चेत् ।
नेतव्यास्तास्तव धामाऽक्षरं दिव्या विधाय ताः ॥८३॥
नान्यथाऽहं कृष्णकान्त मोक्षमिच्छामि चैकला ।
उद्धर ताः समस्ता वै ततश्चोद्धर मामपि ॥८४॥
श्रुत्वा चातिप्रसन्नोऽभूद् बालकृष्णः प्रभेश्वरः ।
कृपालुर्भगवानाहाऽनंगवल्लि शुभं तव ॥८५॥
याः सर्वा विधवास्तास्तु नेष्ये मेऽक्षरमुत्तमम् ।
त्वया साकं विमानेन करिष्ये कमलासमाः ॥८६॥
यास्तु सन्ति कन्यका वै तासां मोक्षोऽधुना नहि ।
ताः सर्वाः स्वजनकस्य गृहे वसन्तु निर्भयाः ॥८७॥
पूता निष्पापदेहास्ताः कृपया भालिता मया ।
विवाह्य ताश्च गार्हस्थ्यमनुभूय ततः परम् ॥८८॥
आयुषोऽन्ते मम धाम चायास्यन्ति न संशयः ।
इत्युक्त्वा श्रीकृष्णनारायणः पस्पर्श पाणिना ॥८९॥
सर्वास्तास्तत्र तत्काले संहिताश्रवणाऽऽस्थिताः ।
पावयित्वा समस्तास्ता विधवास्तु शतं तदा ॥९०॥
दिव्यदेहा विधायैव विमाने स्वेऽध्यरोहयत् ।
कन्यकास्तु समाज्ञाप्य स्थातुं पितृगृहे तदा ॥९१॥
विमानेन ययौ कृष्णो धामाक्षरं निजं महत् ।
सर्वेषां पश्यतां बद्रि साऽनंगवल्लिका ह्यपि ॥९२॥
दिव्यदेहाऽभवत्तूर्णं दिव्या दिव्यविभूषिता ।
विमानं समधिरुह्य ययौ धामाऽक्षरं हरेः ॥९३॥
जयकारो महानासीत् पुष्पवृष्टिरभूत्तदा ।
अधमोद्धारके कृष्णे माहात्म्यमतुलं ह्यभूत् ॥९४॥
बद्रिके गर्भघातिन्यः कथाश्रवणमात्रतः ।
पूततां ता गताः सर्वा गुरोर्बलात्प्रमोचिताः ॥९५॥
अहो बलं गुरोः श्रेष्ठतमं श्रीभगवानपि ।
यदग्रे निर्बलो भूत्वा करोति सद्गुरोर्वचः ॥९६॥
वीक्ष्य श्रुत्वा तु माहात्म्यं व्यवायदोषनाशकम् ।
अन्या अपि तदा नार्यः कृष्णाश्रयं व्यधुर्मुदा ॥९७॥
स्वदोषान् क्षपयामासुरनन्यभक्तितत्पराः ।
मन्त्रं ता रटयामासुर्नामकीर्तनमाव्यधुः ॥९८॥
सतां सेवां प्रचक्रुश्च दानपुण्यं प्रचक्रिरे ।
प्रपत्तिं जगृहुश्चापि पवित्रत्वं प्रपेदिरे ॥९९॥
दिव्यभावाः शीलपरा धर्मदार्ढ्यास्ततोऽभवन ।
अनादिश्रीकृष्णनारायणभक्तियुताः सदा ॥१००॥
एवं श्रीबद्रिके देवि प्रभुःकृष्णो हरिः स्वयम् ।
चकार मोक्षणं तासां प्राप्तकाले दयानिधिः ॥१०१॥
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
गुणग्राहाद् वर्तनाच्च स्वर्गो मोक्षो भवेद् ध्रुवः ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापुरवासिन्याः व्यवायकारयित्र्या गर्भ्रभ्रूणबालघातिन्या अनंगवल्लर्याः तत्सखीशतद्वयस्यापि च संहिताश्रवणादिना मन्त्रव्रतसेवाभिश्च पापनिर्मुक्तिर्मोक्षणं चेत्यादिनिरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP