संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५८ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां पापविनाशिनीम् ।कराञ्चनीपुरे त्वब्धितटे सिन्धुमुखे पुरा ॥१॥यवसन्धाभिधः कश्चिद् धेनुखादकघातकी ।न्यवसन्मांसमदिरामत्स्वादनोऽतिहिंसकः ॥२॥शशान् कपीन् वराहाँश्च हरिणान् वनपक्षिणः ।यादांसि चापि हिंसित्वा गवयाऽजोरणानपि ॥३॥सकुटुम्बः पाचयित्वा विक्रीणाति च खादति ।एवं पापसमाचारः सदा पापपरायणः ॥४॥कुक्कुटादः कुक्कुटाण्डरसभक्षणकारकः ।भ्रष्टदेहो भ्रष्टकर्मा यवसन्धीयजातिजः ॥५॥यवसन्धाभिधो वार्तां शुश्राव नाविकाननात् ।शर्करानगरे तत्र संहितायाः कथा शुभा ॥६॥जायते मोक्षदा सर्वपापानां क्षालिनी त्विति ।जायन्ते दिव्यदेहाश्च श्रोतारो ब्रह्मलोकगाः ॥७॥सर्वपापानि भगवान् शरण्यो भक्तवत्सलः ।शरणागतभक्तस्य क्षमतेऽर्पयते दिवम् ॥८॥हिंसका बहवस्तेन तारिताः स्त्रीनरा अपि ।तत्रास्ते लोमशर्षिश्च स्वतःप्रकाश ईशिता ॥९॥तथा सन्तः साधवश्च साध्व्यो विप्रर्षयोऽपि च ।येषां वै दर्शनात् प्रसेवनात् प्रसादनात्तथा ॥१०॥शाश्वती जायते मुक्तिर्विमानेन गतिः परा ।नैतादृशो हि समयः पुनरस्मान् मिलिष्यति ॥११॥पापनाशकरः शुद्धोऽनायासमोक्षणप्रदः ।यवसन्धो बद्रिके संशुश्रावैतां गिरं शुभाम् ॥१२॥मुमुक्षाऽस्याऽभवत्तूर्णं पापनाशाय तत्क्षणम् ।मया पापान्यनन्तानि कृतानि घातनानि वै ॥१३॥तेषां न स्याद्धि निस्तारो विना दिव्यजनाश्रयम् ।एते नौकाधराः सर्वे वदन्ति ऋतमेव तत् ॥१४॥प्रयामि शर्करापुर्यामघानि क्षपयामि च ।यदि पापविनाशो मे बहुहत्याघनाशनम् ॥१५॥तदा तस्मादुत्तमं मे किमत्र परिशिष्यते ।कर्मणां चेत् कृतानां तु भूमावत्र निवर्तनम् ॥१६॥किमस्मादपरं साध्यं कर्तव्यं मेऽवशिष्यते ।अवश्यं तत्र गन्तव्यं प्राणमात्रं तु यत्र वै ॥१७॥अवश्यं तत्र वस्तव्यं यत्र स्याच्छान्तिरात्मनः ।अवश्यं तत्र दातव्यं यत्रोप्तं फलदं भवेत् ॥१८॥अवश्यं तत्र सुप्तव्यं यत्र निर्भीकता भवेत् ।अवश्यं तत्र मर्तव्यं यत्रानन्दस्तु शाश्वतः ॥१९॥यदि गच्छामि तत्रैव संहितायाः कथार्थकः ।पापनाशो भवेन्मे चेद् गन्तव्यं मोक्षमेव ह ॥२०॥पुनरावर्तनं नैव कराञ्चनीपुरं प्रति ।रोचते मे पापकर्म नैव नैव च नैव च ॥२१॥कुटुम्बसहितो यास्ये शर्करानगरं प्रति ।महत्या नौकया यन्त्रगन्त्र्या यास्यामि सत्वरम् ॥२२॥विचार्येत्थं यवसन्धः पत्नीं नाम्ना मजावलीम् ।जगाद मानसं सर्वं संकल्पितं शुभावहम् ॥२३॥सापि धन्यं निजभाग्यं मेने देशावलोकनम् ।पुण्यावलोकनं चापि महोत्सवप्रलोकनम् ॥२४॥मोक्षावलोकनं मेने श्रेष्ठं हिंसाद्यपेक्षया ।बद्रिके सा सम्मताऽभूत् पुत्राः पुत्र्यस्तथाविधाः ॥२५॥एकविंशतिसंख्यास्ते कुटुम्बिनो द्रुतं ततः ।धनं द्रव्यं भूषणान्यम्बराणि भोजनान्यपि ॥२६॥गृहयोग्यान्यौषधानि वेषवाराणि यान्यपि ।देहादिसाधनकानि पात्राण्यावश्यकानि च ॥२७॥पेटिका चोपकरणं शवयाद्यं ते समुत्सुकाः ।निन्यिरे सर्वमेवापि योग्यं यात्रादि यद्धितम् ॥२८॥नौकया यन्त्रवेगाभिगमयित्र्याब्धितीरके ।ययुरग्रे सिन्धुमुखे ततो नद्यां तु नौकया ॥२९॥तयैव सहसा सर्वे प्रतिपूरं ययुर्मुदा ।प्रापुः श्रीशर्कराभूमिं स्नात्वा सिन्धुजले तु ते ॥३०॥नीत्वोपदाः प्रजग्मुस्ते कथामण्डपमुत्तमम् ।शुश्रुवुस्ते कथां रम्यां सर्वपातकनाशिनीम् ॥३१॥कथान्ते वाचकं सर्वे पुपूजुर्वस्तुभिः शुभैः ।लोमशं च तथा साधून् प्रणेमुस्ते ततः परम् ॥३२॥प्रार्थनां चक्रिरे पापमोक्षार्थिनीं शुभावहाम् ।लोमशश्च तदा तेभ्यो ददौ श्रीब्रह्मकूर्चकम् ॥३३॥व्रतं च पञ्चगव्यं च तथा श्रीकृष्णनाम च ।मन्त्रं धुन्यं भजनं च ददौ पादामृतं तथा ॥३४॥प्रसादान्नं ददौ तेभ्यः पापनाशनहेतवे ।तेऽपि सर्वेऽतिभावेन चखदुरन्नमुत्तमम् ॥३५॥पपुर्वारि व्रतं चक्रुः कथाश्रवणमाचरन् ।मासान्ते पावना जाताः सर्वे विगतकल्मषाः ॥३६॥भावनानुकूल एषामायुष्यान्तोऽभवत्तथा ।द्वादश्यां चैत्रकृष्णस्य मध्याह्ने कृतभोजनाः ॥३७॥सर्वे ते तु निषेदुर्वै वासगृहांगणे तदा ।अकस्माच्चागतं दिव्यं विमानमम्बरात् ततः ॥३८॥विमानतैजसा स्पृष्टाः सर्वे मूर्छां प्रपेदिरे ।चतुर्भुजो हरिस्तेषां गोचरोऽपि तदाऽभवत् ॥३९॥अनादिश्रीकृष्णनारायणः श्रीमाधवीश्वरः ।तान् कृत्वा दिव्यदेहाँश्च त्याजयित्वा शवानि ह ॥४०॥निन्ये विमानगान् कृत्वा नैजं धामाऽक्षरं शुभम् ।आश्चर्यं परमं दृष्ट्वा महर्षयोऽपि वै तदा ॥४१॥प्रशसंसुः प्रियकृष्णनारायणं दयानिधिम् ।प्रशसंसुश्च तान् सर्वान् शरणागतमानवान् ॥४२॥महापापान् पापशून्यान् शशंसुर्भक्तिसंभृतान् ।अहोऽसंख्याऽघकर्तॄणामपि श्रीभगवान्हरिः ॥४३॥कृपया चाऽनिवर्तिन्या करोति मोक्षणं परम् ।धन्यो नारायणः कृष्णो धन्यास्ते मोक्षभागिनः ॥४४॥धन्यं शार्करनगरं कथा धन्या प्रमुक्तिदा ।बद्रिके एवमेवाऽन्ये मुक्तिं तत्र हि लेभिरे ॥४५॥पठनाच्छ्रवणादस्य चिन्तनादघमोक्षणम् ।भुक्तिर्मुक्तिर्भवेच्चापि तथा स्याच्छाश्वती गतिः ॥४६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कराञ्चनीपुरीस्थस्य सदाहत्याकरस्य यवसन्धस्य सकुटुम्बस्य संहिताकथाश्रवणेन मोक्षणमित्यादिनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP