संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०० Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि श्रीहरेः परमात्मनः ।षड्विंशायां स्वजन्मनो जयन्त्यां प्रातरेव ह ॥१॥कार्तिकस्याऽसिताऽष्टम्यां कृतस्नानादिमंगलः ।भूषावेषादिसम्पन्नो भगवान् पुरुषोत्तमः ॥२॥सभायां कानके दिव्ये गजासने महासने ।व्यराजत हरिस्तत्र लोमशेन महर्षिणा ॥३॥पूजितो वर्धितश्चाशीर्वादैरक्षतकुंकुमैः ।चन्दनैः पुष्पहाराद्यैर्गन्धसारैः समर्चितः ॥४॥पित्राभ्यां न्यस्तमुकुटो मस्तके कुण्डले तथा ।कर्णयोर्मणिहारादिशोभितश्च गलोरसोः ॥५॥ततो मुक्तैराक्षराद्यैरवतारैस्तथेश्वरैः ।सिद्धैर्मुनिभिः पितृभिः सुरैश्च मानवादिभिः ॥६॥नृपैर्यक्षैः किन्नरैश्च साध्यैश्च चारणैस्तथा ।गन्धर्वैः फणिभिर्दिव्यदेहिभिः पूजितः प्रभुः ॥७॥आशीर्भिर्वर्धितश्चापि शुशुभे भगवाँस्तथा ।विप्रैश्च साधुभिः साध्वीभिश्च योगिभिरर्चितः ॥८॥नीराजितः क्रमात् सर्वैरुपदाभिः प्रतोषितः ।गीतिभिश्चाप्सरोवृन्दैर्नर्तनैर्नृत्यवेदिभिः ॥९॥नर्तकीभिश्च भगवान् प्रसादितः प्रहर्षितः ।आगता ये महीमाना लोकालोकनिवासिनः ॥१०॥धामाऽधामनिवासाश्च धन्यवादैः प्रतोषिताः ।गुरुणा लोमशेनापि पित्रा गोपालयोगिना ॥११॥पारितोषिकदानैश्च पूजिता मानिता अपि ।सभायाः परिहारान्ते भोजिता दिव्यभोजनैः ॥१२॥उपदाभिस्तोषिताश्च पूजिताः सर्व एव ते ।विदायं प्राप्य ते सर्वे ययुर्नैजान् महालयान् ॥१३॥परिहारे समुत्पन्ने सुखं चोवास सत्पतिः ।आनन्दयन् प्रियाः सर्वा आवसन्तं निजालये ॥१४॥बद्रिके तत्र चायान्ति प्रतियन्ति सहस्रशः ।वीक्षणार्थं हरेर्नित्यं नरा नार्यो मुदान्विताः ॥१५॥बालिकापुत्रसंयुक्ताः पतिबान्धवशोभिताः ।स्त्रीकुटुम्बादिसहितास्तीर्थार्थं समयान्ति हि ॥१६॥क्वचिद् देवाश्च पितरो मुनयोऽप्यभियन्ति च ।पुत्रपुत्र्यादिसहिताः सापत्या योषितोऽपि च ॥१७॥सौभाग्यवत्यः सुन्दर्यो रामयन्त्यो निजात्मजान् ।आयान्ति कृष्णवीक्षार्थं तीर्थं कृत्वा प्रयान्ति च ॥१८॥भक्ता नार्यश्च ताः पुत्रं पुत्रीं कृत्वा कटिस्थले ।प्रमोदन्ते प्रशोभन्ते स्तन्यपानं ददत्यपि ॥१९॥चूम्बन्ते च स्पृशन्ति द्राक् प्राप्नुवन्ति सुखानि हि ।रमन्ते बालकैः स्वैश्च समयन्ति च तत्पराः ॥२०॥मातः पितः प्रवदन्ति समाह्वयन्ति बालकाः ।श्रुत्वा काकलिकां भाषां प्रमोदन्तेऽति मातरः ॥२१॥पतिस्पर्शप्रमोदाश्च सम्पद्भोगसुखानि च ।पुत्रस्पर्शप्रमोदानां कलां नार्हन्ति षोडशीम् ॥२२॥अपुत्रा चाऽसुता माता शोभते नैव चैकला ।अनपत्या चाऽफला च कदलीव न शोभते ॥२३॥सापत्या सफला वल्ली मृगीव शोभते सदा ।शुष्कायते त्वनपत्या रूक्षायते विषायते ॥२४॥गृहं चापत्यविहीनं चाऽङ्कोऽपत्यं विनाकृतः ।उत्सवो भोजनं चेति शोभन्ते न कदाचन ॥२५॥एवं ब्रह्मप्रिया नित्यं विचारयन्ति स्वान्तरे ।वीक्ष्य वीक्ष्याऽपत्यवतीर्मातॄः स्वतुल्यविग्रहाः ॥२६॥बद्रिके श्रीकृष्णनारायणेन सह भूतले ।पातालेषु भुवर्लोके स्वर्गे सत्ये जने तथा ॥२७॥यत्र यत्र ययुः कृष्णपत्न्यस्तत्र च तत्र च ।दृष्ट्वा सापत्यवनिता अकुर्वन्त सुतेषणाः ॥२८॥ईशलोके देवलोके मेरौ द्वीपेषु सप्तसु ।यत्र विमानके स्थित्वा पत्या समं ययुस्तु ताः ॥२९॥ब्रह्मप्रियाद्याः सर्वा वै तत्र तत्र विलोक्य ताः ।सापत्यसुखरसिकाश्चक्रुर्वाञ्च्छा सुतार्थिनीम् ॥३०॥पुत्रवत्याः समानायाः सन्निधौ पुत्रवर्जिता ।म्लायते बद्रिके लोकेऽनपत्या शोकमेत्यपि ॥३१॥वन्ध्यात्वं दूषणं लोके निरयो मूर्तरूपधृक् ।यत्र बालपदं नास्ति बालदोला न विद्यते ॥३२॥बालकाकलिका नास्ति तद्गृहं प्रेतवासितम् ।यत्र गर्भवती नारी नास्ति नास्ति च सूतिका ॥३३॥नास्ति स्तन्यप्रपात्री च तद्गृहं डाकिनीगृहम् ।यत्र माता पिता शब्दौ न स्तो न स्तश्च पुत्रकः ॥३४॥पुत्री शब्दोऽपि नास्त्येव तद्गृहं चाऽवधूतिकम् ।यत्र बालस्वरूपं स्वं प्रतिबिम्बं न विद्यते ॥३५॥तद्गृहं त्वन्धतमसा व्याप्तं चामंगलं सदा ।यत्र बालो न वा पुत्री सम्पद्भृतं गृहं तु तत् ॥३६॥अरण्यसदृशं बोध्यं फेरुराजगृहोपमम् ।गार्हस्थं विफलं तस्या यस्यांऽके बालकं नहि ॥३७॥कामना विफला तस्या या तु गर्भवती नहि ।भूषाशृंगारवेषाश्च विफला रूपसम्पदः ॥३८॥विफलं सपतिकत्वं यस्या अङ्के न बालकम् ।विनाऽपत्यं पितृऋणं नापगच्छति कर्हिचित् ॥३९॥यौवनस्य फलं बालैः ऋणापाऽऽकरणं यतः ।विफला धातवस्तस्या रणे नद्याः प्रवाहयत् ॥४०॥शरीरमस्या रणवद् गृहं श्मशानवत्तथा ।पतिः पाषाणवच्चापि पत्नी सा शुष्कगर्तिका ॥४१॥वंशविस्तारहीनानां परलोको न विद्यते ।स्वर्गे वंशविहीनानां वासो देवेषु नैव च ॥४२॥अत्र लोकेऽनपत्यानां मुखं पश्यति नेतरे ।प्रातस्तद्दर्शने जाते गण्यते चाऽत्ममंगलम् ॥४३॥सम्पदां तु फलं भोगो भोगानां बालकाः फलम् ।बालकानां फलं वंशो वंशः पितृप्रशान्तिदः ॥४४॥अपि गावश्च पशवः पक्षिणो जलजन्तवः ।आरण्यकाश्च वा ग्राम्याः शोभन्तेऽपत्यसंयुताः ॥४५॥मानमर्हन्ति सापत्या निरपत्यास्तिरस्कृतिम् ।जातिभावो हि सापत्ये पुरुषार्थोऽपि तत्र वै ॥४६॥तस्मात् पुत्रवती पत्नी सत्या पत्नी न चान्यथा ।पुत्रवतीभिरस्माभिर्भाव्यं ब्रह्मप्रियादिभिः ॥४७॥कृष्णनारायणः कान्तः स्वयं दास्यति नः सुतान् ।समयोऽयं सुतार्थोऽस्ति कदा दास्यति नः सुतान् ॥४८॥कदा कान्तस्य बिम्बानि प्रतिबिम्बानि वै मुदा ।द्रक्ष्यामः स्वांऽकसंस्थानीत्येवं चिन्तां प्रचक्रिरे ॥४९॥ज्ञात्वा कृष्णः सतीनां वै मानसानि यथायथम् ।विकसन्तं वसन्तर्तुमालोक्याऽचिन्तयत्तदा ॥५०॥आम्रमये महारण्ये विहर्तुं यामि चैत्रके ।कोट्यर्बुदाब्जपत्नीनां पूरयिष्ये मनोरथान् ॥५१॥निश्चित्यैवं तृतीयायां शुक्ले चैत्रे स्वयोषितः ।सह नीत्वा विहर्तुं स ययावाम्रवणानि तु ॥५२॥अशोकानां च कुन्दानां बकुलानां वनानि च ।चम्पकानां कदलीनां रैवताद्रिवनानि च ॥५३॥कर्मदानां च वंशानां क्षीरिकाणां वनानि च ।जम्बूनां किंशुकानां च स्थलपद्मवनानि च ॥५४॥कदम्बानां पुष्पवतीवल्लीनां सुवनानि च ।पुष्पितानां स्तबकानां स्तम्बानां प्रवणानि च ॥५५॥अश्वपट्टसरसश्च दक्षिणे पश्चिमे तथा ।मधुकानां चामृतानां जम्बीराणां वनानि च ॥५६॥इक्षूणां सरसानां च बिल्वानां सुवनानि च ।श्रीवृक्षाणां श्रीफलानां महोद्यानानि यान्यपि ॥५७॥नास्पतीनां सन्तराणां बदराणां वनानि च ।दाडिमानां खर्जुराणां खारिकाणां वनानि च ॥५८॥शर्कराकन्दजातीनां भूतलानि शुभानि च ।द्राक्षाणां च लविंगानामेलानां सुवनानि च ॥५९॥पूगीनां नागवल्लीनां कर्पूराणां वनानि च ।त्वक्साराणां तिन्तिडीनां चाऽञ्जिराणां वनानि च ॥६०॥चिकूराणामरण्यानि नवरंगवनानि च ।महोद्यानानि रम्याणां बदामानां वनानि च ॥६१॥कस्तूरीमृगवासानां क्षेत्राणि सस्यवन्ति च ।चणकानां गोधूमानां यवानां शालिशाकिनाम् ॥६२॥पत्रिणां शिम्बिकानां चोत्तेजकानां वनानि च ।कमलीनां कुमुदानां सुकल्मानां सरांसि च ॥६३॥शाद्वलानि विचित्राणि भूतलारण्यकानि च ।वीक्षितुं च विहर्तुं च दर्शयितुं निजप्रियाः ॥६४॥रन्तुं गन्तुं सुखं रामयुतुं पूरयितुं मनः ।विमानेन ययौ कृष्णनारायणोऽद्रिसन्निधौ ॥६५॥पश्चिमोदधिपर्यन्तं वनेषूपवनेष्वपि ।भद्रातीरे तथा स्वर्णरेखातीरे च भूतले ॥६६॥गोमतीसागरे चौजस्वतीतीरे तथा ययौ ।हरिणीसागरे शत्रुंजितायाः सन्निधावपि ॥६७॥व्याघ्रारण्ये तथा सिंहारण्ये गोकर्णसन्निधौ ।सर्वसौराष्ट्रभागेषु विहरन् स्त्रीः प्रमोदयन् ॥६८॥पूरयँस्तन्मनांस्येव रेमे कृष्णनरायणः ।यावत्यः प्रमदा नैजास्तावद्रूपाणि धारयन् ॥६९॥रेमे समस्तनारीभिः कृष्णनारायणः प्रभुः ।ऊर्ध्वरेता ब्रह्मचारी शीलं रेमे प्रपोषयन् ॥७०॥कोकिलानां कूजनानि केका मयूरघोषिताः ।मेनानां मिष्टगीतानि गुंजारवान् द्विरेफिणाम् ॥७१॥शुकानां चिञ्चकीर्वाणीर्वन्यानां विमला गिरः ।शृण्वन्नुत्तेजिका रेमे रामाभी रमणीश्वरः ॥७२॥सुगन्धान् विविधान् गृह्णन् पुष्पशय्यासु भूतले ।आस्वादयन् रसान् श्रेष्ठान् भक्षयन् सुमधूनि च ॥७३॥फलान्यास्वादयन् कृष्णो रेमे रामाभिरुत्सुकः ।पिबन् प्रियाननरसान् ददत् ताम्बूलसद्रसान् ॥७४॥प्रियामुखेषु भगवान् रेमे ताभिर्वने वने ।भोजयन् भक्षयन् गुन्द्रान् गुन्द्रपनसपेशिकाः ॥७५॥उत्तेजयन् हावभावै रेमे ताभिर्वने वने ।कुंजे निकुंजके वृक्षतले वल्लीसुगह्वरे ॥७६॥तृणपुञ्जे स्तम्बमध्ये रेमे राजीवलोचनः ।आश्लेषचुम्बनस्पर्शैर्धारणैर्मर्दनैरपि ॥७७॥आह्लादकैर्दृढैः कामै रेमे रामाभिरच्युतः ।अप्रस्खलितभावैश्च रामयामास ताः प्रियाः ॥७८॥बद्रिके तृप्तिमापन्ना यावत्तावद् रराम ह ।रामयन्तं तोषयन्तं चानन्दयन्तमच्युतम् ॥७९॥वीक्ष्य सम्प्रार्थनाकालं प्रसन्नं परमेश्वरम् ।पतिं प्रियामयं कान्तं कान्ताः परीक्ष्य चान्तरम् ॥८०॥विहस्य प्रणिपत्याऽपि समाश्लिष्य मुहुर्मुहुः ।प्रचूम्ब्य .हृदये धृत्वा प्रार्थनां चक्रिरे प्रियाः ॥८१॥कान्त रमण योगीन्द्रपूज्य योगेश कामद ।ब्रह्मचारिन् परब्रह्म निर्लेप कामवर्जित ॥८२॥निरीह सर्वशक्तीश चाऽनासक्त निरञ्जन ।सर्वकामप्रपूर त्वं जयसे प्रियकारक ॥८३॥अप्रस्खलितभावस्तं जयसे सुखशेवधे ।नित्यस्वानन्दमग्नोऽसि भक्ताशापूरकोऽप्यसि ॥८४॥शीलव्रतं तव मूर्तौ सदा संवर्तते हरे ।वयं मुग्धा भवामोऽत्र बीजदानं न विद्यते ॥८५॥पुत्रवत्यः कथं स्यामो नारायणनरायण ।कृष्णकृष्णेश राधेश लक्ष्मीश्च चात्मसंभृत ॥८६॥सर्वगर्भेश गोपीश ब्राह्मीकान्त रमापते ।आत्मपते प्रियपते प्रियापतेऽक्षरेश्वर ॥८७॥मुक्तमुक्तानिकास्वामिन् बीजं दत्से न चेद् यदि ।कथं स्यामः पुत्रपुत्रीवत्यो वयं तवाऽङ्गनाः ॥८८॥सापत्येच्छावतीनां नः समीहाः पूरय प्रभो ।पुत्रपुत्रीमातरश्च स्यामो वयं तथा कुरु ॥८९॥अनपत्यप्रमदानां मुखं चाऽमंगलं सदा ।नाऽयं लोकः परश्चापि सुखदो विरतिप्रदः ॥९०॥लोकाश्चाऽपत्यहीनस्य षण्ढत्वं कल्पयन्त्यपि ।अनपत्यगृहे कृष्ण देवा नायान्ति पूजने ॥९१॥गृहस्थाश्चापि नाऽऽयान्ति नैजाऽमंगलतामयात् ।तस्मात् समर्थ भगवन् सर्वासां कामपूरक ॥९२॥देहि युग्मफलं पुत्रीपुत्रयुगलरूपकम् ।सर्वाभ्यो युगलं चैकं चैकं निजस्वरूपवत् ॥९३॥लोकपंक्तिगणनायै गार्हस्थ्यशोभनाय च ।वंशविस्तारसिद्ध्यर्थं देह्येकं युगलं पृथक् ॥९४॥समर्थं त्वत्समं कृष्ण पितृतारणशक्तिकम् ।ब्रह्मशक्त्यन्वितं दिव्यमेकैकं युगलं शुभम् ॥९५॥अपत्यरूपं वात्सल्यस्थानं मानसबन्धनम् ।सर्वमंगलसंवासं देह्येकैकं सुतासुतम् ॥९६॥सहायकृत् पितुः पुत्रो मातुः पुत्रीं सहायिनी ।पुत्रस्य न्यूनता पुत्र्या पूरयितुं न शक्यते ॥९७॥न पुत्र्या न्यूनता पुत्रैः पूरयितुं प्रशक्यते ।तस्मात् पुत्रीं शुभां चैकां चैकां चैकैककं सुतम् ॥९८॥प्रदेहि श्रीस्वामिकृष्णनारायणाऽऽर्यसत्पते ।सर्वरतिपतेऽनंगपते गर्भपते विभो ॥९९॥धर्मार्थकाममोक्षाधिपते श्रेयःपते प्रभो ।प्रेयःपतेऽर्थितभावपते देहि सुतां सुतम् ॥१००॥इत्येवमर्थयामासुः सर्वास्ताः कृष्णयोषितः ।अवैषम्येन वै पुत्रीं पुत्रं च युगलात्मकम् ॥१०१॥श्रीकृष्णो बद्रिके तासां भावान् ज्ञात्वा रतिप्रियान् ।पुनः पुनश्च रेमे वै ता रेमुश्च सुतेच्छया ॥१०२॥मूर्च्छान्तं परमानन्दं ताभ्यो ददौ हरिः पतिः ।ऊर्ध्वरेता ब्रह्मचारि स्वामिश्रीवल्लभः प्रभुः ॥१०३॥भानं विसृज्य देहानां कृष्णतादात्म्यमूर्छिताः ।अभवँस्ताः प्रियाः सर्वा बद्रिके द्रविता हरौ ॥१०४॥दिव्या लीला इमाः स्मृत्वा बद्रिके पापिनो जनाः ।नरा नार्योऽपि निष्पापा भूत्वा यान्ति परां गतिम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वसन्ते श्रीहरिः सौराष्ट्रीयनदनदीपर्वतारण्यसमुद्रपुलिनादिषु विहारार्थं गतस्तत्र स्वपत्नीभिः पुत्रपुत्र्यर्थं प्रार्थितो रमणं रेमेचेत्यादिनिरूपणनामा शततमोऽध्यायः ॥१००॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP