संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५० Translation - भाषांतर श्रीनरनारायण उवाच--शृणु बद्रीप्रिये देवि कथां निन्दकयोषितः ।बालवने पुरे त्वासीन्नास्तिका द्वेषकारिणी ॥१॥द्विर्वदन्तीतिनाम्न्येव प्रसिद्धा शूद्रभामिनी ।अनपत्या रुग्णपतिभार्या सर्वस्य निन्दिका ॥२॥यस्य कस्यापि श्रैष्ठ्यं वाऽभ्युदयं सा शृणोति चेत् ।खण्डयत्येव सामर्षा स्वभावाज्ज्वलनात्मिका ॥३॥तेजोद्वेषकरी चाप्यसहमानाऽन्यगौरवम् ।निन्दत्येव सती लोकान् सज्जनाँश्च सतीस्तथा ॥४॥विप्रं गुरुं पितरौ च वृद्धान् कुटुम्बिनोऽपि च ।नृपं राज्ञीं सतीं साध्वीं साधून्निन्दति वै वृथा ॥५॥एतादृश्यास्तु निन्दायाः पापं तस्या महद्ध्यभूत् ।अनपत्या ततश्चास्ते रुग्णश्चास्याः पतिस्तथा ॥६॥निन्दनं खननं प्रोक्तं भाग्यस्य वंशजस्य च ।वंशस्योच्छेदनं तेन पापेन जायते ततः ॥७॥नरके वसतिः स्याच्च निर्वंशस्य मृतस्य वै ।पुण्यनाशो निन्दया स्याद् धर्मनाशोऽपि निन्दया ॥८॥यशोहानिर्निन्दया चाऽनृतं सर्वं हि निन्दया ।मृषा क्षेपो निन्दया स्यादनर्थो निन्दया भवेत् ॥९॥अपराधो निन्दया स्याद् देवधर्मादिखण्डनम् ।निन्दया शास्त्रनास्तिक्यं व्रतोत्सवादिखण्डनम् ॥१०॥एवमादीनि पापानि प्रजायन्ते हि निन्दया ।निन्दास्वभाविनी नारी निन्दति स्वपतिं ह्यपि ॥११॥मातरं पितरं श्वश्रूं श्वशुरं निन्दति ह्यपि ।योगिनं च महात्मानं गुरुं पूज्यं परेश्वरम् ॥१२॥लक्ष्मीं राधां माणिकीं च ललितां चापि निन्दति ।मुक्तान् मुक्तानिकाश्चापि मन्दिराणि हरेस्तथा ॥१३॥देवालयान् दैविजनान् सत्पुरुषान् विनिन्दति ।कथां मोक्षकरीं मोक्षं स्वगृहं च परगृहम् ॥१४॥निन्दत्येषा चरित्राणि श्रीकृष्णस्यापि सर्वथा ।पावनानि च कार्याणि तीर्थान्यपि च निन्दति ॥१५॥यज्ञयागादिकं चेष्टापूर्त्तं चापि विनिन्दति ।निन्दकः सर्वथा द्वेष्यकारणकः प्रजायते ॥१६॥तस्मान्निन्दा महापापं दुष्टनिरयसदृशम् ।अधोनिरयदा निन्दा महारौरवदायिनी ॥१७॥वंशनाशकरी निन्दा बद्रिकेऽर्थविनाशिनी ।एवंपापाभिसंव्याप्ता द्विर्वदन्ती तु शूद्रिका ॥१८॥शुश्राव लोकमुखतो माहात्म्यं पापनाशकम् ।संहितायाः कथाया वै कृष्णनारायणस्य च ॥१९॥द्विर्वदन्ती पतिं प्राह नाम्ना द्विर्गर्जनं तदा ।शर्करानगरे कृष्णनारायणस्य गौरवम् ॥२०॥श्रूयते च चमत्कारः प्रत्यक्षदर्शनं तथा ।कथायाः श्रवणं चापि सर्वपापविनाशनम् ॥२१॥गच्छन्ति तीर्थयात्रार्थं मानवास्तत्र संघशः ।न मन्येऽहं तादृशं वै माहात्म्यं तीर्थभूमिजम् ॥२२॥तीर्थं व्रतं कथा यात्रा दानं सर्वं मृषा सदा ।किं तीर्थेन कथया वा वृथा यान्ति जनाः खलाः ॥२३॥गतानुगतिको लोको लुण्टको मिषमात्रकृत् ।वृथा गायन्ति माहात्म्यं लोकाः कृष्णस्य तत्र वै ॥२४॥स्वामिन् किं तद्भवेत् सत्यं मयाऽनृतं तु मन्यते ।कपटं सर्वमेवैतज्जडानां तत् प्रतारणम् ॥२५॥इत्युक्तः स पतिर्नाम्ना द्विर्गर्जनो जगाद ताम् ।मैवं मैवमवोचस्तत् सत्यमेवाऽनृतं नहि ॥२६॥सत्यो नारायणः कृष्णः सत्या कथाऽघहारिणी ।सत्यः सर्वश्चमत्कारो माहालयं च ऋतं हरेः ॥२७॥तीर्थं व्रतं कथा यात्रा दानं सर्वमृतं प्रिये ।तीर्थेन कथयाऽघानां क्षालनं जायते प्रिये ॥२८॥न लोको लुण्टकः पत्नि न गतानुगतोऽपि च ।यत्र श्रीभगवद्वार्तायज्ञो भवति सर्वथा ॥२९॥वार्षिकः स महायज्ञस्तत्रोद्धरन्ति पापिनः ।निन्दिका नास्तिका त्वॆ तु पापा पापमयी सदा ॥३०॥पापमेव कल्पयसि निन्दनं प्रकरोषि च ।किं त्वया निन्दया भार्ये प्राप्यते दुष्टवादिनि ॥३१॥मैवं पुनरवोचो मां न श्रोष्यामि हि निन्दनम् ।निन्दाफलं महाघोरं भुज्यते त्वनपत्यता ॥३२॥पुनर्निन्दाफलेन त्वं प्रयास्यसि यमालयम् ।इत्युक्ता सा द्विर्वदन्ती प्राहाऽनृतो यमालयः ॥३३॥न यमा न यमावासो बालानां भयमेव तत् ।असत्या वै यमाः सर्वे यमालयोऽनृतालयः ॥३४॥एवमाह तदा तां च पतिः प्राह हितावहम् ।दुष्टे! वीक्ष्य चमत्कारं सत्यॆ सर्वमवाप्स्यसि ॥३५॥पापफलं भवत्येव कृष्णनिन्दोत्थमुल्बणम् ।तदा ज्ञास्यसि सत्यं तद् यमालयं यमानपि ॥३६॥विरराम पतिस्तूक्त्वा सापि नास्तिक्यभावतः ।निन्दत्येव हरिं धर्मं कथां साधून् यमादिकान् ॥३७॥तावदेवाम्बरात्तत्र यमदूतो विनिर्ययौ ।श्रुत्वा वाक्यं द्विर्वदन्त्याः ऋद्धश्च दर्शनं गताः ॥३८॥अदृश्यत करालोऽति पर्वतप्रायदेहवान् ।दंष्ट्राकरालः कृष्णश्च कज्जलाभो भयावहः ॥३९॥ऊर्ध्वरोमा बहिर्दन्तो रक्तस्फारितनेत्रकः ।महामुद्गरहेतिश्च ललज्जिह्वो विवस्त्रकः ॥४०॥वज्रकाठिन्यपुष्टश्च महाकपर्दिमालिकः ।शंकुकर्णो द्विशृंगश्च दीर्घपाशाढ्यहस्तकः ॥४१॥लोष्ठशृखलास्कन्धश्च बद्धाऽयोमेखलाकटिः ।लोहदण्डं सशूलं च करे दधन् सरोषकः ॥४२॥उद्यम्य मुद्गरं वेगात् क्रुद्धस्ताडयितुं च ताम् ।अभ्यायौ द्विर्वदन्तीं गर्जयन् सर्वतो दिशः ॥४३॥तावत् सा तं विलोक्यैवाऽभवत् त्रस्ता सवेपथुः ।शैथिल्यदेहबन्धाश्च त्यक्तविण्मूत्रमूर्छिता ॥४४॥आक्रोशं दुःश्रवं कृत्वा पपात तत्र भूतले ।रक्षां रक्षां करोत्वेवं वदमाना पपात सा ॥४५॥प्रसारितांऽघ्रिहस्ता चोत्ताना व्यात्ताननाऽभवत् ।स्वेदक्लिन्नाऽभवत् तावद् यमदूतेन वै क्रुधा ॥४६॥ताडिता मुद्गरेणैव शिक्षार्थं द्विर्वदन्तिका ।महाकष्टं च लेभे सा द्रुतं भग्नाऽस्थिकाऽभवत् ॥४७॥चूर्णदेहा महामारमापन्ना मरणोन्मुखी ।सञ्जाता सा तदा दूतः पस्पर्श तां करेण वै ॥४८॥सम्पन्नदेहा सञ्जाता यथापूर्वशरीरिणी ।पुनः सा गदया वह्नि ताडिता शिक्षणाय वै ॥४९॥भग्नवंशा भग्नदेहा प्रभग्नमस्तक'ऽभवत् ।विह्वला चूर्णितदेहा स्रवद्रक्ताऽभितोऽभवत् ॥५०॥तथापि सा स्थिरप्राणा महाकष्टमवाप ह ।पुनः करेण दूतस्तं पस्पर्श सा समन्ततः ॥५१॥यथापूर्वशरीरा साऽभवत् तावद् यमानुगः ।लोहदण्डेन तां पृष्ठे मारयामास वै बलात् ॥५२॥प्रफुल्लपृष्ठभागा सा महामारप्रपीडिता ।आक्रन्दनं महच्चक्रे मुक्तकण्ठाऽतिताडिता ॥९३॥पाशेनाऽऽबध्य तां दूतस्तस्थौ नग्नां विधाय वै ।प्रकाशं व्यक्तरूपोऽभूद् गोचरः सर्वदेहिनाम् ॥५४॥आक्रन्दनं महच्छ्रुत्वा पतिः पार्श्वनिवासिनः ।नरा नार्यः प्रपश्यन्तो महात्रासाऽतिविह्वलाः ॥५५॥दूरे एव स्थितास्त्रस्ता नाऽऽययुः सन्निधौ भयात् ।दूतदर्शनमात्रेण निर्बला विविशुर्गृहम् ॥५६॥दूतस्तु तां महापापां सर्वेषां शृण्वतां तदा ।गर्जयन् दिग्विभागाँश्च जगाद मर्मभेदकम् ॥५७॥रण्डे दुष्टे पापकर्त्रि निन्दिके नास्तिकि खले ।कथं निन्दसि धर्मं त्वं व्रतं पुण्यं हरिं कथाम् ॥५८॥कस्मान्निन्दसि साधूँस्त्वं वंशविनाशकारिणि ।जिह्वां ते कर्तयिष्यामि कर्णौ च नासिकां तथा ॥५९॥भेदयिष्यामि वक्षोजौ नाशयिष्यामि मस्तकम् ।मूर्धजान् कर्तयिष्यामि पाटयिष्येऽर्धवर्ष्म ते ॥६०॥त्वचं चोत्कर्तयिष्यामि पातयिष्यामि दन्तकान् ।उदरं त्रोटयिष्यामि वह्निं दास्यामि गुह्यके ॥६१॥लौहेन शंकुना देहं भेदयिष्यामि पापिनि ।कथं त्वं निन्दसि सर्वान् मृषावादान् प्रकत्थसे ॥६२॥यमदूतान् यमं नैव गणयस्यतिनास्तिके ।जीवतो मारयिष्यामि पुनर्नैवं कृथा यथा ॥६३॥वदन्नेव ममारैनां पाशबद्धां वशंगताम् ।स्पर्शेन सज्वरा चापि कुर्वन्मुहुर्गतज्वराम् ॥६४॥हाहाकारो महान् जातो नगरे तत्र सर्वशः ।रक्षको नहि तत्राऽऽसीद् बलवान् हरिमन्तरा ॥६५॥सा तदाऽतिमहादुःखा ताड्यमाना निराश्रया ।अनाथा नास्तिका स्वार्थरक्षार्थं त्वास्तिकाऽभवत् ॥६६॥सस्मार श्रीकृष्णनारायणं त्रातारमच्युतम् ।हृदये प्राञ्जलिर्भूत्वा दध्यौ श्रीपार्श्वगंप्रभुम् ॥६७॥तावद् दूतो निजहेतीन् वृत्वा मारान्न्यवर्तत ।तदा ज्ञातवती दुष्टा कृष्णस्मृतेर्बलं महत् ॥६८॥अथ कष्टाऽतिमग्ना सा व्याजहार हरे हरे ।कृष्णनारायणस्वामिन्नारायणनरायण ॥६९॥तावद् दूतः स्थलं त्यक्त्वा दुद्राव दूरतो ययौ ।अदृश्यतां गतो व्योम्नि दुर्वदन्ती सुखं गता ॥७०॥स्वास्थ्यमासाद्य चोत्थाय धृत्वा वस्त्राणि वर्ष्मणि ।गलितगर्वा लोकेन धिक्कृता च तिरस्कृता ॥७१॥विवेश लज्जिता तूर्णं स्वं गृहं चाप्यघोमुखी ।विवेद कृष्णमाहात्म्यं माहात्म्यं कृष्णसंस्मृतेः ॥७२॥कृष्णनाम्नां च माहात्म्यं विवेद याम्यमारतः ।अथ सा स्वपतिं प्राह श्रेयसे पापनुत्तये ॥७३॥संहितायाः कथास्थानं गन्तव्यं तीर्थरूपि यत् ।यत्र पारायणं मोक्षप्रदं पापघ्नमुत्तमम् ॥७४॥अनादिश्रीकृष्णनारायणस्यास्ति कथामृतम् ।तत्पानार्थं च साधूनां सेवार्थं गम्यमेव तत् ॥७५॥याम्यदुःखविनाशार्थं गन्तव्यं तत्र सर्वथा ।इत्युक्तः स्वपतिस्त्वाह तथास्त्वेवं कुरु प्रिये ॥७६॥मयापि श्रेयसे तत्राऽऽगन्तव्यं मोक्षदे स्थले ।इत्येवं बद्रिके कृत्वा निश्चयं तौ तु दम्पती ॥७७॥सज्जावभवतां तूर्णं पद्भ्यां मार्गेण निर्गतौ ।प्राप्य वै शर्कराभूमिं स्नात्वा सिन्धुजले ततः ॥७८॥संहिताया मण्डपौ तौ गत्वा वृत्तान्तमात्मनोः ।निवेदयामासतुर्वै लोमशाय महात्मने ॥७९॥लोमशस्तत्समये च ददौ कृष्णपदामृतम् ।वारि प्रसादं मिष्टं च व्रतं ददौ ततः परम् ॥८०॥एकभुक्तं नित्यकथाश्रवणं साधुसेवनम् ।प्रसादभोजनं चापि सभास्थानादिमार्जनम् ॥८१॥वैष्णवानां देहसंवाहनादिकं च प्रत्यहम् ।सेवाव्रतं ददौ ताभ्यां तथा मन्त्रं सुखप्रदम् ॥८२॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'कृष्णनारायणस्वामिन्नारायणनरायण ॥८३॥अनादिश्रीकृष्णनारायणभक्तपरायण' ।एवं धुन्यं सदा कर्तुं शिक्षयामास नाम च ॥८४॥तौ ततः पावनौ नित्यं धुन्यं विदधतः शुभम् ।नष्टपापौ गतक्लेशौ कथाश्रवणपावितौ ॥८५॥साधुसेवादिभिर्नष्टवासनौ संबभूवतुः ।मासमात्रं श्रुतवन्तौ पारायणकथामृतम् ॥८६॥दिवारात्रं सतां सेवां चक्रतुश्च यथोचिताम् ।सर्वस्वार्पणभावौ तौ साधुप्रसादभोजिनौ ॥८७॥भक्तिमन्तौ स्नेहवन्तौ बभूवतुर्नरायणे ।कृतध्यानौ निमग्नौ च हरेर्मूर्तौ बभूवतुः ॥८८॥निन्दापापं समस्तं तत् सत्सेवया लयं गतम् ।महिमा साधुषु कृष्णनारायणे व्यवर्धत ॥८९॥अथाऽऽयुःपूर्णतां प्राप्तौ गतसंसारबन्धनौ ।द्विर्गर्जनो द्विर्वदन्ती ह्युभौ पारायणस्थले ॥९०॥माघे वसन्तपञ्चम्यां वसन्तोत्सवनोत्तरम् ।प्राप्तमूर्छौ द्रुतं त्यक्त्वा देहौ दिव्यौ बभूवतुः ॥९१॥देहाभ्यां षोडशवर्षौ दिव्याभ्यां तैजसान्वितौ ।पश्यतां सर्वलोकानां गोचरौ सुन्दरौ शुभौ ॥९२॥दिव्यभूषणमालाढ्यौ दिव्यगन्धानुगन्धितौ ।दिव्यवेषाभिसम्पन्नौ मुक्तौ तौ सम्बभूवतुः ॥९३॥तावत्तत्र समायातं विमानं भास्वरं शुभम् ।सौवर्णं तेजसा व्याप्तं व्योममार्गादवातरत् ॥९४॥यत्र नारायणस्वामी कृष्णनारायणो हरिः ।श्रिया साकं विमाने श्रीमाणिक्यया युतोऽभवत् ॥९५॥दिव्यमालाम्बरभूषादिव्यशृंगारशोभनः ।दिव्याभिश्च समस्ताभिः शक्तिभिः परिसेवितः ॥९६॥हसन् प्रसादं जनयन् पश्यतां सर्वदेहिनाम् ।तौ द्वौ मुक्तौ विमाने स्वे नीत्वा धामाऽक्षरं ययौ ॥९७॥जयशब्दा जयनादास्तदाऽभवन् समन्ततः ।एवं श्रीबद्रिके कृष्णनारायणः प्रियेश्वरः ॥९८॥कथाश्रवणपुण्येन सतां सेवाफलेन च ।निनाय तौ महाभक्तौ कृपया स्वाऽक्षरं पदम् ॥९९॥शरणागतभक्तानां गणयत्येव नैव सः ।दूषणान्यपराधान् श्रीकृष्णनारायणप्रभुः ॥१००॥दयालुः स दयां कृत्वा शरणागतरक्षकः ।आपद्दुःखं वारयति नयत्यक्षरमुत्तमम् ॥१०१॥पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।भुक्तिः स्वर्गं बद्रि मुक्तिः कृष्णस्य कृपया भवेत् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सर्वनिन्दापरायणयोः द्विर्वदन्तीद्विर्गजनयोर्यमदूतदर्शनोत्तरं संहिताश्रवणार्थंगतयोः कृपालुर्भगवान् परममुक्तिं कृतवानित्यादिनिरूपणनामा पञ्चाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP