संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि मातरं बालयोगिनी ।ततश्च पुनरुत्कर्षं प्राह ब्रह्मरसस्य सा ॥१॥भद्रग्रामे मालियानो मालाकारोऽभवत् पुरा ।मालियानस्य भार्याऽभून्मल्लिकाश्रीतिनामिका ॥२॥उद्यानं पोषयन्तौ तौ फलादिविक्रयार्थिनौ ।पुष्पमालादिकर्तारौ भक्तौ तौ सम्बभूवतुः ॥३॥यत्र यत्र श्रुतवन्तौ परितस्तौ सुरालयान् ।सौराष्ट्रे तौ गतवन्तौ सुरपूजां प्रचक्रतुः ॥४॥सूर्यं दामोदरं सोमनाथं श्रीगोपनाथकम् ।गुप्तप्रयागं चाऽप्यश्वपट्टसरश्च रैवतम् ॥५॥चमत्कारं द्वारवतीं प्रजग्मतुः पुपूजतुः ।पुष्पहारफलाद्यैश्च तुलसीदलगुच्छकैः ॥६॥कमलैर्विविधैश्चापि स्थलपद्मैर्जलाब्जकैः ।मालत्यादिकुसुमैश्च पारिजातादिपुष्पकैः ॥७॥चम्पकैर्बकुलैश्चापि वल्लीपुष्पैस्तृणेशजैः ।तथा च कदलैर्मिष्टैर्नवरंगादिभिश्च वै ॥८॥चन्दनैः शीतलैश्चापि केसरादिसुमिश्रितैः ।पुष्पाणां बहुरूपाणां बहुसुगन्धशालिनाम् ॥९॥अपर्युषितभावानां दिव्यानां चित्तकर्षिणाम् ।ऊष्णीषं प्रच्छदपटीं चतुष्फालं च धोत्रकम् ॥१०॥सुरवालं प्रावरणं कम्बलं चांगरक्षकम् ।शाटीं च घर्घरीं वक्षोबध्निकां कचलीनिकाम् ॥११॥कुचलीं कर्पटीं चौलीं चौलं त्वन्तःपटीं तथा ।एवमादीनि वस्त्राणि पौष्पाण्येव विधाय तौ ॥१२॥तत्र तत्र शुभे तीर्थे तद्देवीदेवमूर्तये ।अर्पयामासतुः प्रेम्णा धारयामासतुर्हृदा ॥१३॥अर्हयामासतुर्देवं देवीं राधारमाप्रियाः ।माधवीकृष्णविष्णुश्रीनारायणाऽर्कशंकरान् ॥१४॥सर्वकौसुमवेषान् संक्लृप्त्वा ददतुर्मूर्तये ।मूर्तिस्था देवता देव्यो गणेशाद्या हरिस्तथा ॥१५॥देविकाद्याः प्रसन्ना वै भवन्ति भक्तिवीक्षकाः ।अथ भूषा समस्ताश्च पुष्पमयीर्विधाय तौ ॥१६॥अर्पयामासतुर्नित्यं देवेभ्यो भक्तिशालिनौ ।मुकुटं ग्रथितं पुष्पैः कुण्डले कर्णपूरकौ ॥१७॥गच्छौ च कन्दुकं हारान् मालाश्च कटकौ शुभौ ।शृंखला विविधाश्चापि रशनाः कटिसूत्रकम् ॥१८॥केशहारान् स्तनपत्रे भालपत्रे च तन्तिकाम् ।शिखामणिं तथा चूडामणिं कौस्तुभमुत्तमम् ॥१९॥पादयोर्झंझरीश्चापि चक्राणि चोर्मिकास्तथा ।नक्तकं केशपूराँश्च तथा धम्मिलमालिकाः ॥२०॥कबरीस्रक् नाभिचन्द्रौ तथानितम्बचन्द्रकौ ।सक्थिमालाः शुभाः प्रकोष्ठपत्राणि च मञ्जरीः ॥२१॥पृष्ठसूर्यां कण्ठपत्रां चैवंविधानि यान्यपि ।भूषणानि भवन्त्येव तानि सर्वाणि तावुभौ ॥२२॥विधाय विविधैः पुष्पैः कलाकौशल्यशालिनौ ।तीर्थदेवान् स्नेहभक्त्या मुदा शृंगारशोभितान् ॥२३॥चक्रतुस्तौ प्रत्यहं वै गत्वा गत्वा सुरालयान् ।श्रद्धा प्रवर्धते नित्यं सुखं तयोः प्रवर्धते ॥२४॥ख्यातिः प्रवर्धते दिव्या पुण्यं प्रवर्धतेऽव्ययम् ।पूजां प्रकुर्वतोः पौष्पैस्तयोर्हरेरनुग्रहः ॥२५॥देवानां कृतपूजानां प्रसन्नताऽपि वर्धते ।एवं तौ बहुपुण्यौ वै जातौ प्रियतमौ तथा ॥२६॥अखिलानां तु देवानां पुष्पपूजादिकारिणौ ।आशीर्वादाऽतिपात्रत्वं प्राप्तौ देवाद्यनुग्रहम् ॥२७॥अथैकदा हरिः साक्षाद् दातुमियेष दर्शनम् ।कुंकुमवापिकाक्षेत्रे पूजयन्तौ निजं यदा ॥२८॥अश्वपट्टसरस्तीरे याः सन्ति दिव्यमूर्तयः ।मन्दिराणि समस्तानि देवालयास्तथा शुभाः ॥२९॥तत्र तत्र हरिस्तस्मै मूर्तिद्वारा चमत्कृतिम् ।दर्शयितुं पाययितुं ब्रह्मरसं मधुप्रभम् ॥३०॥दातुमियेष तौ दिव्यं दर्शनं प्रतिमोद्भवम् ।अनादिश्रीकृष्णनारायणः स्वर्णालये यदा ॥३१॥प्रातस्ताभ्यां पूजितो वै पुष्पशृंगारकाऽम्बरैः ।तदा स मानवः कृष्णो बभूवाऽक्षरधामगः ॥३२॥उपविष्टो दिव्यगजासने चाक्षरधामनि ।दिव्यभूषाम्बरहेतिशृंगारकौतुकान्वितः ॥३३॥असंख्यमुक्तसञ्जुष्टोऽनन्तमुक्तानिकाऽर्चितः ।अवतारी ह्यसंख्यानामवतारादिवर्ष्मणाम् ॥३४॥अनन्तैश्वर्यसामर्थ्याश्चर्यशक्तिप्रपूर्णकः ।राजाधिराजशोभश्च सर्वतत्त्वनियामकः ॥३५॥अनन्तगाढतेजोभिः पूर्णमूर्तिः परात्परः ।एवं भूत्वा हि भगवान् ब्रह्मतेजो ह्यदर्शयत् ॥३६॥गुणातीताऽक्षरब्रह्म सर्वतेजःप्रकारणम् ।असौमाऽसंख्यभायुक्तं व्यापकं मूर्तिनिःसृतम् ॥३७॥मालियानाय मल्लिकाश्रियै प्रदर्श्य धाम तत् ।तत्राऽऽक्षरीं दिव्यभूमिं तैजसीं शान्तशीतलाम् ॥३८॥महानन्दमयीं दिव्यपीयूषसलिलां शुभाम् ।शुद्धचैतन्यरूपां तामक्षरब्रह्ममूर्तिजाम् ॥३९॥दर्शयामास भगवान् धामेशश्रीनरायणः ।आक्षरं नगरं नैजं दर्शयामास माधवः ॥४०॥अनन्तमुक्तवसतिं दर्शयामास तौ ततः ।दिव्यसमाधौ तौ नीत्वा दर्शयामास वाटिकाम् ॥४१॥भद्रायनं शुभं ग्रामं महोद्यानं च कौसुमम् ।दर्शयामास भगवान् यत्पुष्पैः पूज्यते हरिः ॥४२॥मालियानस्य मल्लिकाश्रिया उद्यान उत्तमः ।वर्तते त्वक्षरे तत्र फलपुष्पद्रुमात्मकः ॥४३॥शाश्वतो दिव्यफलदो दिव्यमधुरसप्रदः ।दिव्यपुष्पोद्भवमिष्टमकरन्दरसप्रदः ॥४४॥तौ प्रदर्श्य तमुद्यानं हरिः प्राह शुभं वचः ।पृथ्व्यां यदर्पितं मह्यं तत्सर्वं वाटिकादिकम् ॥४५॥उद्यानजन्यपुष्पादि महोद्यानफलादिकम् ।सर्वं वां शाश्वतं त्वत्र विद्यते कुरुतं निजम् ॥४६॥कल्पद्रुमा रसैः पूर्णा भवन्त्यत्र हि शाश्वताः ।मिष्टफलप्रदाः सन्ति पिबतं तद्भवामृतम् ॥४७॥मिष्टफलानामदनं कुरुतं दिव्यतृप्तिदम् ।इत्युक्त्वा भगवाँस्ताभ्यां पाययामास तद्रसम् ॥४८॥फलाहारं प्रसादेन कारयामास तत्क्षणम् ।पुष्पशृंगाररचनामर्पयामास तौ प्रभुः ॥४९॥दिव्यं नैजं सुखं मिष्टं शाश्वतं मोदनन्दितम् ।महानन्दमयं सर्वं ददौ ताभ्यां प्रभुः स्वयम् ॥५०॥यो रसः शंकरे नास्ति नाऽजे नाऽपीश्वरेष्वपि ।न विष्णौ नाऽवतारेषु न मुक्तेष्वपि यो रसः ॥५१॥रसो यो वर्तते कृष्णतादात्म्यभाविमात्रके ।कृष्णमूर्तौ सदा त्वास्ते कृष्णाभिन्ने च वर्तते ॥५२॥कृष्णांगनायां राधाश्रीप्रज्ञामाधविकादिषु ।ब्रह्मप्रियासु सर्वासु हरिप्रियासु यो रसः ॥५३॥श्रीलक्ष्मीकमलापद्मामाणिक्याललितादिषु ॥यो रसो वर्तते नित्यप्रेमानन्दमहोदधिः ॥५४॥स्नेहाकर्षणतादात्म्याऽद्वयाऽऽनन्दसुखोदधिः ।सर्वभानप्रभानादिलयमूर्छातिमूर्छनः ॥५५॥सर्वेन्द्रियाऽन्तःकरणाकृष्टिपिण्डैक्यरूपधृक् ।एकतानमहानन्दाऽविच्छिन्नमुत्प्रवाहणः ॥५६॥एतादृशं परब्रह्ममहानन्दरसं हरिः ।अंके कृत्वा च तौ भक्तौ पाययामास मूर्तिजम् ॥५७॥ततश्चोद्यानवृक्षाणां पाययामास तन्मधु ।मकरन्दं च पुष्पाणां पाययामास गन्धिनम् ॥५८॥कारयामास तृप्तिं तौ तत्रैवाऽक्षरधामनि ।अथोत्थाप्य समाधेस्तौ दर्शयामास भूतलम् ॥५९॥कुंकुमवापिकाक्षेत्रं मानवं विग्रहं निजम् ।बालकृष्णालयं दिव्यं साप्तभौमं सुवर्णजम् ॥६०॥अथोत्थितौ तौ सहसा प्रणेमतुर्हरिं मुहुः ।अमूल्याऽपूर्वलावण्यामृतरसप्रपूरितम् ॥६१॥स्तुत्वा नत्वाऽर्चयित्वैव लब्ध्वा तृप्तिं तु शाश्वतीम् ।विसर्जितौ श्रीहरिणा ययतुर्मन्दिराद् बहिः ॥६२॥दिव्यभावान्वितौ पुष्पहारशृंगारकान्वितौ ।अश्वपट्टसरस्तीरे देवानामर्हणाय तौ ॥६३॥ययतुः पश्चिमाद् भागाद् उत्तरां दिशमुत्सुकौ ।शंकरं क्षेत्रपालं चाऽर्चयामासतुरीश्वरीम् ॥६४॥मूर्तित्रये हरिकृष्णं वीक्षयामासतू रमाम् ।त्रिकं धृत्वा करे पात्रं महामृतरसान्वितम् ॥६५॥पाययामास ताभ्यां वै परब्रह्मरसं परम् ।गणेशं कार्तिकं दुर्गा रुद्रं पुपूजतुस्ततः ॥६६॥तेषु देवेषु भगवान् कृष्णनारायणप्रभुः ।प्राप्य पूजां पुष्पमयीं पाययामास तौ रसम् ॥६७॥कुबेरैन्द्राग्निधर्मादीन् पुपूजतुश्च तौ ततः ।तेषु देवेषु भगवान् स्वामीश्रीनरवल्लभः ॥६८॥लब्ध्वा पूजां दिव्यरूपः पाययामास तौ रसम् ।सूर्यचन्द्रगुरुप्रभृतीन् देवान् तौ पुपूजतुः ॥६९॥तेषु देवेषु भगवान् स्वामी कृष्णनरायणः ।पूजां संगृह्य तौ तत्र पाययामास तद्रसम् ॥७०॥ब्रह्मविष्णुमहेशादिप्रतिमापूजनं च तौ ।व्यधातां तेषु देवेषु कृष्णनारायणप्रभुः ॥७१॥पूजां संगृह्य तौ तत्र पाययामास तद्रसम् ।पितृप्रतिमापूजां च प्रचक्रतुस्ततश्च तौ ॥७२॥तेषु स्वामिकृष्णनारायणश्रीकृष्णनन्दनः ।पूजां संगृह्य तौ भक्तौ पाययामास तद्रसम् ॥७३॥सिद्धर्षिमूर्तिषु ताभ्यां पूजितासु प्रमापतिः ।पूजां संगृह्य तौ दिव्यं पाययामास तद्रसम् ॥७४॥ईश्वराणामीश्वरीणां मूर्तिषु माधवीपतिः ।प्रतिमासु परां पूजां लब्ध्वा पौष्पीं च तद्रसम् ॥७५॥पाययामास ताभ्यां श्रीकान्तं कृष्णनरायणः ।मुक्तानिकासु मुक्तेषु चावतारेषु मूर्तिषु ॥७६॥पार्षदेषु च गोपेषु गोपीषु शारदादिषु ।समस्ततीर्थदेवेषु प्रतिमासु कृतार्हणाम् ॥७७॥प्राप्य स्वामिहरिकृष्णो बालकृष्णोऽक्षराधिपः ।ताभ्यां ब्रह्मरसं दिव्यं पाययामास पानवत् ॥७८॥हसन् पात्रं करे धृत्वा ब्रह्मरसप्रपूरितम् ।अन्यहस्तं न्यस्य मूर्ध्नि तौ संस्पृश्याऽङ्कसंस्थितौ ॥७९॥आधाय चौष्ठयोः पात्रं पाययामास तद्रसम् ।घटुकैर्घटुकैः कृष्णः प्रेमरसं तु शाश्वतम् ॥८०॥पाययामास मूर्तिस्थस्ताभ्यां पूजाफलात्मकम् ।अश्वपट्टसरस्तीरे ये देवास्तीर्थवासिनः ॥८१॥ईश्वराश्चावताराश्च महर्षयश्च साधवः ।सिद्धाः साध्व्यः पार्षदाश्च शक्त्यो ब्रह्मयोषितः ॥८२॥तत्र सर्वत्र भगवान् कृष्णनारायणो हरिः ।दिव्यं स्वं दर्शनं दत्वा पाययामास तौ रसम् ॥८३॥एवं तं मालियानं च मल्लिकाश्रीं हरिः स्वयम् ।कृपया पाययामास परब्रह्मरसं निजम् ॥८४॥तेन तौ दिव्यतां प्राप्तौ ब्रह्मधामादिमुक्तवत् ।दिव्यदेहौ हि सम्पन्नौ तदा मायांशवर्जितौ ॥८५॥पुष्पफलादिसेवायाः फलं दिव्यं प्रजग्मतुः ।परब्रह्मरसपानात् कायाकल्पो व्यजायत ॥८६॥पाञ्चभौतिकतत्त्वानि व्यलीयन्त तयोस्ततः ।इन्द्रियाणि समस्तानि चैतन्यानि तदाऽभवन् ॥८७॥अन्तःकरणमेवाऽपि नित्यज्ञानात्मकं ह्यभूत् ।मायांशो विलयं प्राप्य ब्रह्मांशः समजायत ॥८८॥सर्वांशाः सम्परावृत्त्य ब्रह्मांशास्त्वभवँस्तदा ।नित्यतृप्तौ महानन्दपूर्णौ तौ सम्बभूवतुः ॥८९॥सप्ताशीतिसहस्राणि वर्षाणां चायुषोऽन्तरे ।पूजां कृत्वा दिव्यभावं गते ते मालिमल्लिके ॥९०॥दिव्यदेहौ षोडशाब्दवयस्कौ तौ बभूवतुः ।बालकृष्णसमौ रूपे युगलौ संबभूवतुः ॥९१॥अथ वैराग्ययुक्तौ तौ पृथ्व्युद्यानगृहादिषु ।ब्रह्मपारदृशौ तूर्णं चार्थयामासतुर्हरिम् ॥९२॥न भद्रायननगरं न भूमिर्न दिवं तथा ।नौ सत्यं रोचते नापि नैशलोकादि सात्त्विकम् ॥९३॥विना त्वत्पादसेवायुग्धामाऽक्षरनिवासनम् ।तस्माद् रक्षय नौ कृष्ण यथेष्टं त्वक्षरे पदे ॥९४॥कुंकुमवापिकाक्षेत्रे दिव्येऽक्षरेऽत्र तत्र वा ।अर्पितौ स्वश्चरणयोस्तव श्रीकान्त सर्वदा ॥९५॥इत्यभ्यर्थ्य क्षणं मौनं जगृहतुस्ततो हरिः ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९६॥इतिमन्त्रं ददौ ताभ्यां विमानं च ददौ शुभम् ।पार्षदैर्वाहितं दिव्यं प्रेषयामास चाऽक्षरम् ॥९७॥कृपया श्रीहरेस्तौ वै तेनैव वर्ष्मणा ततः ।परब्रह्मरसं पीत्वा ययतुर्धाम चाक्षरम् ॥९८॥स्नात्वा ब्रह्मह्रदे सीम्नि विविशतुस्ततोऽक्षरम् ।मुक्तौ चरणसेवायां वर्तमानौ बभूवतुः ॥९९॥इत्येवं मातरं बद्रि प्राह सा बालयोगिनी ।परब्रह्मरसानन्दमाहात्म्यं दिव्यमुक्तिदम् ॥१००॥विरराम क्षणं साऽपि माता व्यचिन्तयद् रसम् ।अनादिश्रीकृष्णनारायणात् प्राप्यं हि सेवया ॥१०१॥उत्कर्षं परमं ज्ञात्वा धारयामास तं हृदि ।यत् कृप्वाऽपि सती नारी प्राप्नुयात् परमं पदम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिन्या मात्रे कथितं मालियानमल्लिकाश्रीभ्यां मालाकाराभ्यां पुष्पफलादिसेवया तेनैव वर्ष्मणा परब्रह्मरसाऽवाप्त्या दिव्यतोत्तरं ब्रह्माऽक्षरधाम शाश्वतं चाऽपुनरागमाय प्राप्तमितिनिरूपणनामाऽष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP