संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ७०

तिष्यसन्तानः - अध्यायः ७०

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां मोक्षकरीं तथा ।
गृहगोधाऽभवत् तत्र कथामण्डपभित्तिगा ॥१॥
दूती सा त्वभवत् पूर्वं भाणवाणीसहायिनी ।
दिनेश्वर्या महाराज्ञ्याः कृपापात्रं क्रियाकरी ॥२॥
जात्या खवासिनी नारी कुशला स्वार्थसाधने ।
परार्थचिन्ताशून्या च धूर्तेव शाठ्यशालिनी ॥३॥
राज्ञ्या आदेशकर्त्र्येव तदन्याज्ञाऽवमानिनी ।
राज्ञ्याः सहचरी नित्यं राज्ञ्यग्रे दीनकिंकरी ॥४॥
तदान्याऽग्रे सिंहिकेव वर्तमाना बलाधिका ।
अधृष्या भृत्यवर्गस्य वर्चस्विनी तु सर्वथा ॥५॥
प्रच्छन्नस्वार्थकुशला प्रच्छन्नद्रव्यसंग्रहा ।
क्रयविक्रयवार्तायां दानादौ धर्मकर्मसु ॥६॥
राज्ञ्या प्रदत्तधनतश्चौर्यवृत्त्या प्रतारिणी ।
धननिष्कासने नित्यं कुशला शाठ्यधर्मिणी ॥७॥
नित्यमेवं दत्तधनान्निष्कास्य स्वं करोति सा ।
तेन पापेन सा दूती नाम्ना नाणकिनी मृता ॥८॥
ययौ याम्यपुरं तत्र कुंभीपाके गता ततः ।
निष्कासिता तु जन्मार्थं गृहगोधाऽभवद्धि सा ॥९॥
कथाया मण्डपे दीपसन्निधौ जन्तुभक्षिणी ।
भित्तिभागे तोरणस्थाऽवसद् भीतिविवर्जिता ॥१०॥
नित्यं खादति कीटाँश्च मक्षिका भित्तिसंगताः ।
दिवाऽनिशं तोरणेऽपि विश्रान्तिं लभते मुदा ॥११॥
अथैकदा सा त्वरिता कथामण्डपिकोपरि ।
आगत्य संस्थिता श्रीमत्संहिताया वितानके ॥१२॥
गृह्णात्याज्यदीपधूमं सुगन्धि धूपमुत्तमम् ।
पुष्पपल्लवपत्राणां शैत्यं शीतजलोद्भवम् ॥१३॥
पूजावशिष्टसलिलं पत्रपुष्पादिषु स्थितम् ।
बिन्द्वात्मकं स्वेदरूपं पिबत्यपि सुतृप्तिदम् ॥१४॥
गुडं च शर्करां मिष्टमन्नं पूजार्थमर्पितम् ।
जिह्वया रसलुब्धा सा लिहत्यातृप्तिदं सुखम् ॥१५॥
एवं प्रसादमासाद्य जाता पापविवर्जिता ।
जातिस्मरा च सा जाता स्मृत्वा स्मृत्वा च दुःखिता ॥१६॥
शूहगोधावपुस्त्यक्तुमीहमाना विरागिणी ।
अभवत् त्वरिता बद्रि निमित्तस्याऽभिकांक्षिणी ॥१७॥
वैशाखशुक्लतृतीयादिने प्रातः कथासने ।
पूजनार्थं संहिताया लोमशः समुपाययौ ॥१८॥
दिनेश्वरी रायहरिस्तथाऽन्येऽपि समाययुः ।
चन्द्रेश्वरी कोटिरायस्तथर्षिसाधवो द्विजाः ॥१९॥
सहस्रशो जनाश्चापि दर्शनश्रवणार्थिनः ।
सभामण्डपमासाद्य तस्थुर्यथोचितं तदा ॥२०॥
पूजामारार्त्रिकं चक्रे लोमशः पुस्तकस्य ह ।
व्यासपूजां प्रचक्रेऽपि पत्रपुष्पाऽक्षतादिभिः ॥२१॥
शंखजलेन च नीराजनं व्यावर्तयत् त्रिधा ।
शंखजलं तु चिक्षेप लोमशः परितोऽपि च ॥२२॥
प्रसादबिन्दुलाभार्थं सर्वेषामाक्षिपन्मुनिः ।
दक्षकराञ्जलौ वारि धृत्वा धृत्वोर्ध्ववर्तिना ॥२३॥
भ्रमता स्वकरेणैव वारि चिक्षेप चाभितः ।
गृहगोधाऽपि सा वारिस्पृशाऽभवद् वितानके ॥२४॥
अपिबज्जलबिन्दुं सा लोमशस्य करोज्झितम् ।
तूर्णं सा गतपापा च दग्धकल्मषवासना ॥२५॥
शुद्धात्मा साधुवृत्तिर्वै जाता प्रक्षीणजीवना ।
मूर्छामासाद्य भूभागे संहिताऽग्रेऽपतद्धि सा ॥२६॥
गृहगोधाशरीरात्तु निर्गता दिव्यकन्यका ।
पूर्वरूपाऽनुरूपा साऽभवद् यथा खवासिनी ॥२७॥
तत्सरूपाऽपि दिव्याभा दिव्यस्वर्णातिसुन्दरी ।
षोडशवत्सरा बाला देवकन्येव चापरा ॥२८॥
सर्वशृंगारसंशोभद्विग्रहा सुविभूषिता ।
तेजःपरिधियुक्ता सा व्यद्योतत सभान्तरे ॥२९॥
अहो कृष्णस्य माहात्म्यं बद्रिके च कृपालुता ।
लोहात् स्वर्णं कंकराच्च हीरकं मौक्तिकं झषात् ॥३०॥
रत्नं क्षितेः सुतं वीर्यान्मोक्षमुच्छिष्टभक्षणात् ।
जन्तोर्देवं पशोर्मुक्तं जीवाच्छिवं करोति सः ॥३१॥
बद्रिके गृहगोधां तां मृतां तु सुरकन्यकाम् ।
चक्षुषां गोचरां सर्वतेजआकर्षिणीं शुभाम् ॥३२॥
वीक्ष्य नार्यो नरास्तत्र लक्षशो विस्मयं गताः ।
स्वप्रकाशो हि भगवान् पुष्पहारं ददौ गले ॥३३॥
लोमशस्तिलकं तस्या भालमध्ये चकार ह ।
चन्द्रकं कुंकुमेनापि प्रचकार स लोमशः ॥३४॥
पृष्टवाँस्तां लोमशो वै का त्वं पुराऽधुनाऽपि च ।
कमला वा सती भक्तिः सावित्री काऽसि कन्यके ॥३५॥
देवता वा संहिता वा गृहगोधोत्थविग्रहा ।
का त्वं कल्याणसंस्थाना वद सन्देहनाशिनि ॥३६॥
पृष्टैवं सा बद्रिके संजगाद शृण्वतां सताम् ।
सभाजनानां सर्वेषां मेघगंभीरया गिरा ॥३७॥
'नमो वोऽस्तु समस्तेभ्यो व्यासाय ते नमोऽस्तु च ।
श्रीसंहितास्वरूपायै लक्ष्म्यै देव्यै नमो नमः ॥३८॥
लक्ष्मीनारायणायाऽत्र कृष्णकान्ताय वै नमः ।
लोमशाय गुरवे च मोक्षदाय नमो नमः ॥३९॥
सर्वर्षिभ्यश्च साधुभ्यः साध्वीभ्यश्च नमो नमः ।
नमो मात्रे महाराज्ञ्यै महाराजाय वै नमः ॥४०॥
वैष्णवेभ्यः समस्तेभ्यः कथाश्रोतृभ्य ओं नमः ।
नमो मण्डपदेवेभ्यो देवीभ्यश्च नमो नमः ॥४१॥
मुक्तमुक्तानिकाभ्यश्च सर्वेभ्यश्च नमो नमः' ।
क्षमध्वं चापराधान्मे दोषान् क्षमध्वमीश्वराः ॥४२॥
साधवः ऋषयः सर्वे राजा राज्ञी च वैष्णवाः ।
सखीजनाः सखायश्च क्षमध्वं मेऽपराधकान् ॥४३॥
अहं नाणकिनीनाम्नी खवासिनी पुराऽभवम् ।
भाणवाणीसखी राज्ञ्या दिनेश्वर्याश्च किंकरी ॥४४॥
स्वार्थपरा स्तैन्यपरा धर्मधनाऽवचोरिका ।
साऽहं मृता याम्यदूतैर्नीता याम्यपुरं ततः ॥४५॥
भुक्त्वा पापफलं तस्माज्जन्मार्थं त्विह चाऽऽगता ।
गृहगोधा कर्मवशाज्जाताऽवशेषभोगिनी ॥४६॥
पूजावारिस्पृष्टदेहा मृताऽत्र कृपया मुनेः ।
प्रसादाशनतो नष्टा वासना मम सर्वथा ॥४७॥
बहुपुण्याऽस्मि सञ्जाता कथायाः श्रवणादिह ।
दिव्या देव्यस्मि सञ्जाता कृपया लोमशस्य च ॥४८॥
मोक्षमिच्छामि गन्तुं वै नेच्छामि स्वर्गमित्यपि ।
मह्यं मन्त्रं हरेश्चापि नामधुन्यं प्रपत्तिदम् ॥४९॥
लोमशोऽयं ददात्वत्र येन यामि पराऽक्षरम् ।
नमामि पादयोर्वश्च किंकरी देविकाऽस्मि च ॥५०॥
उक्त्वैवं बद्रिके सा तु चकार दण्डवद् भुवि ।
धूलिं घृष्ट्वा शरीरे स्वे चिक्षेप च प्रसादजाम् ॥५१॥
अलुठत् पञ्चवारं सा पृथ्व्यां लुण्ठच्छरीरिणी ।
उत्थाय सहसा श्रीमल्लोमशान्मन्त्रमादधे ॥५२॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'प्रभोनारायण पद्मावतीकृष्ण हरे प्रभो ॥१३॥
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो' ।
एवं धुन्यं ददौ तस्मै लोमशः सापि जगृहे ॥५४॥
प्रसन्नहृदया शान्ता जाता सा ब्रह्मरूपिणी ।
ब्राह्मी शक्तिर्हरेः शक्तिर्मुक्तानिकाऽभवद्धि सा ॥५५॥
 'ओं नमः कमलायै मे मात्रे लक्ष्म्यै नमो नमः' ।
इत्येवं सा नामधुन्यं स्वयं चक्रे समुत्सुका ॥५६॥
तावद् व्योम्ना विमानं तु लक्ष्मीनारायणान्वितम् ।
अवातरत्तु सहसा मण्डपस्य समीपतः ॥५७॥
जयनादा वैष्णवानां पूजायुक्तास्तदाऽभवन् ।
नारायणेन कृष्णेन लक्ष्म्या कमलया तदा ॥५८॥
आहूता कन्यके नाणकिनीत्येवं पुनः पुनः ।
सापि सर्वान्नमस्कृत्योड्डीय विमानमाययौ ॥५९॥
सर्वेषां पश्यतां तां तु नीत्वाऽक्षरं ययौ हरिः ।
इत्येवं बद्रिके दूती गृहगोधाऽपि देवता ॥६०॥
मुक्तानिका कृपायोगाद् भूत्वाऽक्षरं ययौ तदा ।
किं वच्म्यत्र चमत्कारान् कथाप्रसंगजान् बहून् ॥६१॥
मक्षिका मत्सराः कीटाः पतंगाश्च पिपीलिकाः ।
जन्तवोऽप्यक्षरं यान्ति प्रसादोच्छिष्टभोजिनः ॥६२॥
अथाऽप्यन्या कथां बद्रि चमत्कारान्वितां तव ।
कथयामि मूषकाणां मोक्षदां पावनीं पराम् ॥६३॥
पूर्वनारानदीतीरे ग्रामे भागलकेऽवसत् ।
संघवाटाभिधः शूद्रः शस्त्रधारी बली तथा ॥६४॥
धनुर्धारी गदाधारी संगरज्ञः कलालयः ।
प्रसिद्धः संगरे युद्धे विजये परभीप्रदः ॥६५॥
तथापि तु स्वभावेन चौर्यं रात्रौ करोत्यपि ।
अन्नानां क्षेत्रसस्यानां क्वचित्तु पशुदेहिनाम् ॥६६॥
एकदा संघशो भूत्वा व्रीहीणां दीर्घभूमिषु ।
चौर्यार्थं पाकयुक्तानां रात्रौ क्षेत्रेषु सोऽगमत् ॥६७॥
व्रीहीणां सञ्चयान् भृत्वाऽनस्सु यावत् प्रगच्छति ।
तावत् क्षेत्रपतिः शस्त्रसम्पन्नः संघशोऽपि सः ॥६८॥
समाययौ रक्षणार्थं तयोर्युद्धमभूत्तदा ।
संघवाटो हतस्तत्र खड्गस्य तीक्ष्णधारया ॥६९॥
परस्परं हताश्चान्ये चौराश्च स्वामिनोऽपि च ।
मृतास्ते कर्मभोगार्थं याम्यं पुरं ययुस्ततः ॥७०॥
अनुभूय कृतानां तु भोगान् दुःखानि सर्वथा ।
जन्म प्राप्ता मयूराणां कुक्कुटानां ततः परम् ॥७१॥
तित्तिराणां ततश्चापि घूकानां च ततः परम् ।
मूषकाणां ततो जन्म लब्धवन्तोऽतिदुःखदम् ॥७२॥
कथामण्डपसान्निध्ये उत्कराभिक्षितौ च ते ।
स्तबकानां समूहेषु तृणघासादिषु स्थिताः ॥७३॥
बिलवासास्तृणघाससस्यकणादिनोऽभवन् ।
ते वैशाखाऽसितपक्षे तृतीयायां कथोत्तरम् ॥७४॥
मूषका द्वात्रिंशदेव प्रसादोच्छिष्टभोजिनः ।
नित्यभोजनपूताश्च कथास्थलं निशामुखे ॥७५॥
आरार्त्रिकोत्तरं यदृच्छयाऽऽययुर्हि मण्डपे ।
संहितापट्टिकामूले चाययुः प्रसमुत्सुकाः ॥७६॥
प्रसादस्य कणाँस्तत्र यवसस्यानि यानि च ।
गोधूमस्यापि सस्यानि कोमलानि नवान्यपि ॥७७॥
प्राचीनानि कणिशानि लब्धवन्तो हि सद्रसान् ।
मिष्टान्नखण्डकाँश्चापि प्रसादरूपिणस्तदा ॥७८॥
भुक्तवन्तश्च ते तत्र रममाणा इतस्ततः ।
सर्वथा पावना जाताः सर्वक्षपितवासनाः ॥७९॥
निष्कल्मषाः शुद्धभावाः शुद्धात्मानः सुरा यथा ।
द्रुतं ते मूषकदेहाँस्त्यक्त्वा वै मण्डपान्तरे ॥८०॥
सुदिव्या देववज्जाता देवा देव्यश्च शोभनाः ।
सर्वे षोडशवर्षाश्च भासमानाः प्रभाविणः ॥८१॥
तुष्टुवुः परमात्मानं संहितास्थं हरिं प्रभुम् ।
'नमो मोक्षप्रदानां तु सतां लक्ष्यैकबिन्दवे ॥८२॥
मुक्तानां ध्यानलक्ष्याय सर्वावतारिणे नमः ।
नमः कृष्णाय कृष्णादिस्वामिने परमात्मने ॥८३॥
बालकृष्णाय कान्ताय सर्वकान्ताय रक्षिणे ।
श्रीशाय कमलेशाय राधेशाय विहारिणे ॥८४॥
नमो देवाधिवासाय सर्वान्तर्यामिणे नमः ।
नमोऽनादिनिधनाय मोक्षदात्रे कृपालवे ॥८४१॥
नमः श्रीलोमशायाऽपि सद्भ्यश्चापि नमो नमः ।
नमो व्यासाय दिव्याय स्वयम्प्रकाशिने नमः ॥८६॥
नमः पद्मावतीलक्ष्मीप्रज्ञाभूपतये नमः ।
नमस्तस्मै हृदिस्थाय धामस्थाय च ते नमः ॥८७॥
प्रसादाय नमश्चापि मण्डपाय च वै नमः ।
नमो मण्डपदेवेभ्यो नमः श्रवणिभ्यस्तथा ॥८८॥
तारकेभ्यः पावकेभ्यः सद्भ्यः सदा नमो नमः ।
साध्वीभ्यश्च सतीभ्यश्च वैष्णवेभ्यो नमो नमः' ॥८९॥
वयं पापाः प्रसादेनोद्धृता यदृच्छया त्विह ।
कृपया दिव्यतां प्राप्ताः सतां दर्शनतस्तथा ॥९०॥
जातिस्मराः स्म सञ्जाताः कथास्थानप्रभावतः ।
पुनर्जन्म न चेच्छामश्चेच्छामः शाश्वताऽक्षरम् ॥९१॥
स्वप्रकाशो हि भगवान् ददातु मन्त्रमुत्तमम् ।
नामधुन्यं प्रददातु येन यास्याम उत्तमम् ॥९२॥
अक्षरं परमं धाम परमेश्वरराजितम् ।
इत्येवं बद्रिके ते सम्प्रार्थयामासुरुत्सुकाः ॥९३॥
स्वप्रकाशो हि भगवान् ददौ तेभ्यो मनुं तदा ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९४॥
प्रभोनारायण पद्मावतीनारायण प्रभो ।
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो' ॥९५॥
धुन्यं ददौ तदा तेभ्यस्तेऽपि चक्रुः प्रकीर्तनम् ।
एकताना अभवँश्च श्रीकृष्णेवल्लभे प्रभौ ॥९६॥
तावच्छ्रीललितास्वामी बद्रीनाथः समाययौ ।
माणिक्यापद्मजाप्रज्ञोपेतः कृष्णोऽतिवल्लभः ॥९७॥
राधालक्ष्मीयुतश्चापि विमानवरसंस्थितः ।
तान्सर्वान्पार्षदान् मुक्तान् कृत्वा मुक्तानिकास्तथा ॥९८॥
विमाने तानुपागृह्य पश्यतां सर्वदेहिनाम् ।
जयनादैः सहितः श्रीहरिर्निनाय चाऽक्षरम् ॥९९॥
महाश्चर्यं गताः सर्वे प्रशशंसुः प्रसादनम् ।
कृपां हरेः प्रशशंसुर्मन्त्रबलं च कीर्तनम् ॥१००॥
भक्तिं सेवां कथां चापि प्रशशंसुर्हि मोक्षणम् ।
धन्यवादान्ददुश्चापि भूमये मण्डपाय च ॥१०१॥
मुक्तिं गतेभ्यः सर्वेभ्यो धन्यवादान्ददुर्जनाः ।
एवं बद्रीप्रिये मुक्तिं गतास्ते मूषकास्तदा ॥१०२॥
वैशाखशुक्लतृतीयादिने विमानसंस्थिताः ।
न स्वर्गं सम्पदस्तेषां बन्धनाय तदाऽभवत् ॥१०३॥
कृपैका परमो हेतुर्गमने चाक्षरं प्रति ।
ययाऽऽगत्य स्वयं कृष्णो नयत्येवाऽक्षरं निजान् ॥१०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणप्रसादभोजनजलप्रोक्षणादिभिः पूर्वजन्मनि नाणकिनीखवासिन्याः पश्चाद् गृहगोधायाः तथा पूर्वजन्मनि संघवाटादिद्वात्रिंशच्छूद्राणां पश्चान्मूषकाणां च मोक्षणमित्यादिनिरूपणनामा सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP