संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ११९

तिष्यसन्तानः - अध्यायः ११९

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
बद्रिके ता या यत्र विमानेन ययुः स्त्रियः ।
तत्र तत्रेश्वरलोके प्रतिगृहं हरिं पतिम् ॥१॥
व्यलोकयन् स्वर्गलोके सत्यादौ परमेश्वरम् ।
वैराजेषु तथा चेश्वराणां लोकेषु सर्वशः ॥२॥
धामस्वप्यवताराणां प्रतिमुक्तं हरिं पतिम् ।
व्यलोकयन् तथा ताश्चाऽक्षरे धाम्नि गृहे गृहे ॥३॥
सर्वदुर्गान्तरसृष्टौ प्रतिमुक्तं हरिं पतिम् ।
प्रतिगृहं तथाऽनादिकृष्णनारायणालयम् ॥४॥
महोलेषु तथा कृष्णहृदयेऽपि च मन्दिरम् ।
प्रतिमुक्तं प्रतिमूर्तिं व्यलोकयन्निजं प्रभुम् ॥५॥
विनाऽनादिकृष्णनारायणं तद्धृदयेऽपि च ।
मुक्ता नैव हि वर्तन्ते मूर्तौ यत्कोटिमूर्तयः ॥६॥
असंख्यमूर्तयस्तत्र प्रतिमुक्तं भवन्त्यपि ।
त्वया दृष्टं तदा तत्र मया दृष्टं तथा तदा ॥७॥
तादात्म्यतामवाप्स्यन्ति ये ते द्रक्ष्यन्ति तत्तथा ।
अन्येषां दर्शनं चापि नैव भवति तादृशम् ॥८॥
सर्वोत्कृष्टा मूर्तिगर्भसृष्टिस्तादात्म्यसंज्ञिका ।
द्वितीया तु परे धाम्नि रहस्यभावसृष्टिका ॥९॥
तृतीया तु परे धाम्नि महामुक्तमयी हि सा ।
चतुर्थी तु परे धाम्नि मुक्तसृष्टिः समानिका ॥१०॥
अष्टदुर्गमयी सर्वा परब्रह्मपरायणा ।
पञ्चमी त्वक्षरे धाम्नि सृष्टिश्चाऽक्षरमुक्तिगा ॥११॥
षष्ठी सर्वावताराणां धाममयी तदात्मिका ।
सप्तमी चेश्वराणां तु सृष्टिः सत्त्वमयी शुभा ॥१२॥
अष्टमी तु त्रिगुणानां सृष्टिर्मायामयी तथा ।
नवमी शंकरब्रह्मविष्णूनां सृष्टिरुत्तमा ॥१३॥
दशमी सिद्धकोटीनां सृष्टिः साधुमयी शुभा ।
एकादशी तु पितॄणां द्वादशी द्युनिवासिनाम् ॥१४॥
त्रयोदशी महर्षीणां मानवानां च बद्रिके ।
चतुर्दशी तिरश्चां तु पञ्चदशी तु शाखिनाम् ॥१५॥
षोडशी गुणधर्माणां सृष्टयः षोडश त्विमाः ।
असृष्टिः परमात्माऽसावनादिपुरुषोत्तमः ॥१६॥
सर्वसृष्टिधरो नाथः सर्वान्तर्यामिकः प्रभुः ।
अन्वितः सर्वसाक्षी चाऽनन्वितस्तु स्वराट् परः ॥१७॥
अन्विताऽनन्वितमिश्रोऽवतारादिस्वरूपधृक् ।
मोक्षदो भक्तसुखदो धर्मस्थापनविग्रहः ॥१८॥
नामिरूपिजगतां स नेता हन्ता तदन्वितः ।
इत्येषां सम्प्रविज्ञायोपनिषदं तु षोडशीम् ॥१९॥
विरज्येत विमुच्येत प्रयायात् परमं पदम् ।
न तस्य पुनरावृत्तिर्य एवं वेद षोडशीम् ॥२०॥
श्रीबद्रीप्रियोवाच-
कुंकुमवापीमागत्य भगवान् पुरुषोत्तमः ।
किं चकार तदाचक्ष्व नरनारायणप्रभो ॥२१॥
श्रीनरनारायण उवाच-
अनादिश्रीकृष्णनारायणश्चागत्य भूतले ।
कुंकुमवापिकाक्षेत्रे चातुर्मास्यव्रतं व्यधात् ॥२२॥
अष्टाविंशतितमके निजप्राकट्यकेऽहनि ।
ऊर्जकृष्णाष्टमीप्रातःकाले निजोत्सवोत्तरम् ॥२३॥
ददौ दानानि भगवान् स्वर्णरत्नगवां तथा ।
प्रासादानां रूप्यकाणां रजतानां द्विजातये ॥२४॥
पात्राणां चापि रत्नानां मणीनां वाजिनां तथा ।
विमानानां च यानानां गजानां विप्रजातये ॥२५॥
ददौ दानानि भगवान् वस्त्राणां स्वर्णयोगिनाम् ।
भूषणानां समस्तानां पर्यंकानां सुवर्चसाम् ॥२६॥
मुकुटानां कटकानां शृंखलानां विशेषतः ।
मौक्तिकानां स्फटिकानां गोमेदानां सुतेजसाम् ॥२७॥
ददौ दानानि भगवान् पादुकानां स्रजां तथा ।
छत्राणां चामराणां च वेत्राणां स्वर्णपत्रिणाम् ॥२८॥
सिंहासनानां पेटानां मञ्जुषाणां ददौ हरिः ।
कपाटानां वृसीनां च खष्ट्वानां सिंहचर्मणाम् ॥२९॥
गजव्याघ्रर्क्षहरिणद्विपिगवयचर्मणाम् ।
ददौ दन्तोत्थवस्तूनां दानानि बालकृष्णकः ॥३०॥
कम्बलानां कञ्चुकीनां कञ्चुकानां च वर्मणाम् ।
शस्त्राणां च वितानानां भूस्तराणां विशेषतः ॥३१॥
कौशेयानामम्बराणां धौत्राणां मूर्द्धवाससाम् ।
सुकञ्चूना कटिस्थानां रशनानां ददौ प्रभुः ॥३२॥
गेन्दुकानां चक्रकाणां कशिपूनां च तूलिनाम् ।
तुलानां मुसलानां चोलूखलानां जलभृताम् ॥३३॥
प्रेङ्खाणां बालदोलानां घटानां च विशेषतः ।
स्थालीनां वाटिकानां च पेषणीनां तथा ददौ ॥३४॥
चुल्लीनां व्यजनानां च यन्त्राणां पादरक्षिणाम् ।
कवचानामूर्मिकानां बाणानां धनुषां तथा ॥३५॥
शराणां चापि खड्गाणां मुद्गराणां प्रविद्युताम् ।
रज्जूनां दर्पणानां च केशप्रसाधनार्थिनाम् ॥३६॥
ददौ दानानि च गुप्तदोरकाणां जनार्दनः ।
क्षेत्राणां वाटिकानां च महिषीणां पयोमुचाम् ॥३७॥
सस्यानां च कणानां च शुभान्नानां विशेषतः ।
कलभानां शाखिनां च फलिनां पुष्पिणां तथा ॥३८॥
धनानां कलशानां च यूपानां चापि सम्पदाम् ।
गृहोपकरणानां च शय्यानां परमाऽनसाम् ॥३९॥
उद्यामाऽऽरामवापीनां शकटानां ददौ हरिः ।
शिबिकानां मण्डपानां पटमण्डपरूपिणाम् ॥४०॥
परभित्तिगृहाणां च वरूथानां विशेषतः ।
पल्याणानां च दानानि कूपाऽम्बालिकशृंगिणाम् ॥४१॥
निःश्रेणीनां चतुष्पादघोटीनां पट्टसेविनाम् ।
द्रोणीनां गर्गरीणां च कुसुलानां विशेषतः ॥४२॥
तोरणानां प्रदीपानां घण्टानां वाद्यनामिनाम् ।
ददौ दानानि च वीणाविपञ्चीनां जनार्दनः ॥४३॥
कण्ठीनां कन्यकानां च कोशानां भृत्ययोषिताम् ।
दासानां चापि दासीनां ददौ दानानि गोधनो ॥४४॥
तालानां पञ्चपात्राणां शाटीनां पयसां तथा ।
नक्तकानां प्रगुच्छानां पूगानां मुखवासिनाम् ॥४५॥
लेखिनीनां च वेदानां विद्यानां दानकान्यपि ।
महानसीयवस्तूनां सभास्थानोपयोगिनाम् ॥४६॥
महोत्सवादिवस्तूनां ददौ दानानि वै हरिः ।
धातूनां सर्वजातीनां दंशमत्सरनाशिनाम् ॥४७॥
वस्त्रशय्यावितानानां ददौ दानोत्तमानि सः ।
पिष्टानां पेटिकानां च नावां सौवर्णपक्षिणाम् ॥४८॥
आसनानां चतुष्कीणां ददौ दानानि माधवः ।
घर्घरीणां झल्लरीणां स्त्रीभूषाणां समस्ततः ॥४९॥
मखपात्रोपपात्राणां ददौ दानानि गोपजः ।
वृषभाणां वत्सकानां वत्सिकानां विशेषतः ॥५०॥
स्थालानां कुण्डिकानां च हीरकाणां ददौ प्रभुः ।
शर्कराणां च गूडानां मिष्टानां मधुगन्धिनाम् ॥५१॥
मधूनां नवनीतानां घृतानां च ददौ प्रभुः ।
द्विदलानां च धान्यानामक्षतानां ददौ तथा ॥५२॥
गोधूमानां चणकानां मुद्गानां परमेश्वरः ।
मुन्यन्नानां तथा कमण्डलूनां श्रेष्ठरूपिणाम् ॥५३॥
दर्वीनां स्रुक्स्रुवादीनां चमचीनां ददौ प्रभुः ।
महास्थालाऽतिशालानां शिरस्त्राणादिबन्धिनाम् ॥५४॥
राजवेषादिवेषाणां ददौ दानानि बद्रिके ।
कार्पासानां शणानां च माषाणां च रमेश्वरः ॥५५॥
सक्तूनां राजमाषाणां कङ्गूनां प्रददौ तथा ।
रसानां चापि गन्धानां चन्दनानां द्रवात्मनाम् ॥५६॥
कस्तूरीणां तथा श्रेष्ठकर्पूराणां ददौ प्रभुः ।
एलालवंगजावंत्रीजायफलादिगन्धिनाम् ॥५७॥
राजिकाशुण्ठिकातिक्तकटूनां दानकान्यपि ।
भक्ष्याणां चापि भोज्यानां लेह्यानां चूष्यतावताम् ॥५८॥
चर्वणार्हकणानां च लवणानां ददौ तथा ।
वेषवारोत्तमानां च कन्दानां शाकपत्रिणाम् ॥५९॥
आरनालादिमूलानामिक्षूणामम्ब्लपुष्पिणाम् ।
तक्राणां च चरूणां च क्षीराणां दानकानि च ॥६०॥
शुकानां पञ्जरस्थानां मेनकानां च पक्षिणाम् ।
सारिकाणां घातकानां गरुडानां ददौ प्रभुः ॥६१॥
कोकिलानां तित्तिराणां भारद्वाजादिपक्षिणाम् ।
मयूराणां च हंसानां मृगाणां बहुशृंगिणाम् ॥६२॥
घोटकानां तथोष्ट्राणां ददौ दानानि दानकृत् ।
देवानां च प्रतिमानां जीविकानां तथा ददौ ॥६३॥
पुत्तलीनां तथाऽन्येषां पुत्तलानां ददावपि ।
ब्रह्माण्डानां घटानां च गुप्तदानानि वै ददौ ॥६४॥
शालानां मन्दिराणां च संहितानां ददौ तथा ।
शिरस्त्राणोष्णिषां प्रावरणानां कल्पशाखिनाम् ॥६५॥
कल्पलतानां दानानि ददौ श्रीपरमेश्वरः ।
वज्रमणीन् ददौ मुक्तामणीन् सुपद्मरागकान् ॥६६॥
इन्द्रनीलान्मरकतान् वैदूर्यान् प्रददौ हरिः ।
कर्केतनान् पुष्परागान् भीष्मकाँश्च मणीन् ददौ ॥६७॥
पुलकान् रुधिरान् सर्वान् स्फटिकान् प्रददौ प्रभुः ।
विद्रुमान् कौस्तुभान् चिन्तामणीन् ददौ परेश्वरः ॥६८॥
माणिक्यान् चन्द्रहासाँश्च पारशान् स्वर्णदाँस्तथा ।
सूर्यकान्तान् दिव्यकाचान् काचयन्त्राणि दीपिकाः ॥६९॥
तैजसीर्हाण्डिकाश्चापि झुम्भरान् बहुशोभगान् ।
प्रददौ सर्वशः कृष्णनारायणो द्विजातये ॥७०॥
कन्याभ्यो बहुरत्नानि कुमारेभ्योऽपि वै ददौ ।
दीनाऽनाथाऽतिथिभिक्षुसद्भ्यो ददौ प्रभेश्वरः ॥७१॥
हिरण्यपर्वतदानं तिलपर्वतमार्पयन् ।
सुवर्णमेदिनीदानं कल्पपादपदानकन् ॥७२॥
हेमधेनुप्रदानं च स्वर्णलक्ष्मीप्रदानकम् ।
तिलधेनुप्रदानं च गोसहस्रप्रदानकम् ॥७३॥
हिरण्याऽश्वप्रदानं च चक्रे पद्मावतीश्वरः ।
कन्यादानानि दीनानामदापयत् सतीपतिः ॥७४॥
हिरण्यवृषदानं च सुवणगजदानकम् ।
लोकपालाऽष्टकदानं ब्रह्मविष्णुशिवार्पणम् ॥७५॥
चकार स सतां नाथो ह्यश्वपट्टसरस्तटे ।
श्राद्धानि विविधान्येषश्चकार तर्पणं ददौ ॥७६॥
पितृश्राद्धानि सर्वाणि मातृश्राद्धानि यान्यपि ।
नान्दीश्राद्धानि सर्वाणि चकार कृष्ण एव सः ॥७७॥
यद्यत् कृष्णेन लोकेभ्यः पूजायां तु समर्पितम् ।
राजदेवर्षिपितृभ्यश्चेश्वरेभ्यः समर्जितम् ॥७८॥
श्रेष्ठिभ्यश्चापि दैत्येभ्यो दानवेभ्यस्तथाऽर्जितम् ।
यक्षेभ्यो राक्षसेभ्यश्च नागेभ्यो यदुपार्जितम् ॥७९॥
भक्तेभ्यश्चापि मुक्तेभ्यः स्वभुजाभ्यां समर्जितम् ।
तत्सर्वं स्वधनं चापि स्वपत्नीनां धनान्यपि ॥८०॥
कोट्यर्बुदाब्जपद्मानि ददौ दाने हरीश्वरः ।
प्रासादिकं हरेर्यद्वै सर्वं दिव्यं च मोक्षदम् ॥८१॥
मत्वा मत्वा दानपात्रं भूत्वा भूत्वा सुरादयः ।
ईश्वराश्चापि मुक्ताश्च ब्रह्मक्षत्राद्विजातयः ॥८२॥
अन्यवर्णाश्चापि कृष्णप्रसादमहिमेच्छया ।
जगृहुर्भिक्षुका भूत्वा सर्वे यत् कृष्णभिक्षुकाः ॥८२॥
यैर्यैः प्राप्तानि दिव्यानि वस्तूनि कृष्णहस्ततः ।
ते ते तद्वस्तुयोगेन भूत्वा तु पापवर्जिताः ॥८४॥
महापुण्याश्रया भूत्वा भूत्वा दिव्यगुणालयाः ।
सत्त्वप्रकर्षवन्तस्ते भूत्वा भक्ता हरेः खलु ॥८५॥
देहान्ते ते ययुः स्मृत्वा तद्योगेन परं हरिम् ।
परं धाम ययुर्ब्रह्मलोकं लोकं तथाऽऽक्षरम् ॥८६॥
वैकुण्ठं चापि गोलोकं श्रीपुरं चाऽमृतं पदम् ।
अव्याकृतपदं चापि ययुर्विष्णुपदं ह्यपि ॥८७॥
अहो श्रीबद्रिके यैर्येर्गृहीतं तत्प्रसादकम् ।
ते ते दारिद्र्यहीनाश्चाऽभवन् पृथ्व्यां समृद्धयः ॥८८॥
अन्तेऽभवन् हरेर्योगे परमे मोक्षभागिनः ।
येऽपि दानानि कृष्णस्य प्रशशंसुर्मुदान्विताः ॥८९॥
गुणं च जगृहुर्येऽपि तेऽपि मोक्षगतिं ययुः ।
कृष्णप्रदत्तधेनूनां पीतानि यैः पयांस्यपि ॥९०॥
तेऽपि धाम ययुस्तस्य प्रसादस्य प्रतापतः ।
हीरकाद्यन्विता मालाः कृष्णप्रसादमूर्तयः ॥९१॥
देहे धृताश्च यैर्भूषा वस्त्राण्यपि धृतानि यैः ।
पर्यंकाद्या उपभुक्ता वेषा धृताः सुपावनाः ॥९२॥
यानवाहनशकटाऽनोविमानानि यैरपि ।
अधिष्ठितानि धिष्ण्यानि प्रसादपावनानि वै ॥९३॥
गृहाणि च रजांसि श्रीकृष्णपादस्य यैरपि ।
याभिश्चापि धृतान्येव देहे ते ता ययुः परम् ॥९४॥
कृष्णप्रसादलब्धानि फलान्यत्तानि यैरपि ।
बृस्यासनानि कौशेयकम्बलादीनि यान्यपि ॥९५॥
अधिष्ठितानि यैस्तेऽपि पूताः परं पदं ययुः ।
बद्रिके भगवान्नित्यं चाश्वपट्टसरस्तटे ॥९६॥
लक्षविप्रान् लक्षपत्नीयुतान् द्विलक्षबालकान् ।
लक्षकन्याकुमाराँश्च लक्षदीनाऽतिथीन् सतः ॥९७॥
लक्षसाधुजनान् लक्षसाध्वीर्लक्षाऽधिभिक्षुकान् ।
भोजयत्येव भावेन मिष्टान्नानि शुभानि वै ॥९८॥
गरिष्टानि सुगन्धानि वंह्वाज्यानि सदा सदा ।
क्षीरपायसयुक्तानि लड्डुकैः सहितान्यपि ॥९९॥
मेशुभानि च शाकानि सुरम्याण्योदनानि च ।
दधिभक्तानि साऽज्यानि भोजयत्येव नित्यशः ॥१००॥
पानताम्बूलकाद्यैश्च मुखवासैरनुत्तमैः ।
दक्षिणाभिः स्वर्णमुद्राभिश्च तोषयति द्विजान् ॥१०१॥
वर्षकाले समायातं चाऽष्टाविंशं महोदिनम् ।
स्वजन्मनो हरिस्तत्र पूजितो विप्रभूमिपैः ॥१०२॥
देवैर्मुक्तैः पितृभिश्च प्रजाभिर्वैष्णवैस्तथा ।
साधुभिः सर्वलोकानां देहिभिः पूजितः प्रभुः ॥१०३॥
नित्यं प्रपूज्यते तद्वत् कृष्णनारायणो हरिः ।
ददाति पूजकानां च मुक्तिं परं पदे निजम् ॥१०४॥
बद्रिके भवने नैजे राजतेऽश्वसरस्तटे ।
सर्वदुःखहरः स्वामीश्रीकृष्णो वल्लभः प्रभुः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भगवान् स्वोपार्जिताऽसंख्यसमृद्धीनां दानानि चकारेत्यादिनिरूपणनामा नवदशाऽधिकशततमोऽध्यायः ॥११९॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP