संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ५५

तिष्यसन्तानः - अध्यायः ५५

लक्ष्मीनारायणसंहिता


श्रीबद्रीप्रियोवाच-
ततस्तत्र तु किं जातं कन्याकुमारभूभृताम् ।
साधुना किं कृतं कृष्णनरनारायणप्रभो ॥१॥
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मानवास्तु सहस्रशः ।
लक्षशो नृपतेर्मृत्युं श्रुत्वा च जीवनं पुनः ॥२॥
समाययुर्लोकितुं वै साधुं नृपं चमत्कृतिम् ।
विलोक्य जीवितं भूपं कुमारं च कुमारिकाम् ॥३॥
साधुजीवं कुमारं तं नाम्ना लोकास्ततोऽवदन् ।
साधुजीवनीं कन्यां तां लोकास्तत्रैव चाऽवदन् ॥४॥
ज्येष्ठं कुमारकं लोका निर्विषादं जगुस्तदा ।
तत्तन्नाम्ना प्रसिद्धास्तेऽभवन् प्रजासु वै द्रुतम् ॥५॥
या याः प्रजा नरा नार्यश्चाययुस्तत्र ते द्रुतम् ।
वीक्ष्य साधोश्चमत्कारं तदाश्रयं प्रचक्रिरे ॥६॥
सञ्जीवनायनः साधुः प्रजाभ्यो मन्त्रदीक्षणम् ।
प्रददौ नामभजनं कृष्णनारायणस्य च ॥७॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'कृष्णनारायण कृष्णनारायण नरायण ॥८॥
बालकृष्णाऽनादिकृष्णनारायण नरायण' ।
एवं मन्त्रं नामसंकीर्तनं ताभ्यो ददौ मुनिः ॥९॥
प्रजास्ता युद्धनगरे गृहे गृहे स्थले वने
उद्याने वाटिकायां च क्षेत्रेऽरण्ये च गोपुरे ॥१०॥
चत्वरे राजमार्गे च रथ्यायामापणेष्वपि ।
'कृष्णनारायण कृष्णनारायण नरायण ॥११॥
बालकृष्णाऽनादिकृष्णनारायण नरायण ।
इत्येवं भजनं चक्रुः सन्महिमाढ्यमानसाः ॥१२॥
वैष्णवा लक्षशो जाता युद्धराज्ये नराः स्त्रियः ।
पुपूजुः स्वगुरुं सन्तं यतिं सञ्जीवनायनम् ॥१३॥
चन्दनैः पुष्पनिवहैः फलैः पत्रैस्तथाऽम्बरैः ।
भोजनैर्विविधैः पाथेयकैरर्हां प्रचक्रिरे ॥१४॥
सिषेविरे गुरुं श्रेष्ठं पापनाशं प्रलेभिरे ।
महापुण्यं च पावित्र्यमर्जयामासुरुत्तमम् ॥१॥
सञ्जीवनायनः साधुरुपादिदेश तान् हितम् ।
संसारोऽयमसारोऽस्ति रागद्वेषमयो जनाः ॥१६॥
देहार्थं देहपुष्ट्यर्थं रागा द्वेषा भवन्ति हि ।
हिंसनं नाशनं चान्यदेहिनां कुरुते जनः ॥१७॥
अज्ञानेनैव रागेण द्वेषेण योजितेन वा ।
कालोऽस्ति श्रीपरब्रह्मयोजितः सृष्टिहारकः ॥१८॥
कालः करोति सकलं कालः कलयते सदा ।
कालेन तस्य चैवेह जगत् सर्वं प्रवाह्यते ॥१९॥
कालपाशं विहायैव चेद्गन्तुमिष्यतेऽक्षरे ।
कालकालं परेशानं भजन्तां मानवाः सदा ॥२०॥
संसारहेतु त्वज्ञानं संसारं वासनात्मकम् ।
विचार्य सम्परित्यज्याऽर्जयन्तु मोक्षकारणम् ॥२१॥
ज्ञानं भक्तिं सतां सेवां स्नेहपूर्वां शुभाश्रयाम् ।
निर्वृत्तिं परमां शान्तिं लभन्तां शाश्वतीं त्विह ॥२२॥
इन्द्रे चन्द्रे रवौ वह्नौ विघ्नेशे च नरायणे ।
परब्रह्ममयं ध्यानं चरन्तां पारमेश्वरम् ॥२३॥
चराचरं जगत्सर्वं त्यजन्तु बन्धकृद्धि तत् ।
चराचराणां चालयितारं गृह्णन्तु तद्गतम् ॥२४॥
आभ्यन्तरस्थितं कृष्णनारायणं श्रियः पतिम् ।
अर्चयन्तु सदा श्रीमन्नारायणं तदाश्रितान् ॥२५॥
नारायणे दत्तचित्तान् नारायणपरायणान् ।
साधून् संसेव्य दिव्येन पथा यान्त्वक्षरं पदम् ॥२६॥
आभ्यन्तरार्चकाः पूज्याः सेव्या दिव्यक्रियापराः ।
विरूपा विकृताश्चापि न निन्द्या ब्रह्मधामिनः ॥२७॥
आभ्यन्तरार्चकाः सर्वे न परीक्ष्याः कदाचन ।
तन्निन्दकास्तु दुःखार्ता भवन्त्येवाऽल्पजीवनाः ॥२८॥
ब्रह्मविदस्तोषणीयाः सेवया चाऽविंशकया ।
वर्णाश्रमविनिर्मुक्ता वर्णाश्रमसुसंस्थितैः ॥२९॥
सत्संगः सर्वथा दिव्यो मोक्षदः पापनाशकः ।
हत्यापापादिशान्त्यर्थं कर्तव्यो वै विजानता ॥३०॥
अधुना दिव्यसत्संगो विद्यते शर्करापुरे ।
लक्ष्मीनारायणसंहितायाः पारायणात्मकः ॥३१॥
तत्र नारायणः साक्षात् स्वतःप्रकाशरूपधृक् ।
श्रौतं सर्वं हि विज्ञानं श्रावयत्यद्य मोक्षदम् ॥३२॥
परं ब्रह्म परां लक्ष्मीं परं मोक्षं परं सुखम् ।
परं धर्मं परं ज्ञानं श्रावयत्येव शाश्वतम् ॥३३॥
प्रयाम्यहं तु तत्स्थानं मोक्षलाभाय चात्मनः ।
स लाभो न पुनर्भूमौ लोकानां संभविष्यति ॥३४॥
तत्र सन्तो मुनयश्च सिद्धाश्च चारणाः सुराः ।
गन्धर्वा यतयो विद्याधराश्च किन्नरा जनाः ॥३५॥
किंपुरुषा भूदेवाश्च महर्षयो नराः स्त्रियः ।
ब्रह्मचर्यपरा देवा दिव्या मुक्ताः समागताः ॥३६॥
येषां तु दर्शनात् पापध्वंसो भवति सर्वथा ।
येषां च सेवनात् सर्ववासनादग्धता भवेत् ॥३७॥
येषां प्रसादलाभेन दिव्यता दिव्यभाग्यता ।
येषां सत्संगमात्रेण मुक्तता परमा भवेत् ॥३८॥
येषां स्नेहेन सततं ब्रह्मानन्दार्जनं भवेत् ।
येषां समाश्रयेणैव ब्रह्मधामगतिर्भवेत् ॥३९॥
ये भजन्ति सदा कृष्णनारायणपरेश्वरम् ।
स्तुवन्ति प्रत्यहं श्रीमद्बालकृष्णं प्रभुम्पतिम् ॥४०॥
 'कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥४१॥
एवं रटन्ति नित्यं तं परमेशं हि साधवः ।
तेषां सत्संगलाभेन पुरुषार्थचतुष्टयम् ॥४२॥
नमस्तेभ्यः समस्तेभ्यः साधुभ्योऽस्तु मुहुर्मुहुः ।
नमः साधुस्वरूपाय श्रीकृष्णस्वामिने नमः ॥४३॥
नमः सर्वाधिपतये सर्वपूर्वाय चक्रिणे ।
नमोऽवतारपूज्याय सृष्टीनां प्रभवे नमः ॥४४॥
ज्ञानानां प्रभवे तस्मै कर्मणां प्रभवे नमः ।
ईश्वराणां प्रशास्त्रे च देवानां प्रभवे नमः ॥४५॥
ऋषीणां च ग्रहाणां च ऋक्षाणां प्रभवे नमः ।
विद्युतां तैजसानां च मेघानां प्रभवे नमः ॥४६॥
वर्षाणां च भूधराणां नदीनां प्रभवे नमः ।
सर्वौषधीनां भक्ष्याणां तृप्तीनां प्रभवे नमः ॥४७॥
नमो धर्मादिरूपाणां जनयित्रे परात्मने ।
तस्मै रसानां प्रभवे रत्नानां प्रभवे नमः ॥४८॥
ऋत्वादीनां प्रभवे च वार्तानां प्रभवे नमः ।
विश्वानां प्रभवे सर्वविद्यानां प्रभवे नमः ॥४९॥
व्रतानां प्रभवे तस्मै मन्त्राणां प्रभवे नमः ।
सिद्धीनां प्रभवे सर्वौजसां च प्रभवे नमः ॥५०॥
लक्ष्मीनां पतये तस्मै श्रीस्वामिने नमो नमः ।
नमस्तस्मै वरदाय प्रजेशाय महात्मने ॥५१॥
अणवे महते तस्मै सर्वगाय नमो नमः ।
नमो यज्ञस्वरूपाय नमः पूजात्मकाय च ॥५२॥
नमः शस्त्रास्त्रधाराय माधवीष्टाय ते नमः ।
नमस्तीर्थाय देवाय वेदिशीलाय ते नमः ॥५३॥
नमो वीर्याय कामाय सदानन्दाय ते नमः ।
नमः श्रीबालकृष्णायाऽभयदानाय ते नमः ॥५४॥
वरदाय वरेण्याय नमस्तेऽप्रतिमाय च ।
हव्यकव्यादिरूपाय मेध्याय विष्णवे नमः ॥५५॥
पंक्तिपावनरूपाय नारायणाय ते नमः ।
नमः शुद्धाय बुद्धाय सर्वनेत्राय ते नमः ॥५६॥
दृश्यादृश्यस्वरूपाय दम्पतीरूपिणे नमः ।
त्यागिने च सुवर्णाय सौम्यरूपाय ते नमः ॥५७॥
नमः कान्ताय श्रीशाय वल्लभार्याय ते नमः ।
वत्सलायोपजीव्याय मृत्युघ्नाय च ते नमः ॥५८॥
अप्रमेयाय बृहते कुलालाय नमो नमः ।
रक्षोघ्नाय विषघ्नाय भक्तवेद्याय ते नमः ॥५९॥
निर्विशेषाय हृद्याय मोक्षदाय च ते नमः ।
नमो गोपालबालाय कंभराश्रीभवाय च ॥६०॥
कामदाय च युवतीसेविताय नमो नमः ।
नमो वृद्धातिवृद्धाय पुराणाय च ते नमः ॥६१॥
लोकधात्री त्वियं भूमिर्मूर्तिर्दिव्या हि ते मता ।
द्यौः सर्वं मस्तकं यस्य पातालं पादसंज्ञितम् ॥६२॥
सृष्टयश्चोदरे यस्य तस्मै कृष्णाय ते नमः ।
अनादिश्रीकृष्णनारायणाय परमात्मने ॥६३॥
कुंकुमवापिकाक्षेत्रवासबालाय ते नमः ।
सर्वहृत्सु निवासायाऽन्तर्यामिणे च ते नमः ॥६४॥
नारायणस्तवेनैवं ये स्तुवन्त्यात्मनां पतिम् ।
शृण्वन्ति स्तवनं चैवं तेषां भाग्योदयो भवेत् ॥६८९॥
भजनीयो रटनीयः सेवनीयः प्रियेश्वरः ।
सर्वकर्मसु विश्वात्मा स्नेहनीयः प्रियः पतिः ॥२६॥
प्राणपतिः पालनीयो रक्षणीयो गुहान्तरे ।
न कदाचिन्मोचनीयः शाश्वतानन्दलिप्सुभिः ॥६७॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इत्युक्त्वा बद्रिके साधुर्जीवनायन एकलः ॥६८॥
शर्करानगरं गन्तुं समियेष तदा जनाः ।
नृपादयः सह यातुं सज्जाः प्रजास्तदाऽभवन् ॥६९॥
नरा नार्यो बालबाला वृद्धा युवान इत्यपि ।
संहिताश्रवणार्थं ते सज्जा विनिर्ययुर्द्रुतम् ॥७०॥
संघयात्रा चातिदीर्घा लक्षाधिमानवात्मिका ।.
अभवच्छ्रीबद्रिके वै श्रीकृष्णलग्नमानसा ॥७१॥
कन्या साधुजीवनी सा कुमारः साधुजीवनः ।
निर्विषादः कुमारो यो ज्येष्ठो यो नागविक्रमः ॥७२॥
युवराजः स्वयं चापि राज्ञी नारायणी सती ।
दासी प्रभावतीदेवी घटमालाभिधाऽपरा ॥७३॥
दासा दास्यः सहस्रं च प्रजास्तु लक्षशो जनाः ।
निर्ययुः संहितां श्रोतुं मुक्त्यर्थं च समुत्सुकाः ॥७४॥
 'कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥७५॥
नरा नार्यो वृद्धबालाः कुर्वन्तो धुन्यकीर्तनम् ।
मार्गे यान्ति बद्रिके ते सर्वे ब्रह्मपरायणाः ॥७६॥
सिन्धुघाटं समासाद्य सस्नुस्तीर्थे पपुर्जलम् ।
संहिताया मण्डपं ते ययुः कीर्तनघोषिणः ॥७७॥
नेमुश्च दण्डवद्वक्तारं तं स्वतःप्रकाशकम् ।
जगृहुस्ते प्रसादस्य वारि कृष्णपदामृतम् ॥७८॥
उपदा निदधुश्चाग्रे पुपूजुः संहिताहरिम् ।
जगृहुस्तत्र मन्त्रं च परब्रह्मसमीपतः ॥७९॥
 'ओः नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
कथाश्रवणं चक्रुश्च पुपूजुर्लोमशं मुनिम् ॥८०॥
सतां सेवां सतीनां च सेवां चक्रुर्निःसंशयाः ।
मासमेवं कथासेवां चक्रुस्तावत् समाहिताः ॥८१॥
युद्धराजस्य पापं वै विषदानस्य यद्ध्यभूत् ।
कन्याकुमारघातस्य समूलं तद्व्यपोहितम् ॥८२॥
अन्येषामपि पापानि प्रज्वलितानि सर्वशः ।
विशुद्धाः पावनाः सर्वे जाता नृपप्रजादयः ॥८३॥
वासनाः श्रीकथावार्ताश्रवणाद् विलयंगता ।
साधूनां सेवनाद् दिव्यभावाः सर्वेऽभवँस्तदा ॥८४॥
प्रतीक्षन्ते विरागस्था मुक्तिं श्रीपारमेश्वरीम् ।
राजा धारणया ध्यानं लब्धवान् परमात्मनि ॥८५॥
राज्ञी चापि तथा ध्यानं लब्धवती प्रियेश्वरे ।
दासी लब्धवती ध्यानं न्रायणे माधवीपतौ ॥८६॥
वृद्धाश्चान्ये नरा नार्यो बभूवुर्ध्यानयोगिनः ।
फाल्गुनशुक्लैकादश्यां मुक्तीक्षका हि तत्परा ॥८७॥
आसन् गन्तुं महामुक्तिं तदा राजाऽग्रजन्मने ।
ज्येष्ठकुमारकायैव नागविक्रमनामिने ॥८८॥
लिखित्वा समुकुटं वै राज्यधिष्ण्यं तदा ददौ ।
कारयित्वा महायज्ञसंकल्पं सार्वमेधिकम् ॥८९॥
अथ कन्या कुमारौ द्वौ साध्वी साधू बभवूतुः ।
त्यागिनौ सर्वदा शिष्यौ स्वतःप्रकाशयोगिनः ॥९०॥
अन्ये नार्यो नराश्चापि जगृहुस्त्यागिदीक्षणम् ।
सहस्रशोऽपरे भक्तास्त्यागाश्रमं च जगृहुः ॥९१॥
शृणु बद्रीप्रिये तत्राऽऽश्चर्यं जातं परं महत् ।
विमानानि कानकान्यागतानि व्योममार्गतः ॥९२॥
पद्मालक्ष्मीरमाराधामाणिक्यामाधवीस्त्रियः ।
मुक्तमुक्तानिकापार्षदाश्च तिष्ठन्ति येषु वै ॥९३॥
प्रत्येके राजते कृष्णनारायणोऽपि सुन्दरः ।
तदा व्योम ब्रह्मधामतुल्यं तैस्तु व्यजायत ॥९४॥
कृत्वा कृष्णो दिव्यदेहान् नेतुं योग्यान्निजाश्रितान् ।
विमानेषु स्थापयित्वा सहस्राधिकमानवान् ॥९५॥
ययौ धामाऽक्षरं नैजं पश्यतां सर्वदेहिनाम् ।
एकं वापि न वै वर्ष्म तदाऽभूच्छवरूपकम् ॥९६॥
भौतिका अपि देहास्ते दिवरूपास्तदाऽभवन् ।
तैरेव वर्ष्मभिः सर्वे ययुर्विमानसंस्थिताः ॥९७॥
अहो लीला हरेर्बद्रि ह्यगम्या तर्कवर्जिता ।
मायां कुर्यान्निजं धाम तदा का वार्तिकाऽपरा ॥९८॥
अथाऽन्ये ये नरा नार्यो बालाश्च बालिकाश्च वै ।
त्यागाश्रमे स्थिताः सर्वे तदन्ये तु गृहाश्रमाः ॥९९॥
ययुर्नैजान् शुभान् देशान् युद्धराज्यनिवासिनः ।
एवं बद्रीप्रिये तत्र चमत्कारोऽभवन्महान् ॥१००॥
नागविक्रमराजाऽपि ददौ दानान्यनेकशः ।
भोजनानि विचित्राणि भूषाम्बराणि वै तदा ॥१०१॥
कृत्वा श्रीसहितापूजां नत्वा गुरुमृषिं तथा ।
सतो नत्वाऽऽज्ञया राज्यं निजं समाययौ सुखम् ॥१०२॥
कन्याघ्नस्य कृता मुक्तिः शरणे पतितस्य वै ।
साधोः सेवारतस्यापि कुमारघ्नस्य बद्रिके ॥१०३॥
अनादिश्रीकृष्णनारायणेन परमात्मना ।
दयालुना कृता मुक्तिर्मुनिना जीवनेन च ॥१०४॥
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
गुणग्राहाद् भुक्तिमुक्ती भवेतां नात्र संशयः ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीजीवनायनेन युद्धराजेन च समं राष्ट्रीयप्रजादीनां संहितास्थानगमनं कथाश्रवणं, युद्धराजादीनां मोक्षणम्, कन्यकादीनां त्यागित्वम्, इतरेषां युवराजेन समं राष्ट्रं प्रत्यागमनमित्यादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP