संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|

तिष्यसन्तानः - अध्यायः १०२

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि चान्यासां तु समासतः ।
समष्टिनामधेयानि वंशविस्तारगौरवात् ॥१॥
चतुर्दशसहस्राणि युगलानि तु बद्रिके ।
मेघनादीयकन्यानां हरेर्बालानि चाऽभवन् ॥२॥
कोटिदीपावल्यपत्यान्यभवन् युगलानि वै ।
कामधेनवीकन्यानां कोट्यपत्यानि चाऽभवन् ॥३॥
वसुमत्यादिकन्यानां शताऽपत्यानि चाऽभवन् ।
गह्वराकन्यकाऽपत्यान्नभवन्नेककोटिकम् ॥४॥
वनदेव्यात्मजाकन्याऽपत्यानि चैकलक्षकम् ।
दामनीकन्यकालक्षयुगलानि तथाऽभवन् ॥५॥
कंकतालीयकन्यानां षडपत्यानि चाऽभवन् ।
तथैव कंकतालानामयुतं युगलान्यपि ॥६॥
अर्यम्णाद्यात्मजानां चापत्यान्यप्येकलक्षकम् ।
रासातलीयकन्यानां पञ्चसाहस्रबालकाः ॥७॥
वासन्तिकस्त्र्यपत्यानि षोडशैवाऽभवन् खलु ।
शालमालीयकन्यानां पञ्चशतानि बालकाः ॥८॥
स्वस्तिकनागकन्यानां सहस्राणि दशाऽभवन् ।
युगलानि प्रजातानि विंशतिश्चापराणि च ॥९॥
शावदीनीयकन्यानामेकसहस्रबालकाः ।
ऐन्द्रजालिककन्यानामपत्यानि सहस्रकम् ॥१०॥
विद्याकन्यायुगलानि पञ्चसप्ततिबालकाः ।
लाक्ष्मणीपुत्रिकाऽपत्यान्यभवन् द्वे सहस्रके ॥११॥
वेधसीकन्यकाऽपत्यान्यभवन् युगलानि हि ।
द्वासप्ततिसहस्राणि बालकानि शुभानि वै ॥१२।
विश्वावसुसुतापत्यान्यभवँस्त्रिशतानि ह ।
जुम्मासेम्लासुतापत्यान्येकसहस्रबालकाः ॥१३॥
सान्तपनसुताऽपत्यपञ्चसाहस्रमित्यपि ।
सौरतीयसुताऽपत्यान्यभवन् शतमेव च ॥१४॥
महाबालेश्वरीकन्याऽपत्यानि त्रीणि चाऽभवन् ।
दाक्षजावंगरीकन्यापत्यानि शतमित्यपि ॥१५॥
प्रजाकन्यायुगलानि सहस्रबालकानि वै ।
दासीकन्यात्मजातानि सहस्राणि दशाभवन् ॥१६॥
पितृकन्यात्मजातानि युगलानि तु विंशतिः ।
पराचीनीयकन्यानामपत्यान्येककोटिकम् ॥१७॥
सान्तारणिसुतापत्ययुगलद्वयमित्यपि ।
लाजाया युगलं चैकं क्रोधनायास्तथैकलम् ॥१८॥
सूच्याश्च युगलं चैकम् ऐलवीलोत्थमेकलम् ।
शैब्यानां युगलान्येकशतं तदाऽभवच्छुभम् ॥१९॥
थार्कूटस्थीकन्यकानां पञ्चाशद्युगलानि च ।
वैरजारीयकन्यानां युगलानि शतं तथा ॥२०॥
शाक्त्यक्षिणीकन्यकानां षष्टिस्तु युगलानि वै ।
पैशाचिनीकन्यकानां युगलानि शतं तथा ॥२१॥   
कालिमाशीयकन्यानां युगलानि शतद्वयम् ।
औरलकैतुकीनां च त्रिंशद्युगलकानि च ॥२२॥
क्राथकीनां युगलानि पञ्चाऽभवँस्तदा ह्यपि ।
पार्थवीनां युगलानि विंशतिश्चाभवँस्तदा ॥२३॥
औष्ट्रालराजीकन्यानां दशाऽपत्ययुगान्यपि ।
हंकारणीनां पञ्चापि तैराणीनां तु षट् तथा ॥२४॥
जयकाष्ठलकन्यानां पञ्चाऽपत्ययुगान्यपि ।
आल्वीनरीयकन्यानां पञ्चापत्ययुगान्यपि ॥२५॥
जीनवर्द्धिसुताऽपत्ययुगलानि तु सप्त च ।
अनाथीयुगलं चैकं प्राकीर्णकीसहस्रकम् ॥२६॥
शतद्वयं तथाऽपत्ययुगलान्यभवँस्तदा ।
सप्ताऽऽल्पकेतवीयानामपत्ययुगलानि च ॥२७॥
जयकार्ष्णीसुतायाश्चाऽपत्ययुगलमेकलम् ।
पारीशानीयकन्यानामपत्यान्येकविंशतिः ॥२८॥
ऐन्दुरायीसुतानां द्वे युगलेऽभवतां तदा ।
मौद्राण्डोनामपत्यानि पञ्चदशाऽभवँस्तथा ॥२९॥
गाण्डीसुताऽपत्यकानि युगलानि नवाऽभवन् ।
लीनोर्णीकन्यकाऽपत्यचतुर्युगलकानि च ॥३०॥
बार्हच्छरीकन्यकानामेकादशयुगान्यपि ।
बाललीनीयकन्यानां चत्वारिंशद्युगान्यपि ॥३१॥
नारसिंहीकन्यकानां पञ्च युगलकानि च ।
रायगामलीकन्यानामष्टयुगलकानि च ॥३२॥
फेनतान्तवीकन्यानां यमले द्वे तदापि च ।
स्तौकहोमीयकन्याया यमलापत्यमेकलम् ॥३३॥
काष्ठयानीकन्यकायाः कौलक्याश्चैकमेकलम् ।
दैनमानीयकन्यानामपत्यद्वयमेव च ॥३४॥
रायकिन्नटीकन्यानामेकपञ्चाशदात्मजाः ।
रायरोकीश्वरीपुत्र्यपत्यानि चैकविंशतिः ॥३५॥
रायरणजित्पुत्रीणामपत्यानि च विंशतिः ।
रायवाकाक्षिकीकन्याऽपत्यत्रियुगलानि च ॥३६॥
रायमारीशकन्यानामपत्यत्रियुगान्यपि ।
रायबालेश्वरीपुत्रीत्र्यपत्ययमलानि च ॥३७॥
रायलम्बारात्मजानां षडपत्ययमान्यपि ।
रायनवार्कीकन्यानां सप्ताऽपत्ययमान्यपि ॥३८॥
रायहुण्डेशीसुतानां नवाऽपत्ययुगान्यपि ।
रायकूपेशोसुताया यमलं चैकलं तथा ॥३९॥
कालीमण्डलीनसुताऽपत्यचतुर्यमान्यपि ।
वनजेलेशीसुतानां पञ्चाऽपत्ययुगान्यपि ॥४०॥
पारावारपिबीकन्याऽपत्यत्रियमलानि च ।
कोटीश्वरीयकन्याना यमले द्वे शुभे तथा ॥४१॥
श्रीसतीशीबालिकानां त्र्यपत्ययमलानि च ।
त्रेताकर्कशिकास्त्रीणां सप्ताऽपत्ययमान्यपि ॥४२॥
आण्डजरासुतानां तु चतुरपत्यकानि च ।
बाल्यरजोंऽकजायास्तु यमलापत्यमेकलम् ॥४३॥
रायसोमनीकन्यानां त्र्यपत्ययमलान्यपि ।
उरुगवाक्षीपुत्र्योस्तु युगले द्वे मते तदा ॥४४॥
पराङ्वतीकन्ययोश्च युगले द्वे तथा मते ।
ईशानपानीबालानामेकचत्वारिंशकम् ॥४५॥
राजारायपतिजानां त्रयस्त्रिंशद्यमान्यपि ।
एकापत्ययमलं तु रायपतिस्वसुस्तथा ॥४६॥
धैनुपालीकन्यकानां युगलानि त्रयोदश ।
आजनाभीकन्यकानां दशसाहस्रबालकाः ॥४७॥
प्रजाकन्याबालकानि दशसाहस्रकाण्यपि ।
शैवच्छात्रीकन्यकानां द्वादशाऽपत्यकान्यपि ॥४८॥
धेनुपालान्यपुत्रीणां त्र्यपत्ययुगलान्यपि ।
कौबेरीणामपत्यानि माहेन्द्रीणां तथापि च ॥४९॥
यमीनां वायवीनां च वार्क्षीणां युगलान्यपि ।
बैश्वकर्मणीकन्यानां रौद्रीणां युगलानि च ॥५०॥
वाह्नेयीनां श्रावणीनां खानिजीनां युगानि च ।
साम्वत्सरीणां गोपीनां प्राचीनीनां युगानि च ॥५१॥
पिशंगीनां राशियानीनामपत्ययुगानि च ।
रोमायनीनां नारीणां पारशीनां युगानि च ॥५२॥
धीवरीणां किन्नरीणाममरीणां युगानि च ।
गौरीणां च परीणां च हारितीनां युगानि च ॥५२॥
आब्रिक्तीनां च पातालीस्त्रीणामपत्यकानि च ।
स्वर्गिणीनामप्सरसां युगलापत्यकानि च ॥५४॥
ब्रह्मसरसां बालानि गान्धर्वीणां युगानि च ।
भौमीनां दानवीनां च युगलापत्यकानि च ॥५५॥
कोट्यर्बुदाब्जद्विगुणान्यभवँस्तत्र बद्रिके ।
एतेषां नामसंस्कारं चकार लोमशो मुनिः ॥५६॥
ततश्चकार संस्कारं पायसाऽन्नादिकाऽशनम् ।
कर्णवंधं च संस्कारं क्षौरसंस्कारमित्यपि ॥५७॥
विद्यारम्भे व्रतबन्धं यज्ञोपवीतकाऽर्पणम् ।
वेदाध्ययनसंस्कारं कारयामास लोमशः ॥५८॥
वेदानध्यापयामास सर्वाणि युगलानि वै ।
समावर्तनमेवापि कारयामास लोमशः ॥५९॥
वेदविद्याध्ययनं वै तेषां निमित्तमात्रकम् ।
आसीत्तत्र तदा बद्रि ज्ञानिनां पूर्वयोगिनाम् ॥६०॥
देवा देव्य ईशान्यश्चेश्वराश्चासन् हरेः सुताः ।
मुक्ता मुक्तानिकाश्चापि पुत्र्यः पुत्राः कृतश्रवाः ॥६१॥
सिद्धविद्या अभवँस्ते सुताः पुत्र्यश्च सर्वशः ।
सिद्धभाषा अभवँश्च सर्वविद्याविशारदाः ॥६२॥
अनादिश्रीकृष्णनारायणवत् सर्वविद्यकाः ।
सर्वकलावेदिनश्चाऽभवन् पुत्राश्च पुत्रिकाः ॥६३॥
जातिस्मरा दिव्यबोधा हस्ताऽऽमलकद्दृशः ।
सर्वज्ञास्ते सुताः पुत्र्योऽभवन् महर्षयो यथा ॥६४॥
युगलानि समस्तानि समाधिसिद्धिमन्ति च ।
अभवन् बद्रिके तानि नित्यदाम्पत्यवन्ति च ॥६५॥
आदिसृष्टौ तथोत्पत्तिर्युगलानां तदा ह्यभूत् ।
तस्मात्तानि युगलानि दम्पतीरूपकाणि वै ॥६६॥
कृष्णनारायणेनैव निर्मितानि तथेच्छया ।
परस्परातिस्निग्धानि गृहधर्मार्थवन्ति च ०६॥
योग्यान्येवाऽवलोक्याऽथाऽऽज्ञया हरेस्तु लोमशः ।
विवाहाख्यं सुसंस्कारं कारयामास लोमशः ॥६८॥
तत्रोत्सवे समायाता देवा ईशाश्च पार्षदाः ।
मुक्ताश्च पितरः सिद्धा मानवा दानवादयः ॥६९॥
मण्डपेषु च दिव्येषु युगलानां करार्पणम् ।
अभवद् वह्निदेवस्य साक्ष्ये महर्षिसन्निधौ ॥७०॥
वह्निं प्रदक्षिणं कृत्वा वरमालां प्रजगृहुः ।
ग्रन्थिं धर्ममयीं बद्ध्वा दाम्पत्यं चाऽऽप्नुवँस्तदा ॥७१॥
गीतयश्चाऽऽभवन् दिव्या दिव्यांगनासमीरिताः ।
अप्सरसां नर्तनानि वाद्यघोषास्तदाऽभवन् ॥७२॥
परस्परं द्वयोर्दानान्यभवन् युग्मदेहिनाम् ।
परस्परं कवलानां दानं युगलयोगिनाम् ॥७३॥
युगलानां दम्पतीनां करद्रव्यार्पणं तथा ।
आशीर्वादाः परिहारो महीमानार्चनं तथा ॥७४॥
दिव्यदानानि सर्वाणि गोभूस्वर्णात्मकानि वै ।
अभवन् मणिरत्नानां दानानि च बहून्यपि ॥७५॥
पात्रभूषाम्बराणां च दानानि विविधानि च ।
गृहोपस्करणानां चाऽभवन् बद्रि गृहे गृहे ॥७६॥
भोजनानि महीमानवर्गाणां च ततोऽभवन् ।
कुंकुमवापिकाक्षेत्रसर्वमानवदेहिनः ॥७७॥
भोजयामास भगवान् कृष्णनारायणः प्रभुः ।
विदायं प्रददौ लोकान् ययुस्ते स्वस्वभूमिकाः ॥७८॥
भगवद्वंशविस्तारो मुमुदे कृपया हरेः ।
बद्रिके मानसानां तु दम्पतीनां ततः परम् ॥७९॥
संकल्पसृष्टयः पुत्राः पौत्राश्चासन् यथायथम् ।
पुत्र्यश्च पुत्रिकापुत्र्यस्तथाऽऽसन् देवताऽमलाः ॥८०॥
योनिजत्वरहितत्वात् विवाहो यमलस्य वै ।
निर्बाधः सर्वथा बद्रि देवेश्वरादिरीतिका ॥८१॥
कालान्तरे तु ते ताश्च मातुलानां क्षितिष्वपि ।
भुवनेषु भवनेषु कृष्णाज्ञया हरीच्छया ॥८२॥
भूत्वा युगलकान्येव दम्पतीघर्मवन्त्यपि ।
ययुर्वृद्धातिवात्सल्यैर्निवासार्थं सदा सुखात् ॥८३॥
बालकृष्णस्य पुत्राणामासीद्धस्तचतुष्टयम् ।
द्वौ मुख्यौ चाऽऽजानुलम्बौ द्वौ हस्तौ स्कन्धजौ शुभौ ॥८४॥
कन्यकानां समस्तानां चतुर्भुजास्तथाऽभवन् ।
द्वौ मुख्यौ चाऽऽजानुलम्बौ द्वौ ह्रस्वौ स्कन्धजौ तथा ॥८५॥
शङ्खचक्रगदापद्मरेखाः करेषु चाऽभवन् ।
दीर्घाः पुष्टाः श्वेतरूपा देहास्तेषां सुरूपिणः ॥८६॥
अभवन्पुत्रवर्गाणां नारीणां तु ततोऽधिकाः ।
प्रमाणन्यूनदेहा वै श्वेतरक्तास्तथाऽभवन् ॥८७॥
अणिमादिमहैश्वर्यवन्तोऽप्रधृष्यरूपिणः ।
सर्वगाः सर्वधर्माढ्याः संकल्पसिद्धमूर्तिकाः ॥८८॥
अनन्ताऽसीमशक्त्याढ्या अभवन् सर्वतः सुखाः ।
सर्वगुणोपेतसंस्थानाश्चाऽभवन् प्रभान्विताः ॥८९॥
नास्ति लोको भवनानि चतुर्दशस्तरेष्विह ।
यत्र नैशं हि सौगन्ध्यं वर्तते च यशःपरम् ॥९०॥
नास्ति सा वसतिर्द्वीपो लोकश्च भुवनान्यपि ।
यत्र न स्यात् कृष्णवंशप्रजाः पावनमूर्तयः ॥९१॥
पातालेषु तथा नाकेष्वपि खण्डेषु सर्वशः ।
चतुर्भुजात्मसृष्टीनां वसतिः सर्वतोऽभबत् ॥९२॥
बद्रिके कालयोगेन हस्तचिह्नक्षयोऽभवत् ।
ललाटे पुण्ड्रकचिह्नमात्रं ततोऽवशिष्यते॥९३॥
तन्नष्टं कालयोगेन श्वैत्यमात्रं ततोऽभवत् ।
गीर्वाणवचनान्येब कालान्तरे ततोऽभवन् ॥९४॥
ततः कालान्तरे बद्रि यज्ञोपवीतमात्रकम् ।
पीताम्बस्तुतं चासीद् धारणे ब्रह्मदेहिनाम् ॥९५॥
तन्नष्टं कालयोगेन रूपं नष्टं गुणा गताः ।
मानवा पशुतुल्या वै नार्यो निरयभूमयः ॥९६॥
आसन् विविधधर्माश्च भिन्नाचारक्रियादनाः ।
कालयोगेन धर्माणां हासोऽभवत् प्रजास्वपि ॥९७॥
मिश्रणं क्षत्रविप्राणां धर्मकर्मादियोजितम् ।
शनैस्ततोऽभवद् बद्रि सर्वाचारादिमिश्रणम् ॥९८॥
सत्यधर्मा विनष्टा वै त्रेतायां संभवन्ति हि ।
त्रेताधर्मास्ततो नष्टा भवन्ति द्वापरेऽभितः ॥९९॥
द्वापरस्य ततो धर्मा नश्यन्ति तिष्यके युगे ।
तिष्यस्य मानवा बद्रि कल्मषप्रचुराः खलु ॥१००॥
प्रजायन्ते क्लेशभाजो मृषाचाराः शठाः खलु ।
स्वल्पमेधाः स्वल्पकालाः स्वल्पतृप्ताः कलिप्रियाः ॥१०१॥
ईश्वरा मानवा देव्यः पितरो देवताः सुराः ।
सर्वे तिष्यगता बद्रि निर्बलास्ते भवन्ति हि ॥१०२॥
ओजोहीनाः क्षुधाव्याप्तास्तृष्णारागपरायणाः ।
तेनैषां सिद्धयो बद्रि नश्यन्ति योगिनामपि ॥१०३॥
वैजात्यं तु यथा स्वर्णलोहयोः क्लेदरत्नयोः ।
तथा प्रजायते तिष्ये वैगुण्यं ह्रास इत्यपि ॥१०४॥
हरेर्भक्ताः कालबलैर्नाभिभूयन्त एव च ।
ब्रह्मशीलास्तथा नाभिभूयन्ते कालकृज्जवैः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भगवतो युगलापत्यानां संख्यादि, संस्काराः, दाम्पत्यं, तत्प्रजाः, युगबलं चेत्यादिनिरूपणनामा द्व्यधिकशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP