संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०३ Translation - भाषांतर श्रीबद्रीप्रियोवाच-हरे नारायण विष्णो कालबलं कियत् कथम् ।कदा कीदृग् भवत्येव तदुद्धारः कथं तथा ॥१॥कृपया कालदग्धानां हितार्थं मे निवेदय ।हितं कीदृक् कदा केन कथं वा जायते वद ॥२॥श्रीनरनारायण उवाच-सत्ये धर्मा मानसा वै संकल्पकृतमूर्तयः ।ऋतम्भरा बुद्धिगम्याः सद्योजाताः समूर्तिकाः ॥३॥संकल्पितानि सर्वाणि तत्त्वानि मूर्तिमन्ति वै ।प्रजायन्ते तदर्थं न यत्नस्तदा त्वपेक्ष्यते ॥४॥रसवर्षिणो वृक्षाश्च पुटके पुटके मधु ।सर्वाः कामदुघा गावः पतिव्रताश्च योषितः ॥५॥ संकल्पसृष्टयस्तत्र कृषिस्तदा न विद्यते ।भूगर्भजलजाः सस्यसम्पदोऽर्धदिनस्थिराः ॥६॥मध्याह्ने कणदाश्चापि जनाः प्राकाम्यसिद्धयः ।सर्वलोकगतिमन्तो लक्षाधिवर्षजीवनाः ॥७॥गह्वरालयवासाश्च समाध्यात्मकृताश्रयाः ।पुष्पावतंसका नार्यश्चाञ्चल्यवर्जितास्तदा ॥८॥ऋतवः ऋतुधर्माश्च नासन् पुरा कृते युगे ।युगलाद् युगलस्यैव प्राविर्भावोऽभवत्तदा ॥९॥युगलं मानसं जातं दाम्पत्यधर्मसंयुतम् ।भ्रातृस्वसृव्यवहारस्तत्र नासीत् पुरामुखे ॥१०॥सहजातोऽभवद्धर्मो दक्षवामांगवत्तदा ।जायेते सह पित्रोस्तौ वर्तेते तौ सहैव च ॥११॥सहैव च तिरोभावं दम्पतीरूपिणावितः ।सत्यः सर्वव्यवहारः प्रत्यक्षो गोचरो यथा ॥१२॥रागद्वेषतृषाहीनो नित्यतृप्तिभृतोऽभवत् ।यथेष्टनिधनाः सर्वे यथेष्टरूपधारिणः ॥१३॥संकल्पस्मृद्धयः सर्वे ह्यासन् कृतयुगे पुरा ।अथ त्रेतायुगे प्राप्ते ममाऽहंभाब उद्गतः ॥१४॥सत्यं तपो मखो दानं धर्मपानचतुष्टयात् ।सत्यस्य ह्रासयोगेन त्रिपाद् धर्मोऽवशिष्यते ॥१५॥कृते सत्याधीनधर्माः सिद्धयश्च तदा तु याः ।त्रेतायां तास्तपोधीना अभवन् ऋतसत्फलाः ॥१६॥संकल्पा निर्बला जाता असत्यस्य प्रवेशनात् ।दर्शनं सबलं तत्र दर्शनोत्थाश्च सिद्धयः ॥१७॥दृष्टा वृक्षाः फलन्त्येव दृष्टो धर्मः प्रशस्यते ।वृक्षाणां पोषणैवृत्तिर्जीविका जायते तदा ॥१८॥सस्यानां वृष्टिजा सिद्धिवृष्टिवारिपिबो जनाः ।भौतिकाश्रयपुष्टाश्च कृतवृक्षनिकेतनाः ॥१९॥स्वस्वसत्ताकभूभागोत्पन्नसस्यादिजीविकाः ।जाताः प्रजास्तदा बद्रि नियमो युगलस्य न ॥२०॥यमलस्य न चोत्पत्तिश्चैकलस्योद्भवस्ततः ।कन्याकुमारदानानि प्रावर्तन्त तदा युगे ॥२१॥रक्षणानि महर्द्धीणां जीवनार्थं ततोऽभवन् ।तपसामपि हानिश्च लोकेषु कालतोऽभवत् ॥२२॥तापस्यः सिद्धयः सर्वा नष्टाः परात्तजीवनाः ।पराधीनाश्रया लोका अभवन् यत्नजीविनः ॥२३॥कर्मलभ्याऽन्नवस्त्राद्यैर्वर्तयन्ति ततो जनाः ।कूपादिजलयोगाश्च कृषिलभ्यान्नभोजनाः ॥२४॥प्रधृष्या भौतिकैस्तत्त्वैः स्वेच्छायानं लयं गतम् ।त्रेतान्ते च तपोहीनाः प्रजाः पुण्यविवर्जिताः ॥२५॥यज्ञपूजाबलवत्योऽभवन् नान्यबलान्विताः ।स्पर्शजाश्च प्रजास्तत्र विवाहबन्धनास्तथा ॥२६॥गर्भजाऽपत्यवत्यश्च बालयौवनभावनाः ।उप्तसस्योत्थकणजैर्जीविकावत्य एव च ॥२७॥द्वापरे ताः प्रजाः सर्वा व्यापारजीविकापराः ।भूत्यदासीदासभावा गृहग्रामाऽऽलयास्तथा ॥२८॥चौर्यशाठ्यतृषातृष्णाकापट्यादियुतास्ततः ।उप्तानां जायते कणस्मृद्धिश्चार्धा न चाधिका ॥२९॥न्यूना वा जायते वृष्टिकूपवारिप्रसेचनैः ।तया जीवन्ति मनुजाश्चौरास्तथाऽपहारकाः ॥३०॥प्रजासु मानवा ह्यजायन्त लुण्टनकर्मिणः ।तेषां दण्डप्रदानार्थं राजा दण्डधरोऽर्थितः ॥३१॥राज्यराष्ट्रप्रजा जाताः सर्वा दण्डवशम्वदाः ।रागो द्वेषो मृषा मिथ्या कापट्यं च छलं तथा ॥३२॥असत्यं बहुलं क्लेशः कलहस्तेऽभवँस्ततः ।द्वापरान्ते दुर्गवासाः प्रजामिथुनसृष्टिजाः ॥३३॥सुखात्मा दुःखबहुलाः प्रसह्य भोगवाञ्च्छनाः ।दुर्भिक्षबहुलाश्चापि मखपुण्यादिसिद्धयः ॥३४॥अकालमरणाश्चापि मिथो विश्वासवर्जिताः ।स्वल्पायुर्मरणाश्चापि प्रयत्नार्धाऽर्धसत्फलाः ॥३५॥अतृप्ता वासनावत्यः प्रजाः क्षुधाप्रधानिकाः ।द्वापरान्तेऽभवँस्तत्र यज्ञा ह्रासं ततो गताः ॥३६॥बद्रिके कालवेगेन मिथ्याचारो व्यवर्धत ।इच्छन्ति प्रायशो लोका मद्यं मांसं च मैथुनम् ॥३७॥धूम्रचूषणमेवापि प्राणचूषणमित्यपि ।रक्षका भक्षकास्तत्र व्यवर्धन्त गृहे गृहे ॥३८॥राजा जारोऽभवच्चापि तिष्ये सत्त्वं लयं गतम् ।त्रेतायां दशसाहस्राधिजीवना हि मानवाः ॥३९॥द्वापरे ते सहस्राधिजीवनाश्च शनैः शनैः ।कलौ ते तु शतकाधिजीवना नाधिकस्थिराः ॥४०॥रोगदुःखबहुलाश्च फलाऽर्धाऽर्धाऽर्धविन्दकाः ।गृहे चौर्यं गृहे हानिर्गृहे क्लेशो विशेषतः ॥४१॥दम्पत्योः कलहो नित्यो गृहे हिंसा वचोमयी ।अवमानं महतां प्रच्छन्नता स्वगृहेऽपि च ॥४२॥प्रतारणं क्षणे तत्र शीलनाशः क्षणे क्षणे ।असत्या वाक् सदा तत्र पादक्रमोऽनृतात्मकः ॥४३॥लेखाः कपटभाराश्च लुञ्चाव्याप्तं जगत्तदा ।अयत्नलभ्यधनिनस्तिष्ये तु बद्रिके तदा ॥४४॥अधर्मवंशविस्तारा घर्मवंशविनाशिनः ।मनसा चात्मना दुष्टा नारीक्रयप्रजीविनः ॥४५॥एकवर्णा एकपेया एकभोज्याः कलौ युगे ।एकशय्यासनवाहा एकपात्रादना जनाः ॥४६॥पत्नीविनिमयीशय्याः सर्वाः सर्वस्य चांगनाः ।अशुद्धिर्विद्यते नैव स्पर्शे भोज्ये कलौ युगे ॥४७॥पेये शयने वासे च वस्त्रेऽङ्गे नाऽप्यशुद्धता ।सर्वस्य भक्ष्यो देवार्थः प्रत्यक्षान्य मृषा तदा ॥४८॥न संस्काराः सूतकं न स्नानं पूजा न प्रोक्षणम् ।पूज्यपूजाविलोपश्च शास्तृशासनवर्जिता ॥४९॥न धर्मनियमः श्रद्धा न दाम्पत्यं स्थिरं कलौ ।कन्यादानविलोपश्चाऽतिथिवार्ताविलोपनम् ॥५०॥साधुगुरुषु नास्तिक्यं सुराऽर्हा न दिवा निशि ।न देवदर्शनं शान्तिर्न निद्रा निशिथे सुखा ॥५१॥नाऽऽन्तरे कस्यचित्तोषः उद्वेगबहुला जनाः ।अर्थोपार्जनरक्तानां नाऽऽर्थाऽऽगमेऽपि पूर्णता ॥५२॥न वेषैर्नरनारीणां जातिपरिचयोऽपि वै ।विक्रीतक्रीतभोज्याऽन्नादना आपणजीविकाः ॥५३॥आपणे भोजनादाश्च पर्वसु पानतत्पराः ।सर्वे चत्वररसिका इन्द्रजालावलोकनाः ॥५४॥बहुव्ययाः क्लेशपरा नग्नरुचयो मानवाः ।सर्वेषु कलिकालेषु पर्यायेणाऽऽगतेषु वै ॥५५॥कन्यकाः सर्वभोगिन्यो भविष्यन्ति कलौ शनैः ।बालगर्भो मातृनाम्ना न्याय चालम्बयिष्यति ॥५६॥पञ्चसहस्रवर्षान्ते तीर्थलोपः समूलतः ।वितस्तिजलवाहिन्या महानद्यो युगे कलौ ॥५७॥अष्टोत्तरा सगर्भा स्याच्चत्वारिंशे मृतिं लभेत् ।स्वयंवरा लाजशून्या नग्नदेहास्तदा स्त्रियः ॥५८॥सर्वपुंपार्श्वशायिन्यो रजोऽशुद्ध्यप्रपालिकाः ।रुग्णाः स्वार्थपरा डाकिन्यश्च नार्यो युगे कलौ ॥५९॥गृहे रात्रिनिगमो न सर्वत्र नरयोषितोः ।पितुर्नाम कलौ नास्ति जातिनाम न विद्यते ॥६०॥माताऽपि बालभावस्य ततो माता न विद्यते ।कुटुम्बसमुदायश्च नश्यत्येव कलौ द्रुतम् ॥६१॥यत्र रक्तं मनो यस्य यस्या वा तावदेव तौ ।कामनाधर्मभागो वै दाम्पत्यं नैव विद्यते ॥६२॥अनावृतसुगुप्तांगा अन्याङ्गानां तु का कथा ।एकलाया विहारश्च परदेशेष्वपि स्त्रियाः ॥६३॥एकलायाः परक्षेत्रे निवासोऽति तदा स्त्रियाः ।पुंसां पराधीनता च स्त्रीवर्गाग्रे कलौ युगे ॥६४॥स्त्रीशासनं निम्नवर्णशासनं च कलौ कलौ ।अविद्याऽध्ययनं तिष्ये भूतवादप्रधानता ॥६५॥प्रप्यक्षरचना लोकाः परोक्षवर्जनाः कलौ ।अनायाससुखार्थाश्च स्वात्मश्रेयोविवर्जिताः ॥६६॥हिंसाप्रधाना जनताश्छलधर्माग्रबोधनाः ।वान्ताशनास्तदा श्रेष्ठाः कनिष्ठा नितरां तथा ॥६७॥तिष्ये माया तथाऽसूया वधश्चापि तपस्विनाम् ।तामसाश्च नरा नार्यो भवन्ति क्षुद्भयान्विताः ॥६८॥देशानां चापि राष्ट्राणां विपर्ययाः पुनः पुनः ।प्रामाण्यं न श्रुतेस्तत्र प्रामाण्यं बलिनस्तदा ॥६९॥अभिचारैर्दुराचारैर्दुष्कर्मिभिर्दुरागमैः ।लुञ्चादानां तदा राज्यैः प्रजानां मर्दनं कलौ ॥७०॥सम्बन्धो नरनारीणां यथेष्टः शयनादिषु ।राजानः श्वपचास्तत्र बाधयन्ति सुधर्मिणः ॥७१॥भ्रूणहत्या वीरहत्या स्त्रीहत्या च प्रजास्वति ।नीचास्तत्र सदाचारा उत्कृष्टा नीचिनो मताः ॥७२॥राजवृत्तिगताश्चौराश्चौराचाराः प्रजेश्वराः ।एकपत्नीव्रतं नास्ति वर्धन्ते चाभिसारिकाः ॥७३॥आसनस्था वीक्ष्य पूज्यान् नोत्तिष्ठन्ति कलौ सतः ।ताडयन्ति सुतास्तिष्ये पितॄन् पितामहादिकान् ॥७४॥उच्चासनस्था नीचास्तु प्रधानाग्र्याः कलौ युगे ।नीचानां गोपुरे श्रेष्ठाः सदा तिष्ठन्ति सेवकाः ॥७५॥सेवन्ते नीचवर्णाश्च स्तुवन्ति नीचयोनिजान् ।पुरुषादल्प्यं बहुस्त्रीत्वं तिष्ये भवन्ति चोत्तरे ॥७६॥श्वापदानां बहुलत्वं गवादीनां परिक्षयः ।साधूनां विनिवृत्तिश्च तिष्ये तिष्ये भवन्ति वै ॥७७॥चित्रवर्षी तदा मेघः सर्वे वणिक्क्रियाछलाः ।कुशीलचर्यापरमाः क्रूरवाक्याः कलौ कलौ ॥७८॥निन्दकाः पतिता लोका मण्डलानि पुरे पुरे ।भवन्त्यल्पजला 'पृथ्वी चाल्पफलाऽविनाफला ॥७९॥दशसाहस्रवर्षाणां विगमे देवमूर्तयः ।प्रलयं यान्ति सर्वत्र मन्दिराणि न सन्त्यपि ॥८०॥पञ्चदशसहस्राणां वर्षाणां विगमे कलौ ।प्रजाः षोडशवर्षान्ता प्रयान्ति वृद्धताम् मृतिम् ॥८१॥चतुर्वर्षा युवती च जरठा द्वादशाब्दिका ।षण्मासे बालसूत्यश्च दशाब्दे तु रजःक्षयाः ॥८२॥गर्तालया वितस्तिमात्रका ह्रस्वा जनास्तदा ।भावो मुष्टिद्वयोत्सेधास्तिष्यप्रान्ते भवन्ति हि ॥८३॥चौराश्चौरस्वहर्तारो हर्तुहर्ता तथाऽपरः ।कीटमूषकनकुला धर्षयन्ति कलौ तदा ॥८४॥स्त्रीबालगोवधं कृत्वा हत्वा मिथो निजानपि ।मानवाँस्ते वृथाक्लेशान् साधयन्ति कलौ जनाः ॥८५॥तदा दानं तारकं वै चार्धकलौ स्थितं ह्यपि ।नाशं याति समस्तं च दानवार्ताऽपि नास्ति हि ॥८६॥तदा दानादिहीनेऽपि नारायणपरायणाः ।बद्रिके शरणं प्राप्ता हरेस्तरन्ति तिष्यजाः ॥८७॥उत्सीदन्ति कलौ यज्ञा व्रतानि नियमा यमाः ।पाखण्डकर्मठा लोकाः प्रजायन्ते कलौ युगे ॥८८॥दुःखप्रभूतमल्पायुः स्वल्पधैर्यं सरोगता ।अधर्मसंभृता लोकाः सदा हत्यापरायणाः ॥८९॥सत्ये वत्सरशतकस्त्रेतायां वत्सरात् स वै ।द्वापरे माससाध्यः स धर्मः कलौ दिनेन वै ॥९०॥दिनधर्मफलं कृष्णनारायणैककीर्तनात् ।तिष्ये प्रजायते बद्रि नारायणः प्रमोक्षदः ॥९१॥प्रजास्तिष्ये यदा सर्वाः परस्परभयार्दिताः ।व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान्निजालयान ॥९२॥निर्मर्यादाः प्रतिहता हित्वा जनपदानपि ।सरित्सागरकूपाँस्ताः सेवन्ते पर्वतानपि ॥९३॥मधुमांसैर्मूलफलैर्वर्तयन्ति सुदुःखिताः ।जराव्याधिक्षुधाविष्टा भवन्त्यन्यपथिस्थिताः ॥९४॥देवचित्राणि नग्नानि स्त्र्यंकस्थनरवन्ति वा ।नरांकस्थस्त्रीमयानि कलौ गृहे गृहे तदा ॥९५॥देव्यः सूक्ष्माम्बराधाना मिथुनारूढदर्शनाः ।चित्रिता देवमाश्लिष्टा दृश्यन्ते चत्वरे गृहे ॥९६॥अमर्यादाऽऽलिङ्गनस्थाश्चित्र्यन्ते युगलान्यपि ।कलौ नृत्यानि नाट्यानि कन्यानां च पुरे पुरे ॥९७॥कन्यकानां युवतीनां राशक्रियाश्च चत्वरे ।वधूनां लाजशून्यत्वं विवाहे च गृहेऽपि च ॥९८॥कामे दोषा न दृश्यन्ते कामो गुणो महाँस्तदा ।रजोगुणक्रिया सर्वा धर्माख्यां लभते कलौ ॥९९॥असत्यं सत्यवत्तत्र प्रतारणं तु धर्मवत् ।कन्या कुमारवत् तिष्ये नारी नरसमा कलौ ॥१००॥मानुषकश्चैकविधो व्यवहारो न वै पृथक् ।भ्राता तु भगिनीं हन्यात् स्वसा हन्यात् स्वसोदरम् ॥१०१॥भार्या हन्यात्पतिं पुत्रं तौ भार्यां वा परस्परम् ।अन्यायोपार्जननेत्राः प्रजास्तिष्ये स्थले स्थले ॥१०२॥सर्वा राक्षसधर्मा वा दैत्यधर्माः प्रजास्तदा ।तथा पिशाचधर्मा वा तथा दानवधर्मिकाः ॥१०३॥तथा वा लुण्टकधर्माश्चौरधर्मा गृहे गृहे ।निष्कामित्वं कलौ नास्ति मिथो वैरं गृहे गृहे ॥१०४॥भवन्ति भ्रष्टकरणा मानवा मूषका इव ।बद्रिके तिष्यभावास्ते कथिता भ्रष्टमार्गिणः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने तिष्यमानुषस्वभावानां निरूपणनामा त्र्यधिकशततमोऽध्यायः ॥१०३॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP