संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४८ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि मद्यपाया कथां तथा ।बिल्वपत्तनवासाया लियारीनामयोषितः ॥१॥बिल्वाख्ये पत्तने मर्कटानदेशे तदाऽभवत् ।मदिराव्यवसायाढ्यं कुटुम्बं मद्यकर्तृ तत् ॥२॥ध्वजी तत्राऽभवन्मुख्यो नाम्ना मिष्टासवध्वजी ।तस्य पत्नी लीयार्याख्या पुत्रपुत्रीसमन्विता ॥२॥शुश्राव लोकमुखतः कथायाः परमं बलम् ।शर्करानगरे कृष्णसंहितायाः कथां ततः ॥४॥श्रोतुमैच्छत् प्रमदा सा स्वामिने प्रार्थयत्ततः ।पतिर्मिष्टासवः पत्नीं प्राह दूरे कथास्थलम् ॥५॥वर्तते दीर्घमार्गश्च गन्तव्यं सभयं पथि ।वयं धनविहीनाश्च दारिद्र्यदुःखपीडिताः ॥६॥यास्यामो वै कथं मार्गे वर्तन्ते लुण्टका जनाः ।पत्नी प्राह पतिं श्रुत्वा नाशो देहस्य विद्यते ॥७॥यद्वाकदाचिल्लोकेऽत्र मर्तव्यं सर्वथा जनैः ।अद्य वा बहुवर्षान्ते ध्रुवं तु निधनं मतम् ॥८॥येन केन निमित्तेन मरणं संभविष्यति ।वयं पापाः पापकर्माणश्च पापपरायणाः ॥९॥पापिनां मरणं पापे जायते तत्तु शोकदम् ।अपापे पुण्यकार्ये वा जायते मरणं यदि ॥१०॥कष्टं वा जायते तादृक् प्रशस्तं लाभदं तु तत् ।पुण्यसंकल्पकर्तारस्तीर्थयात्रेच्छवोऽपि च ॥११॥अकृतकार्या अपि ते मृताः स्वर्गं प्रयान्ति हि ।वयं मद्यपिबाः सर्वे सदा महातिपापिनः ॥१२॥तीर्थयात्रानिमित्तेन मृताश्चेत् स्वर्गभागिनः ।लुण्टकैर्लुण्टिता मार्गे यदि चेद् भिक्षया ततः ॥१३॥उत्पाद्य भोजनं चापि गमिष्यामः कथास्थलम् ।पापानां नाशनं तेन भाग्यानामुदयो भवेत् ॥१४॥यद्वा प्रमोक्षणं लोकादस्मात् स्यान्नात्र संशयः ।सर्वथा लाभ एवाऽस्ति हानिस्तत्र न विद्यते ॥१५॥तस्मात्तीर्थं प्रकर्तव्यं गन्तव्यं च कथास्थले ।इत्युक्तस्तु तया पत्न्या कुटुम्बसहितो ध्वजी ॥१६॥सूनी शून्यं गृहं कृत्वा प्रतस्थे शर्करायुतम् ।यथा तु चिन्तितं पूर्वं तथैवाऽस्याऽभवत् पथि ॥१७॥लुण्टका मिलिता मार्गे हृतं तैर्भाजनादिकम् ।पाथेयं गर्दभं भारवाहं च वृषभं खरम् ॥१८॥वस्त्राणि चापि पात्राणि लुण्टकाः समपाहरन् ।ते तु मत्वा महत्कष्टं किन्तु तीर्थनिमित्तकम् ॥१९॥पूर्वं विचारितं चापि नातिकष्टं तु मेनिरे ।हृतसर्वस्वकाः सर्वे पुत्राश्चैकादशापि च ॥२०॥पुत्र्यः सप्तदश कन्याः पिता माता च ते ततः ।शनैः शनैः कृष्णपरायणाः सायं सरस्तटे ॥२१॥द्रुमाढ्ये भूतले रात्रिनिर्गमाय कृतादराः ।कृतावासा जलं पीत्वा सस्मरुः परमेश्वरम् ॥२२॥कष्टं प्राप्तं परं मार्गे सर्वं हृतं तु लुष्टकैः ।अद्य रात्रिर्गता स्यात्तु श्वः कष्टं क्षुधया भवेत् ॥२३॥मर्तव्यं वा भिक्षितव्यं चाऽत्तव्यं दलपत्रकम् ।तथापि तत्कथास्थानं गन्तव्यं नात्र संशयः ॥२४॥निश्चित्यैवं समिधश्चाहृत्य वह्निमचेतयन् ।तदाधारा स्थिताः सर्वे कीर्तनं संप्रचक्रिरे ॥२५॥ 'प्रियाकृष्णहरेकृष्णपावन्नारायणप्रभो ।श्रीपतिललिताकृष्णबालकृष्णप्रभो विभो' ॥२६॥एवं प्रचक्रिरे धुन्यं तालीवादनपूर्वकम् ।रात्र्यर्धं विगतं यावत्तावत् क्रमेलकस्थितः ॥२७॥दशोष्ट्रसहितः कश्चिच्छ्रेष्ठी भोजनवस्त्रवान् ।आययौ तेन मार्गेण जलं पातुं सरस्तटे ॥२८॥सोऽपि वह्निं शुभं वीक्ष्य मानवाँस्तत्र संस्थितान् ।जलं पीत्वा पाययित्वा विश्रामार्थं समाययौ ॥२९॥जय नारायणकृष्णेत्युक्त्वा ह्यवातरत् स्थले ।उष्ट्रान् वृक्षस्तम्बमूले बद्ध्वा वह्निस्थलं शुभम् ॥३०॥गत्वा पप्रच्छ तान् सर्वान् वृत्तान्तं क्वागमादिकम् ।मिष्टासवो विनीतो वै भूत्वा यात्रां जगाद तम् ॥३१॥लुण्टकैर्लुण्टितं सर्वं तदाप्येनं जगाद ह ।अथ श्रेष्ठी परं श्रुत्वा कष्टं दयापरोऽभवत् ॥३२॥ददौ वै भोजनं तेभ्यः खर्जुरादिकमुत्तमम् ।वस्त्राण्यपि ददौ तेभ्योऽभयदानं ददौ ततः ॥३३॥उवाच तेभ्यो मुदभृद् याम्यहं चापि तत्स्थलम् ।कथां श्रोतुं ततो यूयमारोहध्वं ममोष्ट्रकान् ॥३४॥प्रयास्यामोऽनेन पथा प्राप्स्यामः श्वः प्रगे स्थलीम् ।उष्ट्रा मार्गविदः सन्ति पन्थानं वेद्मि चाप्यहम् ॥३५॥जयं मे विद्यते नैवाऽऽरोहयध्वं ममोष्ट्रकान् ।इत्युक्ता बद्रिके सर्वे त्वारुरुहुः क्रमेलकान् ॥३६॥वेगवन्तो दीर्घकण्ठा उष्ट्रा दीर्घपदक्रमाः ।वेगवद्धावनमग्ना अक्रामन्नोदिताः पथः ॥३७॥यथा वा गरुडा हंसा विमानं वा गजा इव ।मार्गमुल्लंघयामासुर्यथाऽम्बरविहारिणः ॥३८॥दिनद्वयस्य मार्गं ते रात्र्यर्धे निर्ययुर्जवात् ।प्रातर्जातं मुखदृश्यं तावत्तु शर्करापुरम् ॥३९॥ते त्वपश्यन् पुरः श्वेतसौधालिकाप्रशोभितम् ।कथामण्डपसंशोभद्व्योमकलशराजितम् ॥४०॥बहुभिर्मुनिभिः सद्भिर्वैष्णवैः प्रमदानरैः ।विहरद्भिः स्नानपूजाद्यर्थं सञ्चारिभिः प्रगे ॥४१॥होमधूम्रैः सूचयद्वै कथास्थानं च घोषणैः ।ब्राह्मणानां मुखमन्त्रोच्चारणानां समुच्छ्रितैः ॥४२॥ 'नारायणप्रभोकृष्णनारायण जगत्प्रभो ।बालकृष्णहरिकृष्णमाधवीरमणप्रभो' ॥४३॥एवं संकीर्तनैर्व्याप्तैर्ध्वनिव्याप्तं तु पावनम् ।शर्करानगरं वीक्ष्याश्चर्यं परमं लेभिरे ॥४४॥सिन्धुतीरे द्रुतं गत्वा श्रेष्ठी सस्नौ जले मुहुः ।अवतार्य समस्ताँस्तान् प्रदर्श्य मार्गमुत्तमम् ॥४५॥कथास्थलस्य वै ख्यातं स्वयमुष्ट्रान् समस्तकान् ।मिष्टं जलं पाययित्वा द्रुतं त्वदृश्यतां ययौ ॥४६॥वीक्ष्यैतत् स ध्वजी सूतो महाश्चर्यपरोऽभवत् ।अहोऽयं को भवेद् रक्षाकरोऽस्माकं वनान्तरे ॥४७॥महामार्गे सुखदाता प्रापकः सुकथान्तिके ।नूनं नारायणो यद्वा भवेत् कश्चित् सुरेश्वरः ॥४८॥अन्यथा न भवेदेवमदृश्यवर्तनं क्वचित् ।लियारी सा कृष्णनारायणं सस्मार तत्र ह ॥४९॥आकाशवाण्या भगवानाह तां भगवानहम् ।उष्ट्रानादाय भक्तानां रक्षार्थं त्वागतोऽभवम् ॥५०॥यात श्रोतुं कथां दिव्यां सेवन्तां लोमशं मुनिम् ।स्वतःप्रकाशं सेवन्तां गतिः श्रेष्ठा भविष्यति ॥५१॥इत्युक्ता बद्रिके सर्वे तुष्टा आनन्दमोदिताः।ययुः कथास्थलं नीत्वा कुसुमान्यतिभावतः ॥५२॥नेमुस्ते दूरतः स्थित्वा सभायां सम्प्रविश्य ते ।संहितायाः पूजनं वै चक्रुः पुष्पादिभिस्ततः ॥५३॥निषेदुः श्रवणार्थं ते यावत् कथाप्रवाचनम् ।कथान्ते लोमशं गत्वा नेमुः पादजलं पपुः ॥५४॥वृत्तान्तं कथयामासुर्मार्गे कृष्णकृतावनम् ।यश्चासीदुष्ट्रश्रेष्ठी वै स तु कृष्णनरायणः ॥५५॥भगवान् श्रीहरिरस्मान् कथास्थानं समानयत् ।तत्प्रपत्तिं समिच्छामो देहि मन्त्रं सुपावनम् ॥५६॥इत्यर्थितो लोमशस्तान् श्रावयामास सन्मनुम् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥५७॥तथा तत्रैव धुन्याऽर्थं ददौ नाम हरेस्तदा ।'कृष्णनारायणकृष्णनारायणपरेश्वर ॥५८॥बालकृष्णाऽनादिकृष्णनारायण रमेश्वर ।व्रतं ददौ मद्यहीनं जीवनं तेभ्य इत्यथ ॥५९॥भोजनादिव्यवस्थां च तेषां श्रीलोमशो मुनिः ।राजमहानसाच्चक्रे नित्यं कुट्यां निवासनम् ॥६०॥एवं ते बद्रिके तत्र समूषुः सर्वदा सुखम् ।सेवां चक्रुः सतां तत्र पात्रादिमञ्जनं तथा ॥६१॥मार्जनं क्षालनं वस्त्वानयनं च कथास्थले ।महीमानादिदेहानां संवाहनं प्रचक्रिरे ॥६२॥श्रुत्वा कथां सेवयित्वा साधूनाशीर्वचोऽमृतैः ।विधूय सर्वपापानि कृष्णप्रसादभोजनैः ॥६३॥निर्मलास्ते समस्ता वै जाताः कृष्णपरायणाः ।पुण्यात्मानः परा भक्ता आत्मनिवेदिनो यथा ॥६४॥संस्मरन्त्युष्ट्रपालं तं श्रीकृष्णं वल्लभात्मकम् ।जगत्स्वप्नसुषुप्त्यादावुष्ट्रपालो विलोक्यते ॥६५॥तच्चित्तास्तद्ध्यानमग्नास्तस्मिन्निन्द्रियवृत्तयः ।तद्योगस्थास्तत्स्मरास्ते तन्मया दिव्यभावनाः ॥६६॥अभवन् स्वल्पकालेन महाभागवतोत्तमाः ।कृष्णनारायणस्तेभ्यो बद्रिके स्वप्नगोचरः ॥६७॥भूत्वोष्ट्रपालकः साक्षान्नारायणः प्रियःपतिः ।शंखचक्रगदापद्मधारी भवति तत्क्षणे ॥६८॥एवं ददाति नित्यं वै दर्शनं भक्तिबन्धनः ।स्नेहपाशधृतः कृष्णस्तान्नेतुं समुपाययौ ॥६९॥दिव्यविमानमारुह्य दिव्यप्रभायुतः प्रभुः ।अवातरद् विमानात्स पौषस्यैकादशीदिने ॥७०॥शुक्लपक्षे पश्यतां यावतां वै भक्तदेहिनाम् ।मिष्टासवस्तथा भार्या लियारी पुत्रपुत्रिकाः ॥७१॥विलोक्य त्वागतं कृष्णं वल्लभं परमेश्वरम् ।सहसोत्थाय चरणौ नत्वा चक्रुर्हि दण्डवत् ॥७२॥लिलिहुश्चरणौ तस्य जिह्वयाऽऽधारयन् रजः ।शरीरेषु ततः कृष्णमार्थयन् मोक्षसिद्धये ॥७३॥कृपालुर्भगवानाह सज्जा भवन्तु वै द्रुतम् ।नयामि दिव्यदेहान् वै युष्मान् धामाऽक्षरं मम ॥७४॥इत्युक्तमात्रास्ते सर्वेऽर्पिताः कृष्णस्य पादयोः ।अभवन् पश्यतां सर्वलोकानां न्यपतन् क्षितौ ॥७५॥भौतिकानि शरीराणि त्यक्त्वा भूत्वा हरीच्छया ।दिव्या मुक्तस्वरूपास्ते कृष्णतुल्यशरीरिणः ॥७६॥कृष्णाज्ञया निषेदुस्ते द्रुतं दिव्यविमानकम् ।भजन्तः श्रीकृष्णनारायणं नत्वा सभां शुभाम् ॥७७॥जयशब्दोच्चारयुक्ता विमानेनाऽक्षरं पदम् ।श्रीकृष्णेन समं बद्रि ययुर्मुक्तस्वरूपिणः ॥७८॥बभूवुः कन्यकास्तास्तु माता मुक्तानिकास्तथा ।पुत्राः पिता च मुक्तास्ते ययुर्धामाऽक्षरं हरेः ॥७९॥इत्येवं बद्रिके कृष्णनारायणो जगद्रुरुः ।दीनाऽनाथदरिद्राणामुद्धारकोऽस्ति सर्वदा ॥८०॥शरणागतरक्षायां तत्परोस्ति सदा प्रभुः ।अनवेक्ष्य तु पापानि पापिनां दुर्गुणाँस्तथा ॥८१॥शरण्यः शरणायातान् कथाश्रवणपावनान् ।अनुग्रहेण कृपया तान्नयत्यक्षरं पदम् ॥८२॥मद्यपानरताँस्ताँश्च नरान्नारीः समस्तकान् ।पावयित्वा प्रभुर्निन्ये कृपया स्वाऽक्षरं पदम् ॥८३॥गणयत्येव नैवाऽयं करुणासागरः प्रभुः ।पापानि पापिनां लोके नयत्यव्ययमक्षरम् ॥८४॥आश्चर्यं परमं प्राप्ता लोका वीक्ष्य चमत्कृतिम् ।दीनबन्धुरहो कृष्णः स्वयमुद्धारयत्यपि ॥८५॥ददाति दर्शनं नैजं ददाति वस्तु वाञ्छितम् ।कृत्वा शुद्धान् याम्यदुःखं विनाश्य शरणागतान् ॥८६॥स्वयं नयति दिव्येन विमानेन निजं पदम् ।अहो भाग्यमहो भाग्यं कथाश्रवणकारिणाम् ॥८७॥मासमात्रेण मुक्तिं स करोति भवपाशतः ।संहिता श्रीकृष्णरूपा लक्ष्मीरूपाऽस्ति शाब्दिकी ॥८८॥प्रतिमा तां सेवयित्वा स्वर्गं मोक्षं च विन्दति ।पठनाच्छ्रवणादस्य मुक्तो भवेन्न संशयः ॥८९॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन मद्यपस्य मिष्टासवध्वजिकुटुम्बस्य मार्गे लुण्टकप्राप्तकष्टस्य श्रीहरिणा मार्गे श्रेष्ठिरूपेण रक्षितस्य मोक्षणं कृतमित्यादिनिरूपणनामाऽष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP