संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०९ Translation - भाषांतर श्रीबद्रीप्रियोवाच -यदा यदा भवान् पृथ्व्यां स्वर्गे सत्ये तलादिषु ।वर्तते च तदा तत्र भवाम्यहं न संशयः ॥१॥क्वचिन्मूर्तौ क्वचिच्चिह्ने क्वचित् पार्श्वे क्वचिद्धृदि ।क्वचित्त्वाज्ञाकरी यत्र क्वापि वर्ते पृथक् स्थिता ॥२॥तत्र सर्वत्र भगवन् तवाऽऽश्रयेण मच्छ्रिताः ।मुक्तिं प्रयान्ति परमां निष्कामाः साधुसंश्रयाः ॥३॥सकामास्तु मम भक्ताः स्वर्गं राज्यं प्रयान्ति वा ।तद्राज्यं भुज्यते भक्तनृपैः स्वर्गे तु सत्सुरैः ॥४॥पार्थिवं यन्महद्राज्यं पुरा कृतयुगे तदा ।अनादिश्रीकृष्णनारायणेन परमात्मना ॥५॥कस्मै दत्तं भूमिभृते कश्च राजा ततः परम् ।हैमखण्डमहाराज्यं कस्मै स प्रददौ पुरा ॥६॥ततः परं च किं कृष्णः कृतवान् वंशविस्तृतः ।कियान् कालो हि कृष्णस्य पृथ्व्यां यातस्ततः परम् ॥७॥इत्येतत् सर्वमेवाऽत्र कृपया वक्तुमर्हति ।अनादिश्रीकृष्णनारायणलीला मनोहराः ॥८॥श्रोतुमिच्छामि तत्पश्चाज्जाता या याः स्मृता अपि ।मोक्षदात्र्यो भवन्त्येव परमानन्दशान्तिदाः ॥९॥यन्नाथस्य स्मृतेश्चापि तापा यान्ति लयं द्रुतम् ।तत्कथाः श्रावयोदारा नरनारायणप्रभो ॥१०॥श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कृष्णनारायणप्रभुः ।ब्रह्माण्डानां साधकं च सृष्ट्वा वैराजपूरुषम् ॥११॥तद्द्वारा च समुत्पाद्य विश्वसृजो विधीन् बहून् ।चतुर्वक्त्रे पद्मजाय दत्वोत्पत्तिविधानकम् ॥१२॥महाराज्यं महाण्डस्य चतुर्दशस्तरात्मनः ।तद्द्वारा जनयामास स्वायम्भुवं मनुं नृपम् ॥१३।आग्नीध्राद्याश्च तनयाः स्वायंभुवमनोः सुताः ।मानसास्ते महावीर्या द्वीपराज्यानि चक्रिरे ॥१४॥आग्नीध्रश्चाजनाभाय ददौ खण्डं हिमालयम् ।आजनाभं महावर्षं दशसाहस्रयोजनम् ॥१५॥अजनाभे भूपतौ तु वैराग्यवेगमास्थिते ।वनं याते तु तपसे पृथिवीगर्वमास्थिता ॥१६॥सस्यानां सम्पदो रत्नभेदान् रसानचोरयत् ।तदा तु पृथवे पृथ्वीराजं ददौ हरिः स्वयम् ॥१७॥पृथुर्दुदोह पृथिवीं ददौ दुग्धानि सर्वशः ।प्रजाभ्यः प्रययौ पश्चात्तपसेऽथ ततः परम् ॥१८॥खण्डराज्यानि भक्तेभ्यो नृपेभ्यः प्रददौ प्रभुः ।दिव्यराज्यानि देवेभ्यः प्रददौ पुरुषोत्तमः ॥१९॥चन्द्राय तु ददौ राज्यमोषधीनां च शाखिनाम् ।यज्ञव्रतानां तपसां नक्षत्राणां द्विजन्मनाम् ॥२०॥वरुणाय ददौ राज्यमपां च यादसां तथा ।कुबेराय ददौ राज्यं धनकोशादिसम्पदाम् ॥२१॥रवीणां च ददौ राज्यं विष्णवे द्वादशात्मने ।वसूनां च ददौ राज्यमग्नये धातुयोगिने ॥२२॥प्रजापतीनां राज्यं च दक्षाय प्रददौ प्रभुः ।शक्राय मरुतां राज्यं ददौ वै द्युनिवासिनम् ॥२३॥दैत्यदानवकोटीनां प्रह्लादाय ददौ तु तत् ।पितॄणां प्रददौ राज्यं यमाय याम्यवासिनाम् ॥२४॥पिशाचरक्षसां भूतवेतालानां शिवाय च ।गिरीणां प्रददौ राज्यं हिमालयाय वै तदा ॥२५॥नदीनां च नदादीनां राज्यं तदाऽब्धये ददौ ।गन्धर्वाणां किन्नराणां विद्याध्राणां तदा ददौ ॥२६॥राज्यं चित्ररथायाऽपि किंपुंसामपि शोभनम् ।नागराज्यं वासुकये ददौ तामसयामकम् ॥२७॥सर्पाणां च महाराज्यं तक्षकाय ददौ तदा ।करिणां दिग्गजेन्द्राणां राज्यमैरावताय वै ॥२८॥पतत्त्रिणां सुपर्णायोच्चैःश्रवसे तु वाजिनाम् ।मृगाधिपत्यं सिंहाय वृषभाय गवां तथा ॥२९॥वनस्पतीनां तु कल्पद्रुमाय च ददौ तदा ।सुधर्मणे पूर्वदिशां शंखपदाय दक्षिणाम् ॥३०॥केतुमते प्रतीचीं चोत्तरां हिरण्यरोमिणे ।एवं राज्यानि भगवान् ब्रह्मद्वारा ह्यदापयत् ॥३१॥आजनाभेऽत्र खण्डे तु हिमालयाऽऽख्यपर्वते ।पृथौ गते तु तपसे विश्वगस्तस्य चात्मजः ॥३२॥राज्यं चक्रेऽथ यमुनां नन्दिभिल्लो ह्यरोधयत् ।दिलावरीं च नगरीं स्त्रीनाम्नाऽस्थापयन्नवाम् ॥३३॥यमुनायास्तटे रम्ये महादुर्गसमन्विताम् ।दिलावरीमहाराज्यं कृष्णनारायणप्रभुः ॥३४॥नागविक्रमभूपाय ददौ हत्वा तु भिल्लकम् ।नन्दिभिक्ले हते नागविक्रमः प्रशशास तत् ॥२५॥अनादिश्रीकृष्णनारायणोपास्तिबलान्वितः ।तपस्तप्त्वोपासनया प्राप प्रालेयकं धनुः ॥३६॥अनादिश्रीकृष्णनारायणाच्छ्रीपरमात्मनः ।धनुषा तेन दिव्येन विमानेन विहायसा ॥३७॥पृथ्वीं जेतुं प्रचचार नारायण इवाऽपरः ।भूपालास्तेन परितो धनुषा करदीकृताः ॥३८॥वैष्णवं भूतलं सर्वं चक्रे स नागविक्रमः ।दक्षपश्चसमुद्रान्तं दशसाहस्रयोजनम् ॥३९॥आजनाभं महाराज्यं प्राप वै नागविक्रमः ।दिलावरी राजधानी रक्षिता तेन सर्वदा ॥४०॥नागपुरीति सैवाऽपि कृता तेन स्वबोधिनी ।नागविक्रमभूपस्य भार्याऽऽसीद्धस्तिमालिनी ॥४१॥पतिव्रता महाभागा वैष्णवी सात्त्वती सती ।तस्या नाम्ना कृता पार्श्वे नगरी हास्तिनीपुरी ॥४२॥प्राप्तवैराग्यवेगाढ्यो राजा तु नागविक्रमः ।युक्तः स हस्तिमालिना तीर्थार्थं निर्ययौ गृहात् ॥४३॥यमुनां सरयूं गंगां गोगरां गण्डकीं ततः ।स्नात्वा कांचनगंगां च ब्रह्मपुरीं ततः परम् ॥४४॥कापिलं सागरं स्नात्वा पुरुषोत्तममन्दिरम् ।ययौ महानदीं गोदावरीं कृष्णां च दक्षिणाम् ॥४५॥स्नात्वोदधिं श्रीमहाद्रिं स्नात्वा तापीं च नर्मदाम् ।महीं शत्रुंजयां स्नात्वा सोमनाथं ययौ ततः ॥४६॥मूलद्वारवतीं कृत्वा कुशस्थलीं च गोमतीम् ।भद्रां स्नात्वा ययावश्वपट्टसरोवरं महत् ॥४७॥कुंकुमवापिकाक्षेत्रं कृष्णनारायणाश्रितम् ।लोमशं प्रथमं नत्वा पूजयित्वा ततस्तु सः ॥४८॥अश्वपट्टजले स्नात्वाऽनादिकृष्णनरायणम् ।इष्टं पूजयितुं स्वेष्टदेवं प्रति ययौ नृपः ॥४९॥गजासने स्थितं स्वर्णे स्मृद्धे दिव्याक्षिकारके ।हरिं विलोक्य नृपतिः प्रपूज्य विधिना ततः ॥५०॥पादामृतं पपौ पत्नीसहितो भृत्यसंयुगः ।राज्ञी पपौ हरेः पादामृतं भावसमन्विता ॥५१॥उपदा विविधाः कृष्णस्वाम्यग्रे न्यस्य वै ततः ।आरार्त्रिकं हरेः राज्ञी नृपयुक्ता चकार सा ॥५२॥हरिं तुष्टाव बहुधा निषसादाऽर्पिताऽऽसने ।स्वागतं च प्रसत्कारं चक्रे नारायणः स्वयम् ॥५३॥भोजयामास विधिना नृपं राज्ञीं च माधव ।श्रीमद्गोपालकृष्णाद्या राजस्वागतमाचरन् ॥॥५४॥अथ राजा सभार्यश्च कृताऽऽवसथ एव च ।विश्रामं चाप्तवान्निद्रां गतः समाधिमाप ह ॥५५॥तत्राऽपयज्जगत्सर्वं ब्रह्मेशविष्णुपालितम् ।स्वर्गं सत्यं व्यपश्यत् स मेरुं तत्तन्निवासिनः ॥५६॥आवृतिस्थानीश्वराँश्च व्यपश्यत् स नराधिपः ।क्षीरसागरसंस्थं च श्वेतद्वीपगतं प्रभुम् ॥५७॥बदरीस्थं नरनारायणं सूर्ये हिरण्मयम् ।वह्नौ वैश्वानरं नारायणं राजा व्यलोकयत् ॥५८॥साध्यलोकान् पितृलोकान् यज्ञनारायणं तथा ।ध्रुवलोकं याम्यलोकं महेन्द्रभवं तथा ॥५९॥ब्रह्मसभां विष्णुलोकं शिवलोकं व्यलोकयत् ।वैराजलोकं ललिताश्रीधामाऽव्याकृतं तथा ॥६०॥अमृताख्यं भूमलोकं वासुदेवालयं तथा ।सदाशिवस्य कैलासं साकेतं स व्यलोकयत् ॥६१॥मायालोकं महाविष्णुलोकं गोलोकमित्यपि ।वैकुण्ठं सीमधामानि धामाऽक्षरं व्यलोकयत् ॥६२॥परंधाम परब्रह्माऽनादिकृष्णनरायणम् ।सर्वाऽवतारधर्तारं ह्यपश्यत् त्वक्षरेश्वरम् ॥६३॥सुन्दरं षोडशवर्षं मुक्ताख्यं पुरुषोत्तमम् ।मुक्तानिकाऽर्चितं तेजोव्याप्तं भूषाविभूषितम् ॥६४॥दिव्यमालाधरं दिव्यकोटिमन्मथशोभनम् ।रमणीयं युवानं चाऽऽप्राणखात् सुसुवर्णकम् ॥६५॥राधारमाप्रियालक्ष्मीपद्मावतीप्रसेवितम् ।माणिकीस्वामिनं बद्रीश्वरं कृष्णं व्यलोकयत् ॥६६॥सर्वलावण्यसौन्दर्याऽमृतपीयूषसंभृतम् ।प्रेमस्नेहप्रमोदानामाश्रयं वरमूर्तिकम् ॥६७॥कोटिकोट्यर्कतेजांसि यस्थैकरोमरेणुके ।वर्तन्ते शाश्वततुष्टितृप्तिदानि सुखानि च ॥६८॥सकौस्तुभं समुकुटं दिव्याभरणभूषितम् ।व्यलोकयद्धरिं राजा पितृभ्यां सहितं तदा ॥६९॥राज्ञी चापि कृपया वै सर्वं व्यलोकयत् सती ।विभूतीश्च तथा दिव्याः सौभाग्यानि व्यलोकयत् ॥७०॥दिव्यभोगान् दिव्ययोगान् सर्वाश्च दिव्यसम्पदः ।दिव्याऽमृतानि सर्वाणि दिव्याः सिद्धीर्व्यलोकयत् ॥७१॥दिव्यालयान् मन्दिराणि दिव्यरत्नालयाँस्तथा ।दिव्यतेजोमयान्नैजान् विग्रहानवलोकयत् ॥७२॥अनन्तसुखमासाद्य कृष्णनारायणस्य तौ ।विहाय तत्त्विमं लोकं प्रत्यागन्तुं न चेच्छतः ॥७३॥अजराऽमृतभावं वै प्राप्य बद्रि तु को जनः ।इच्छेन्मायामये गन्तुं पुनर्यो बहिरूर्ध्वगः ॥७४॥तथापि तौ हरेस्तत्राऽऽज्ञया पुनः स्ववर्ष्मणोः ।आययतुः प्रसह्यैव कुंकुमवापिकाजुषोः ॥७५॥उत्थितौ सहसा कृष्णसन्निधौ दिव्यवैभवौ ।इन्द्रियाऽन्तःकरणानि दिव्यान्नभवन्नेतयोः ॥७६॥न रूपं रोचते मायामयं विलोकितुं तदा ।न स्पर्शो रोचते मायामयः स्प्रष्टुं तयोस्तदा ॥७७॥न रसाश्चापि रोचन्ते भोक्तुं सुदिव्यवर्ष्मणोः ।न गन्धो रोचते मायामयो दुर्गन्धवत् तयोः ॥७८॥न शब्दो रोचते मायामयो वक्तुं तयोस्ततः ।तयोर्मायामयं सर्वं सहसा निरयायते ॥७९॥त्यक्ताहारविहारौ श्रीकृष्णलग्नमानसौ ।वर्तते बद्रिके कृष्णनारायणस्य सन्निधौ ॥८०॥बालकृष्णस्य वै मूर्तेः सुखानन्दाशनौ च तौ ।विन्देते न क्षुधां नैव तृषां तु मायिकीं तदा ॥८१॥एवंविधौ महादिव्यानन्दभोगपरायणौ ।मुक्तौ जीवन्प्रमुक्तौ तौ विदेहाविव संवृतौ ॥८२॥कृष्णमूर्तेर्महामूल्यं प्राप्तं ब्रह्मरसस्य यत् ।न राज्यभोगमूल्यं वै तदग्रे स्थातुमर्हति ॥८३॥असारः खलु संसारस्तयोरग्रेऽभवत्तदा ।न संसारे मनः स्थातुमभवच्च तयोः सदा ॥८४॥प्रभोःकृष्णहरेर्ध्यानात् समागमात् प्रसेवनात् ।नष्टानि च तयोः सर्वावरणानि समन्ततः ॥८५॥जले स्थलेऽम्बरे गेहे भित्तौ वह्नौ निरोधने ।अप्रत्याहतगतिकौ पारप्रवेशकारिणौ ॥८६॥अजायतां नृपो राज्ञी सूक्ष्ममहत्प्रसिद्धिकौ ।एवंविधौ तु तौ दिव्यौ कृष्णध्यानपरायणौ ॥८७॥कृष्णचेष्टापरौ कृष्णकर्मकाण्डपरायणौ ।कृष्णार्थकृतसर्वस्वौ व्यावृत्तेन्द्रियमानसौ ॥८८॥दासदासीजने नैजे चाऽदत्तमानसौ सदा ।अवर्ततां नृपो राज्ञी कृष्णपूजापरायणौ ॥८९॥एवंविधौ तु तौ वीक्ष्य दासा दास्योऽनुगास्तथा ।शुशुचुर्बहुधा बद्रि तयोः कृतेऽतिसंभ्रमाः ॥९०॥तर्कयामासुरेतौ ते विचित्तौ किं प्रमत्तकौ ।वायुरुग्णौ च वा जातौ मन्त्राभिचारधर्षितौ ॥९१॥यद्वा तूदासीनवृत्तौ किं वा पिशाचवेशिनौ ।भूतावेशपरौ किंवा चित्तभ्रमातिधर्षितौ ॥९२॥अस्थिरमानसौ किंवा योग्यावेशमयौ च वा ।ग्रहावेशप्रपीडौ वा किमेतौ संबभूवतुः ॥९३॥इत्येवं बहुधा भृत्यजनास्तर्कान् प्रचक्रिरे ।नैतयोस्ते तु याथार्थ्यं स्थितेः पारं प्रप्रेदिरे ॥९४॥प्रार्थनां चक्रिरे भृत्यजनाः कृष्णाय ते तदा ।अनादिश्रीकृष्णनारायण विष्णो जगद्गुरो! ॥९५॥राज्ञ्या नृपस्य वैचित्त्यं किंवा जानीम एव न ।चिन्तातुरा जना भृत्या राज्यं राष्ट्रं तथाविधम् ॥९६॥सर्वमुद्वेगमापन्नं राज्ञः स्थितेरतर्कनात् ।त्वमुद्धारकरः कृष्णो यथायोग्यं विधेहि वै ॥९७॥स्वास्थ्यं राज्ञो भवेत् सम्यग् राज्यं प्रति प्रयाति च ।यथा तथा कृपां कृत्वा विधेहि कुशलं हि नः ॥९८॥राज्ञी चापि तथा चास्ते विसंज्ञेव यथा नृपः ।जानासि त्वं परमात्मन् कल्याणं कुरु सर्वथा ॥९९॥भक्तस्य भगवन् कृष्ण रक्षणं कुशलं कुरु ।इत्येवमर्थयामासुर्भृत्याद्या नृपमानवाः ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने ब्रह्मणः सृष्ट्युत्तरं राज्ञां निर्माणं, दिलावरीराजधानीनृपस्य नागविक्रमस्य तीर्थयात्राविचरणे कुंकुमवाप्यां गमनं, तत्र समाधिफलं दिव्यतापादनमित्यादिनिरूपणनामा नवाऽधिकशततमोऽध्यायः ॥१०९॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP