संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४५ Translation - भाषांतर श्रीबद्रीप्रियोवाच-भगवन् करुणासिन्धो सिन्धुदेशे ततः परम् ।किंकिं चकार भगवान् वद मे सर्वमञ्जसा ॥१॥श्रीनरनारायण उवाच-प्रातरुत्थाय भगवान् नवम्यां स्नानमाचरत् ।वेषं भूषाश्च शृंगारं योग्यं सर्वं दधार ह ॥२॥तदा तूर्याण्यवाद्यन्त स्त्रीणां च गीतयोऽभवन् ।स्तावकानां गिरश्चाप्यश्रूयन्त मङ्गलोदिताः ॥३॥वैदिकानां मन्त्रघोषा अभवन् मण्डपान्तिके ।यन्त्रशब्दा अभवँश्च कृष्णप्रबोधसूचकाः ॥४॥ऋषयो मुनयः सन्तः पूजार्थं तत्र चाययुः ।अपूजयन् परमेशं यथालब्धोपचारकैः ॥५॥अथ नार्यो राजपत्न्यः पूजार्थं तत्र चाययुः ।अपूजयन् हरिंकृष्णं मूर्तिं तां हृदये न्यधुः ॥६॥अथ राजादयस्तत्र पूजनार्थं समाययुः ।बहुमूल्योपचारैस्तं प्रापूजयन् महीश्वराः ॥७॥प्रजा नार्यो नरास्तत्राऽऽययुर्विप्राश्च देवताः ।पूजनार्थं भगवन्तमपूजयन् विधानतः ॥८॥सर्वलोका हरिं पूजयित्वा कृतार्थिनोऽभवन् ।ततः प्रावर्तत दुग्धपानं च भोजनादिकम् ॥९॥ताम्बूलार्पणमेवाऽन्ते विदायं च ततोऽभवत् ।कोटिरायो रायहरिः प्राघुर्णिकेभ्य आदरात् ॥१०॥पारितोषिकमुत्कृष्टं पृथग् ददतुरुत्सुकौ ।महीमाना ययुर्नैजान् देशान् विमानकैस्ततः ॥११॥संहिताया वाचनार्थं कृष्ण आदिश्य सेवकम् ।स्वप्रकाशं च सहसाऽऽरार्त्रिकं संविधाय च ॥१२॥लक्ष्मीनारायणसंहितायाः कृत्वा च पूजनम् ।सज्जोऽभवन्निजं क्षेत्रं गन्तुं श्रीकुंकुमाक्षरम् ॥१३॥तावत्तत्र समायातो राजा कच्छप्रदेशजः ।नाम्ना माधवरायेति प्रार्थयत् परमेश्वरम् ॥१४॥नारायणसरस्तीरं पावयितुं च कच्छकम् ।भुजंगनगरं पावयितुं चार्थयदीश्वरम् ॥१५॥तथा महर्षयो नारायणसरोनिवासिनः ।धर्ममोक्षायनाद्याश्च प्रार्थयन् परमेश्वरम् ॥१६॥हरिस्तथाऽस्त्विति प्राह प्रस्थितस्तैः समं तदा ।सर्वैः प्रस्थापितः सिन्धुभूभृद्भिः स्वीयसज्जनैः ॥१७॥स्वकीयेन विमानेन विदायमानमानितः ।अम्बरेण यथा तूर्णमाययौ कच्छभूतलम् ॥१८॥नारायणसरस्तीरेऽवातरत् स विमानतः ।सस्नौ कृत्वा परं तीर्थं पावनं परमेश्वरः ॥१९॥तीर्थतीरे निषसाद यावत्तावत्तु शंकरः ।आययौ पार्वतीयुक्तो भ्रमन् कच्छे तु पश्चिमात् ॥२०॥श्वेतरूपं धरन् शिष्यैश्चतुर्भिः सह मानसैः ।सनन्देन नन्दनेन विश्वनन्दनकेन च ॥२१॥उपनन्देन सहितः सद्योजाताऽभिधो हरः ।अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमम् ॥२२।पुपूज दण्डवत्तत्र प्रणनाम मुहुर्मुहुः ।तुष्टाव परमात्मानं मोक्षदं लोकरक्षकम् ॥२३॥नारायणहरे कृष्ण पावितं श्रीसरोवरम् ।तव नाम्ना परां ख्यातिं यथा गच्छेत् तथा कुरु ॥२४॥हरिर्जगाद विश्वेशं शंभो नारायणं सरः ।श्रीसरश्चेति यत् पूर्वं नारायणसरोऽधुना ॥२१॥ख्यातिं यास्यति चैतद्वै पुरोर्वश्या तु पावितम् ।ऊर्वशीतीर्थमेतच्च चटकातीर्थमित्यपि ॥२६॥श्रीतीर्थं च तथा सद्योजाततीर्थं प्रमुक्तिदम् ।नारायणमहातीर्थं भविष्यति न संशयः ॥२७॥वासोऽत्र ते महादेवसद्योजात भवत्विति ।सद्योजातमहातीर्थं तव नाम्ना भविष्यति ॥२८॥कालान्तरे च ते नामान्यपराणि शुभानि वै ।भविष्यन्तीति तीर्थं तत् कोटीश्वरं भविष्यति ॥२९॥इत्युक्त्वा भगवान् शंभुं निवासाय सरस्तटे ।आज्ञां चकार तत्रैव शंभुर्वासं सदाऽकरोत् ॥३०॥तावत्तत्र समायाता दिव्या गौः श्वेतलोहिता ।चतुःशृंगी चतुर्वक्त्रा चतुष्पादा चतुर्मुखी ॥३१॥चतुर्हस्ता चतुर्नेत्रा चतुर्दंष्ट्रा चतुःस्तनी ।ननाम पादयोस्तूर्णं व्योम्ना चागत्य वै पुरः ॥३२॥कृष्णनारायणपादतले लिलेह जिह्वया ।हरिर्वारि ददौ तस्यै जिह्वायां सा पपौ द्रुतम् ॥३३॥कुमारी साऽभवत्तत्र विश्वरूपा सरस्वती ।तुष्टाव परमात्मानं श्रीपतिवल्लभंनिजम् ॥३४॥नमोऽनादिकृष्णकान्त रमाकान्त च ते नमः ।नमः श्रीमाणिकीकान्त लक्ष्मीकान्त च ते नमः ॥३५॥नमः सरस्वतीकान्त राधाकान्त च ते नमः ।सुखदाश्रीकान्त पद्मावतीकान्त च ते नमः ॥३६॥अहं शक्तिर्भवान् शक्तः कृष्णाऽहं कृष्ण ते नमः ।अहं भगवती भार्या भगवाँस्त्वं पतिः प्रभुः ॥३७॥तपस्तप्तं समायाता गोलोकात्तु तवाऽऽज्ञया ।पावनीं मां समाज्ञाप्य स्थापयाऽत्र सरस्तटे ॥३८॥तीर्थं त्वत्र हरे कृष्ण मन्नाम्नाऽपि विधेहि च ।तथाऽस्त्विति हरिः प्राह बद्रिके तां सरस्वतीम् ॥३९॥अस्थापयत् सरस्तीरे महाधेनुं सरस्वतीम् ।नारायणसरस्तीरे तीर्थं सारस्वतं शुभम् ॥४०॥पावनं सर्वलोकानामभवत् स्नानमात्रतः ।ज्ञानदं चात्मबोधादिप्रदं ब्रह्मावबोधदम् ॥४१॥तस्या नामानि भगवाँश्चकार पावनान्यपि ।गोपी माया च विद्या च कृष्णा हैमवती सती ॥४२॥प्रधाना श्रीः प्रकृतिश्च विश्वमाता नरायणी ।महेश्वरी श्वेतरक्ता द्वादशेति शुभानि वै ॥४३॥एवं नामानि सम्प्राप्य तीरे साऽपि तिरोऽभवत् ।तावत्तत्रापि पुरुषः स्वर्णवर्णः समाययौ ॥४४॥सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् ।सहस्रबाहुः सर्वज्ञः सर्वदेवमयः प्रभुः॥४५॥सकौस्तुभः शंखचक्रगदापद्मादिहेतिमान् ।तुष्टाव दण्डवत् कृत्वाऽनादिकृष्णनरायणम् ॥४६॥नमोऽनन्तस्वरूपाय सर्वकारणचारिणे ।परेशाय परकृष्णस्वरूपाय च ते नमः ॥४७॥परब्रह्मणे कृष्णाय परमेशाय ते नमः ।वासुदेवेश कृष्णेश नारायणेश ते नमः ॥४८॥ब्रह्मेशसर्वमुक्तेशाऽक्षरेश ते नमो नमः ।सर्वधामाधिपतये नमस्ते परमात्मने ॥४९॥मादृशा विष्णवोऽनन्ता उद्भवन्ति मदंशतः ।तं वन्दे परमेशेशेश्वरेश्वरेश्वरेश्वरम् ॥५०॥भगवन् सर्वदेवेश कालमायेश सर्वदा ।तीर्थे नारायणसरोवरे त्वत्पादपाविते ॥५१॥सद्योजातेन देवेन स्थातुमिच्छामि सर्वदा ।मामत्र स्थापय कृष्ण लोककल्याणहेतवे ॥९२॥तथाऽस्त्वेवं हरिः प्राह विष्णुर्वासं सदाऽकरोत् ।कृष्णनारायणस्तस्मै स्थापयामास पिप्पले ॥५३॥सहस्रशीर्षप्लक्षाख्यं तीर्थं तत्परमं ह्यभूत् ।तीरोऽभवत् प्लक्षवृक्षे विष्णुः सनातनः प्रभुः ॥५४॥अथाऽऽययौ व्योमदेशात् श्मश्रुलः पुष्टरूपवान् ।हिरण्यगर्भः सर्वात्मा सर्वसृष्टिप्रबीजवान् ॥५५॥भर्ता हर्ता जगत्कर्ता ब्रह्मा सर्वाण्डसर्जकः ।नेमे नारायणकृष्णं पपात पादयोस्तथा ॥५६॥तुष्टाव स्वागतं प्राप्तः श्रीपतिंकृष्णकेशवम् ।हरिकृष्ण हरिविष्णो कृष्णनारायणप्रभो ॥५७॥सर्वस्वामिन् सर्वधामिन् सर्वशक्तिप्रदायक ।सर्वरक्षाविधातस्त्वं नारायणोऽत्र चागतः ॥५८॥कल्याणार्थं तु लोकानां तीर्थानां पावनाय च ।नारायणे सरस्यत्र शंभुर्विष्णुः सरस्वती ॥५९॥यथा वासं व्यधुस्तद्वद् वासं मे रोचतेऽपि च ।आज्ञापय प्रतिष्ठां मे कुर्वत्र भगवन्निह ॥६०॥तथाऽस्त्वेवं हरिः प्राह बद्रिके परमेष्ठिनम् ।ब्रह्मा तत्र पलाशे तु द्रुमे वासं तदाऽकरोत् ॥६१॥रक्तवस्त्रोऽभवद् वृक्षो रक्तपुष्पावशोभितः ।पावनः सर्वलोकानां यज्ञानामुपकारकृत् ॥६२॥एवं देवा अवसन् वै लोककल्याणकारिणः ।बद्रिके च ततस्तत्राश्चर्यं परममद्भुतम् ॥६३॥अभवद् तत् दिव्यरूपं समाकर्णय शोभनम् ।शबलाश्वाश्चहर्यश्वाः पुत्रा वै वेधसः पुरा ॥६४॥नारदस्योपदेशेन वैराग्यं समुपाश्रिताः ।सप्तदशसहस्राणि तपोऽर्थं तत्र ये स्थिताः ॥६५॥सर्वे नारायणंकृष्णं प्राप्य तत्र पुरोऽभवन् ।तापसा जटिलाः शुष्काः करमालाविराजिनः ॥६६॥कृष्णनारायणस्वामिनारायणजपान्विताः ।प्रसन्नमानसा दिव्यतेजःपरिधिशोभनाः ॥६७॥प्रत्याहृतेन्द्रियवेगा ब्रह्मचर्यपरायणाः ।शान्ता निर्गुणराधेशस्मरणे धृतमानसाः ॥६८॥बालस्वरूपिणश्चापि पुष्टा यौवनशालिनः ।संकीर्तनं प्रकुर्वन्तः कूर्दयन्तोऽतिहर्षिताः ॥६९॥करतालैः कृष्णनारायणस्वामीतिवादिनः ।अहो अहो हरे कृष्ण कृष्णनारायण प्रभो ॥७०॥कल्याणकृन्महाकृष्णनारायण विभो प्रभो ।एवं रटन्तः श्रीकृष्णनारायणं ह्युपस्थिताः ॥७१॥प्रणेमुर्दण्डवद्भक्त्या धूलीं ते शिरसि न्यधुः ।धूल्यामालोटयन्तस्ते कृष्णपादजलं पपुः ॥७२॥तुष्टुवुः श्रीहरिं तत्र एवम् हृदयार्पणैः ।नारायणहरे कृष्ण मोक्षार्थं वयमागताः ॥७३॥भवान् मोक्षप्रदश्चास्ते देहि मोक्षं भवार्णवात् ।वयं सर्वे ब्रह्मपुत्राः शिष्या नारदयोगिनः ॥७४॥प्रतीक्षमाणाः श्रीकृष्णं वसामोऽत्र जपान्विताः ।दैवाद् वा कृपया कृष्णनारायण भवानिह ॥७५॥नो मोक्षार्थं समायातो देहि मोक्षपदं परम् ।श्रुत्वा प्राह हरिस्ताँस्तु मोक्षं ददामि शाश्वतम् ॥७६॥ब्रह्मतुल्याः समर्थाः स्थ नैकरूपधराः पराः ।तापसा मन्नियोगेन मूलरूपैस्तु सर्वथा ॥७७॥दिव्यतां मुक्ततां प्राप्य यान्तु धामाऽक्षरं मम ।द्वितीयस्तु स्वरूपैवैं तिष्ठन्तु चांशतस्त्विह ॥७८॥नारायणपरा नित्यं देवसेवापरायणाः ।तीर्थस्य मुनयो भूत्वा तिष्ठन्त्वत्र सदा स्थिराः ॥७९॥इत्युक्ता बद्रिके ते तु द्वेधारूपास्तदाऽभवन् ।अंशतो मुनिरूपास्ते मूलतो मुक्तरूपिणः ॥८०॥मुनिरूपा न्-यवतैंस्ते नारायणसरस्तटे ।मुक्तरूपा दिव्यरूपा चागते सुविमानके ॥८१॥पार्षदैर्दिव्यदेहैस्ते निषद्याऽक्षरधाम मे ।प्रययुर्मुक्ततां प्राप्ताः शाश्वतानन्दभोजिनः ॥८२॥कृपया मे समस्तास्ते जाता मत्समशक्तयः ।एवं हि बद्रिके कृष्णनारायणो नरायणान् ॥८३॥मादृशान् सर्वथा कृत्वा ततस्तीर्थस्थितान् जनान् ।पावयित्वा प्रदायाऽपि दानवस्तु यथेष्टकम् ॥८४॥तीर्थोत्तमं सरः कृत्वा निषद्य स्वविमानके ।भुजंगनगरे सायं प्राययौ राजवाटिकाम् ॥८५॥अवातरद् विमानं तु तदा वै राजवाटिका ।शृंगारिताऽभवत् तूर्यनिनादैरभिगर्जिता ॥८६॥सम्मानकरलोकैश्च तथा राजकुटुम्बिभिः ।प्रजाभिः स्वागतार्थं सा वाटिका संकुला ह्यभूत् ॥८७॥हरिर्विमानतस्तत्र यदा वै बहिराययौ ।लक्षशो वै जना नार्यो नराश्चन्दनपुष्पकैः ॥८८॥कुंकुमाऽक्षतवर्षाभिर्वर्धयामासुरच्युतम् ।जयशब्दैर्महाहर्षकृतैर्नारायणाभिधैः ॥८९॥स्वागतं श्रीहरेश्चक्रुर्बद्रिके राष्ट्रमानवाः ।घटिकामात्रमेवादौ स्थितो विमानकाग्रके ॥९०॥दत्वा स्वदर्शनं कृष्णो विवेश नृपमन्दिरम् ।राजा माधवरायश्च राज्ञी कल्याणिका सती ॥९१॥पुपूजतुः परेशं तं पपतुः पादवार्यपि ।पूजयित्वोपचारैश्च मुकुटाद्यैश्च भूषणैः ॥९२॥वेषैश्चातिप्रमूल्यैश्च स्वर्णरत्नादिहीरकैः ।मणिभिः स्वर्णमुद्राभिः प्रपूज्याऽऽरार्त्रिकं ततः ॥९३॥व्यधातां भावभिन्नौ तौ राज्यवर्गास्ततः परम् ।पुपूजुः परमात्मानं यथार्हभूषणादिभिः ॥९४॥आरार्त्रिकं प्रचक्रुस्ते तुष्टुवुः परमेश्वरम् ।संसाराद् भगवन् कृष्ण जीवान्नस्तारयप्रभो ॥९५॥साक्षात्तव प्रसंगेन यदि दिव्या वयं नहि ।तदा केषां प्रसंगेन वयं दिव्या भवेमहि ॥९६॥श्रुत्वा हरिस्तु तान्प्राह सतां संगेन दिव्यता ।भविष्यति न सन्देहो मोक्षो वश्च भविष्यति ॥९७॥मया नारायणतीर्थे रक्षिताः शबलाश्वकाः ।हर्यश्वका ब्रह्मपुत्राः साधवस्ते मदाश्रयाः ॥९८॥मत्तो मन्त्रं च सम्प्राप्ता भजन्ते मां निरन्तरम् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९९॥एवंविधं तु मे मन्त्रं दास्यन्ति वो विधानतः ।तत्र यूथं प्राप्य तीर्थं प्रयास्यथ परं पदम् ॥१००॥सज्जा भूत्वा तीर्थविधिं कृत्वा नत्वा च तान् सतः ।सेवित्वा तान् भजनेन प्रयास्यथ परं पदम् ॥१०१॥ये सज्जास्तैः प्रगन्तव्यं मोक्षार्थं चानिवर्तिनम् ।इत्युक्त्वा बद्रिके कृष्ण उषित्वैकनिशां सुखम् ॥१०२॥भोजनं पूजनं लब्ध्वा राज्ञे राज्ञ्यै मनुं निजम् ।दत्वा सेवां परां प्राप्य प्रातरुत्थाय माधवः ॥१०३॥नैजं विमानमारुह्य ययौ कुंकुमवापिकाम् ।विश्रान्तिं परमां प्राप्तो नारायणपरेश्वरः ॥१०४॥सिन्धुवार्तां कच्छवार्तां चकार जनसंसदि ।स्नानपूजाभोजनादि चक्रे शान्तिमवाप ह ॥१० ५॥इत्येवं बद्रिके कृष्णनारायणः श्रियाः पतिः ।दिव्यं चरित्रं सुभगं मोक्षदं प्रचकार ह ॥१०६॥सर्वं ते कथितं रम्यं स्वर्गमोक्षप्रदं शुभम् ।पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग् भवेत् ॥१०७॥अपि पापो विचित्तश्च धर्मवर्जित इत्यपि ।श्रुत्वा लब्ध्वा गुणं यच्छेत् स्वर्गं दिव्ययुगायुतम् ॥१०८॥का कथा तु तदाऽन्यस्य सेविनो भक्तियोगिनः ।यथेष्टं श्रीकृष्णनारायणो दद्यात् कृपाकरः ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कच्छनृपतिर्माधवरायो हरिं कच्छमानियाय, हरिर्नारायणसरसि शिवविष्णुवेधःसरस्वतीनां तीर्थानि कृतवान्, शबलाश्वहर्यश्वानां द्वेधा रूपाणि कारयित्वा तीर्थे वासं मोक्षणं च दत्तवान्, भुजंगनगरे माधवरायनृपतिकुटुम्बं पावयित्वा कुंकुमवापीमाययौ चेति निरूपणनामा पञ्चचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP