संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १०

तिष्यसन्तानः - अध्यायः १०

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
ततः सुरेश्वरी माता पुनः पप्रच्छ कन्यकाम् ।
कथं प्राप्येत भगवान् पुनर्मे वद विस्तरात् ॥१॥
इत्युक्ता सा पुनः प्राह प्रसन्ना बालयोगिनी ।
तत्सर्वं ते कथयामि शृणु बद्रीरमे हितम् ॥२॥
मातः प्राप्यो भवेत् कृष्णनारायणोऽतिसेवया ।
दास्येन स्नेहपूरेण तदर्थार्पणकर्मभिः ॥३॥
देहस्तस्य कृते कार्यस्तदर्थानीन्द्रियाण्यपि ।
तदर्थं मानसं चाहं चित्तं बुद्धिस्तदर्थिका ॥४॥
कामो मोदः प्रमोदश्चोत्सवो महस्तदर्थकाः ।
रमणं स्वपनं केलिः स्पर्शः शय्या तदर्थिकाः ॥५॥
अन्तरं वा बहिश्चापि रहस्यं च तदर्थकम् ।
गुप्तं प्रकाशं सर्वं वा तदर्थं कार्यमञ्जसा ॥६॥
तेन लभ्येत कमलाकान्तः कान्ततया प्रभुः ।
मया तदर्थं सर्वं वै कृतं चाहर्निशं मम ॥७॥
मिलिष्यतीति भगवान् भक्तायाः स्नेहपाशवान् ।
भगवन्तं हृदये मे पश्यामि संस्मरामि च ॥८॥
शयने भोजने याने मातः पश्यामि तं मनाक् ।
हसमानं क्वचित् कान्तं चाह्वयन्तं निजान्तिके ॥९॥
रममाणं रामये तं रममाणा हि तन्मयी ।
स एवं मे व्यवस्थासु सहयुक्तो विभाव्यते ॥१०॥
नैनं त्यक्त्वा परं कंचित् स्मरामि मातरन्वहम् ।
खानपानगतिस्थानशयनश्रवणादिषु ॥११॥
तमेव श्रीप्रभाकान्तं प्रसेवे सहयोगिनी ।
रमाभर्तुश्च साधूनां कृपयाऽहं तथाविधा ॥१२॥
आहारनियमं प्राप्ता नारायणे परात्मनि ।
आत्मनः संयमं प्राप्ता मालतीशे परात्मनि ॥१३॥
एतादृशी सदा साध्या कृष्णेकान्तिकता स्थिरा ।
सर्वाभिश्चापि नारीभिस्तदा मोक्षः करे स्थितः ॥१४॥
ब्रह्मचर्यव्रतं तद्वै यद्वै ब्रह्मणि कामना ।
ब्रह्मचर्यव्रतेनैव धर्माः सिद्ध्यन्ति सर्वशः ॥१५॥
मुख्यं कार्यं कृष्णयोगो नारीणां सर्वदोत्तमः ।
दिव्यताऽऽपादको मातर्मोक्षस्तेन प्रजायते ॥१६॥
श्रीकृष्णे कान्तवृत्तिर्या परावर्त्त्या न सा क्वचित् ।
पोषणीया साधुसंगात् प्रयत्नेन हि योषिता ॥१७॥
कृष्णस्याऽरुचिकृद् यत्तत् परावृत्त्यं द्रुतं खलु ।
अप्रसादकरो भावस्त्याज्यो निसर्गजोऽपि वै ॥१८॥
नित्यं सदनुरोधेन वर्तितव्यं सुयोषिता ।
सा जायते संगयोग्या दिव्यमुक्तिप्रदायिनी ॥१९॥
देहाभिमानं मानं वा त्याज्यं कृष्णान्तिके सदा ।
एवंविधाया भक्ताया श्रेयःसिद्धिर्भवेदिह ॥२०॥
सत्संगस्तादृशीनार्याः कर्तव्यः श्रेयसाम्प्रदः ।
या कृष्णे योजयेत् स्निग्धा सैव माता पिता प्रभुः ॥२१॥
या कृष्णं स्मारयेन्नैव योजयेन्न परेश्वरे ।
श्रेयोहेतुं बोधयेन्न शैथिल्यं दर्शयेद्धरौ ॥२२॥
दोषान् प्रदर्शयेत् सत्सु श्रीकृष्णे दुर्गुणाँस्तथा ।
पातयेद् भगवद्योगात् सा संगार्हा न सर्वथा ॥२३॥
तस्या वचनं मान्यं न स्थेयं साकं तया न च ।
निरयाणां प्रदात्री या सा न माता शुभावहा ॥२४॥
कृष्णश्च्यवेत यद्वाक्यान्मान्यं तस्या वचो नहि ।
कुतर्काश्चेत् हृदयेऽपि भवेयुः कृष्णबाधकाः ॥२५॥
तदा कृष्णस्य सततं कर्तव्यं कीर्तनं शुभम् ।
प्रार्थनीयोऽपि भगवान् दीनबन्धुर्दयार्णवः ॥२६॥
हरे नारायण कृष्ण तवाऽस्मि पाहि मामिह ।
सतां नामानि दिव्यानि कीर्तनीयानि वै तथा ॥२७॥
आत्मनिष्ठा तथा कृष्णनिष्ठा कार्या दृढा सदा ।
दिव्यता च भवेच्छ्रेष्ठा कुतर्काणां विनाशिनी ॥२८॥
कृष्णस्याकारसंस्फूर्तिर्यथा स्यात् कार्यमेव तत् ।
यत्र रूपे न वै कृष्णो द्रष्टव्यं रूपमेव न ॥२९॥
यत्र गन्धे न वै कृष्णो घ्रातव्यो गन्ध एव न ।
यत्र स्पर्शे न वै कृष्णः स्प्रष्टव्यः स्पर्श एव न ॥३०॥
यत्राऽऽनन्दे न वै कृष्ण आनन्दयितव्य एव न ।
यत्र स्वादे न वै कृष्ण आस्वादनीय एव न ॥३१॥
यत्र स्वापे न वै कृष्णः स्वपितव्यं न तत्र ह ।
यत्र स्थाने न वै कृष्णः स्थातव्यं तत्र नैव च ॥३२॥
यत्र वेषे हरिर्नास्ति वेषो विषायते मम ।
यत्र तत्त्वे न वै कृष्णः सर्वं दुःखायते मम ॥३३॥
ईदृग्भावादिसंसिद्ध्या कृष्णः सिद्ध्यति कान्तवत् ।
ईदृक् श्रीकृष्णयोगेन मातर्मुक्ता भवाम्यहम् ॥३४॥
मुक्तया च मया नित्यं सेव्यते परमेश्वरः ।
एवंविधा ब्रह्मवेत्त्री परमाप्नोति मापतिम् ॥३५॥
भक्त्याश्रयं परब्रह्म प्रत्यक्षं पुरुषोत्तमम् ।
भक्त्या त्वनन्यया मातश्चाप्नोति कृष्णकामिनी ॥३६॥
पृथिवी स्त्री सदा बोध्या बीजप्रदः पतिः प्रभुः ।
सर्वा नार्यः कृष्णपत्न्यः पार्थिव्यो माधवांगनाः ॥३७॥
अक्षरं चावताराश्च मुक्ता मुक्तानिकास्तथा ।
ईश्वराश्च सुरा माया तत्त्वानि चेतनास्तथा ॥३८॥
शरीरं यस्य कृष्णस्य शरीरं त्वंगनात्मकम् ।
स कृष्णः सर्वतत्त्वात्मा सर्वरूपपतिः प्रभुः ॥३९॥
पुरुषोत्तमरूपः स ब्रह्मपुरेश्वरो नरः ।
अनन्तैश्वर्यसम्पन्नः साक्षात् सेव्योऽस्ति नः पतिः ॥४०॥
एवं ज्ञानं परज्ञानं मुक्तिसाधनमुत्तमम् ।
पूर्णज्ञानवती सा स्यात् कृष्णस्यैव हि कामिनी ॥४१॥
चाञ्चल्यवर्जिता स्यात् सा कृष्णेतरस्मिन् सर्वथा ।
कृष्णे नेत्रं योजनीयं त्वक् कृष्णे श्रीरमेश्वरे ॥४२॥
हस्तपादास्तथा कृष्णे योक्तव्याः माधवीश्वरे ।
इन्द्रियाणि समस्तानि योक्तव्यानि रमेश्वरे ॥४३॥
चाञ्चल्यं सर्वथा कृष्णे लग्नं स्थिरतरं भवेत् ।
श्रद्धायास्तारतम्येन यत्नशैथिल्ययोगतः ॥४४॥
तारतम्यं स्थिरत्वेऽपि हरौ भक्तस्य संभवेत् ।
सत्सेवायां परा श्रद्धा यस्यास्तस्या हरावपि ॥४५॥
भवत्येव न सन्देहः सा दिव्या जायते द्रुतम् ।
लक्ष्मीनारायणसंहितायास्तु सत्कथा मुहुः ॥४६॥
श्रोतव्यास्ताभिरुदयो भक्तेः स्नेहस्य जायते ।
हरौ स्निग्धा हरिण्येव नारायणी प्रजायते ॥४७॥
गाढः स्नेहो हरौ नित्यवियोगाऽसहनात्मकः ।
जायते योषितो यस्याः सा स्वाभीष्टवियोजने ॥४८॥
प्राणान् जह्याद् विना कृष्णं सर्वं तस्या विषायते ।
विकला जायते कृष्णं विना सौख्यं लभेत न ॥४९॥
रक्ताऽस्थिमलमांसादिभृतेषु सर्वदेहिषु ।
विरागभावमापन्ना स्थैर्यं नैति हि कुत्रचित् ॥५०॥
पुरुषा दुर्लभा नैव श्रेयोऽध्वपरिपन्थिनः ।
संसारभ्रमदातारः परत्राऽत्र च दुःखदाः ॥५१॥
दुष्पूरकामाः सर्वस्वहर्तारो न हिताः परे ।
बहुजन्मसु भुक्तास्ते मुहुर्जन्मप्रदा नराः ॥५२॥
एक एव हि सत्संगः श्रीकृष्णो मोक्षदो मम ।
तं विना पुत्तलं सर्वं कथं पुत्तलमाश्रये ॥५३॥
आत्मनिष्ठावती नारी नरेक्षणान्न मुह्यति ।
नापि क्षुभ्यति युक्तात्मा दिव्या कृष्णप्रिया क्वचित् ॥५४॥
आत्मात्मा नित्यसुखवान् स प्राप्यो माधवीश्वरः ।
आत्माऽहं ब्रह्मरूपाऽस्मि दास्यस्मि वै प्रभापतेः ॥५५॥
ब्रह्मात्माऽसंख्यसखीभिः सेवितस्य प्रियाऽस्म्यहम् ।
स कृष्णोऽस्ति नराकारः स कृष्णः शरणं मम ॥५६॥
एवंविधाया भक्ताया दिव्या दृष्टिर्विवर्धते ।
अतो न स्वर्गभोगानामिच्छास्तस्याः प्रवर्तते ॥५७॥
तदा लौकिकदेहानां भोगतृष्णा कुतस्तराम् ।
एतादृश्या नित्यसाध्व्या योगिन्याः परमं सुखम् ॥५८॥
माया तु दुःखरूपाऽस्ति ह्यभक्तायाः कृते सदा ।
भक्तायास्तु कृते कृष्णे सेवायां पुष्टिदा हि सा ॥५९॥
भक्तायाः सुखदा कृष्णयोगदा दिव्यताप्रदा ।
मोक्षदाऽपि भवत्येव कृष्णप्रसाददायिनी ॥६०॥
माया बन्धकरी या वै ह्यभक्तानां कृते मता ।
भक्तानां योषितां सा तु भक्तिपुष्टिकरी मता ॥६१॥
देहेन मनसा वाचाऽर्पणेन कामनादिभिः ।
सेवन्ते योषितः कृष्णं देहाद्यास्तत्र मोक्षदाः ॥६२॥
कृष्णप्रसन्नताप्राप्तिसाधनं स्त्रीवपुस्ततः ।
प्रसादितो गोपिकाभिर्मोक्षदो माधवीश्वरः ॥६३॥
तथा मया प्रसाद्योऽयं रमाकृष्णनारायणः ।
सर्वात्माऽक्षरनाथश्च कालकालेश्वरेश्वरः ॥६४॥
यत्र कृष्णाचार्यकान्ते विकल्पोऽन्यो न जायते ।
निर्विकल्पा स्थितिः सा वै साधनीया हि योषिता ॥६५॥
नरवत् कामभावेषु प्रवर्तेत प्रभुर्यदि ।
अधिकोऽपि प्रवर्तेत प्रवर्तेत ततोऽधिकः ॥६६॥
सर्वविषयभोगेषु प्रवर्तेत ततोऽतिगः ।
सर्वलोकविगर्ह्येषु तथापि माधवीश्वरे ॥६७॥
शंका यस्या न जायेत दिव्यता उतजायते ।
सर्वकर्तरि कृष्णे वै घटते सर्वकारणे ॥६८॥
सर्वमेवेति जानाति सेवते सा हरिप्रिया ।
हरिस्तु वह्निवद् व्योमवत्तथा लेपवर्जितः ॥६९॥
कोटिश्वराणीभोक्ताऽपि कोटिमुक्तानिकापतिः ।
बोद्धव्यः सर्वदा धाम्नि राधाप्रज्ञारमापतिः ॥७०॥
यद्दिव्यं भगवद्धाम ब्रह्म चामृतमक्षरम् ।
तत्र मया प्रापणीयः कृष्णः कान्तः प्रियः पतिः ॥७१॥
एवंविधा मम प्रज्ञा प्रमा विकल्पवर्जिता ।
श्रीकृष्णे सर्वदा चास्तु स्वामिश्रीमतिवल्लभे ॥७२॥
एवं शिष्या निर्विकल्पनिश्चयाढ्या हरिप्रया ।
कृतकृत्या निर्भया च कार्ष्णी नारायणी मता ॥७३॥
कृष्णसम्पत्तियुक्ताद्वै गुरोर्निजेष्टसिद्धयः ।
प्रजायन्ते ततः सेव्यो गुरुर्नारायणस्थितिः ॥७४॥
गुरोर्बलेन शिष्याऽपि कनिष्ठोत्कृष्टतां व्रजेत् ।
निर्विकल्पस्थितिर्यस्याः साक्षात्कृष्णपदाम्बुजे ॥७५॥
सा नैवाऽऽकृष्यते त्वन्यैः कृष्णशून्यैस्तरंगकैः ।
भगवन्तं प्रपन्ना या न त्वन्यमानसा क्वचित् ॥७६॥
सा मायापारमापन्ना ब्रह्मप्रिया न संशयः ।
कृष्णे कृष्टशरीरा सा जायते पुरुषोत्तमी ॥७७॥
कृष्णानन्दे कृष्णपत्नी भूत्वाऽश्नुतेऽतिकामनाः ।
कृष्णसेवां तु सम्प्राप्ता मोदते कृष्णकान्तके ॥७८॥
एवं मातर्महानारायणकृष्णं भजाम्यहम् ।
दासी भूत्वाऽङ्गनारूपा सेवे श्रीवल्लभम् प्रभुम् ॥७९॥
अरुचिर्भूयसी मेऽस्ति कृष्णहीने तु वस्तुनि ।
अतस्तु मायिके त्यागे सदाऽस्ति वै रुचिर्मम ॥८०॥
सत्सु प्रीतिर्हरौ प्रीतिर्नैसर्गिकी ममाऽस्ति च ।
श्रीकृष्णे वल्लभे सर्वस्वामिनि रुचिरस्ति मे ॥८१॥
नित्यं मंगलमूर्तिर्वै कृष्णनारायणः प्रभु ।
अवतारी समस्ताविर्भावानां परमेश्वरः ॥८२॥
परितश्चान्तरे बाह्ये सोऽयं कान्तो मयेक्ष्यते ।
दिव्यो दिव्यगुणागारः साकारो दिव्यभूषणः ॥८३॥
कोटिमुक्तानिकाकान्तश्चातितेजःप्रपूरितः ।
दिव्यलावण्यमाधुर्यौज्ज्वल्यशीतलताऽन्वितः ॥८४॥
दिव्यचन्दनपुष्पाद्यैरर्चितो ब्रह्मशक्तिभिः ।
अतिप्रीत्या वीक्षमाणो मां कटाक्षेण हर्षकृत् ॥८५॥
प्रतिक्षणं चेक्ष्यतेऽयं नवो नवो हरिः पतिः ।
तत्र भक्तिर्मम मातर्निष्कामा निश्चला सदा ॥८६॥
पुत्रे धने स्त्रियां कान्ते इव स्नेहो हरौ मम ।
एवं सत्सु हरेश्चापि प्रेम साहजिकं मम् ॥८७॥
तेषां कीर्तनवेलायां मनो मे तत्र धावति ।
श्रीकृष्णे वल्लभाचार्ये गोपीनां वल्लभे प्रभौ ॥८८॥
ताराभे त्वात्महृदये विद्युदाभेऽनलप्रभे ।
वाडवाभे महातेजोनिभे चात्मनि मे धवः ॥८९॥
ममाऽऽनन्दप्रदश्चास्ते ब्रह्मानन्दप्रवर्षकः ।
सर्वानन्दप्रदश्चास्ते तादात्म्येन सदा मयि ॥९०॥
निरावरणरूपाऽहं पश्यामि स्वामिनं मयि ।
महामोदप्रदं शुद्धं पूर्णं पश्यामि मत्परम् ॥९१॥
एतादृश्या मम मातर्मायारागो न विद्यते ।
नैर्गुण्ये वर्तमानायाः कुतो वै गुणलेपना ॥९२॥
कुतोऽत्र वासनाश्चापि कुतः कर्माशयास्तथा ।
कुतः कोशा भौतिकाश्च कुत संगो विनाशिनाम् ॥९३॥
कुतो द्रोहश्च भक्तानां कुतो दोषेक्षणं सताम् ।
कुतोऽहंममतास्पर्शः कुतो भेदादि कल्मषम् ॥९४॥
कुतो मानं सर्वदोषनिकरं सत्सु मापतौ ।
राधारमणयोगेन मातर्दिव्यं समस्तकम् ॥९५॥
विद्यते मे शरीरं च शारीरोऽपि सुसेवकः ।
एतादृशीनां मुक्तानामन्यासां कृष्णयोषिताम् ॥९६॥
मातर्भवामि पत्त्राणा रजोधूल्यादिधूसरा ।
भृत्या दासी प्रेष्यधर्मा दीना च सेविकाऽपि च ॥९७॥
एवं माहात्म्यपाना च मतिः कृष्णाच्चलेन्नहि ।
नाऽस्या दुष्यति दासीत्वं कृपावेदी तु सा हरेः ॥९८॥
नाऽस्याः पतनं दासीत्वात् कृष्णकान्तात्वतः क्वचित् ।
सा शक्तिः स्यात् पराब्राह्मी कृष्णनारायणी प्रिया ॥९९॥
तस्या भयाद् वाति वातस्तपत्यर्कोऽपि तद्भयात् ।
मेघाः ऋतूनाश्रयन्ति तस्या भयात् सदाम्बरे ॥१००॥
अब्धिस्तिष्ठति वेलायां भयात्तस्य ध्रुवः स्थिरः ।
लोकपालास्तथा मृत्युः कालो माया च तद्भयात् ॥१०१॥
वर्तन्ते निजकार्येषु यथायुक्ता यथायथम् ।
एतादृशी महाशक्तिर्जायते सा हरिश्रिता ॥१०२॥
तमनादिकृष्णनारायणं गोपालनन्दनम् ।
प्राप्ताऽस्म्यनादिकान्तं श्रीपतिं श्रीकान्तवल्लभम् ॥१०३॥
तथा वर्तेत या नारी. प्राप्नुयात्तं पतिं प्रभुम् ।
त्वं मातस्तं कृष्णकान्तं प्राप्नुहि श्रीप्रसेवितम् ॥१०४॥
इत्युक्त्वा विररामाऽपि सा कन्या बालयोगिनी ।
सुरेश्वरी दधारापि हृदये बदरीश्वरि ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां सुरेश्वर्यै भगवत्प्राप्तिस्थितिप्रभृति बालयोगिन्युक्तमित्यादिनिरूपणनामा दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP