संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७ Translation - भाषांतर श्रीबदरीश्वर्युवाच-कान्तनारायणकृष्ण दाराभाग्यो नृपो हि मे ।बद्रिकालयमासाद्य किं चकार वदस्व मे ॥१॥श्रीनरनारायण उवाच-ऋषीकेशात्समारभ्य प्रतिक्रोशं स भूपतिः ।व्यधाद्वै दण्डवद् बद्रीनाथं दानानि सन्ददौ ॥२॥पद्भ्यां ययौ शनैः सर्वप्रजाभिः सहितो हि मे ।भोज्यव्ययः समस्तो वै सहस्रदेहिनां निजः ॥३॥व्रतं मध्याह्नभोजित्वं चक्रे राजा प्रजान्वितः ।सहस्रमालिकाऽऽवर्त्तनं चक्रे प्रत्यहं नृपः ॥४॥प्रजाश्चापि तथा चक्रुर्मालाऽऽवर्त्तनकीर्तनम् ।हरे कृष्णबालकृष्णबद्रीनाथेशमाधव ॥५॥अनादिश्रीकृष्णनारायणपद्मावतीधव ।एवं संभूय भजनं चक्रुस्ते वाचिकं पथि ॥६॥तीर्थव्रतानि ते सर्वे पालयामासुरुत्सुकाः ।भूशायित्वं ब्रह्मचर्यं चैकभुक्तत्वमित्यपि ॥७॥नारीणां च नराणां च मिथः स्पर्शविहीनताम् ।सत्यवचनं चाऽद्रोहं चान्यगाथाविवर्जनम् ॥८॥अस्तेयं चेश्वरवृत्तिं स्वाध्यायं फलभोजनम् ।सतां सेवां हरेः सेवां साध्वीनां सेवनं तथा ॥९॥कथायाः श्रवणं सायं कीर्तनं वाद्यसंयुतम् ।वृद्धानां वन्दनं प्रातर्देवानां पूजनं प्रगे ॥१०॥अहिंसां चापि जीवानां नोच्छेदं तृणशाखिनाम् ।स्नानं ध्यानं जपं चापि हवनं पितृतर्पणम् ॥११॥पित्रोः प्रसेवनं पत्युः सेवनं साधुसेवनम् ।नित्यदानं च गोसेवां विप्रसम्मानमर्हणम् ॥१२॥अन्नवस्त्रप्रदानं च धूपदीपनिवेदनम् ।व्रतान्येवंविधान्येव चक्रुर्मार्गे हि यात्रिकाः ॥१३॥सहस्रमानवाः सर्वे दाराभाग्यनृपान्विताः ।बदरीश जय विष्णो नरनारायण प्रभो ॥१४॥गंगा जयतु बद्रीशी हिमालयो जयत्वपि ।एवं जयादिशब्दैस्ते सोत्साहा रुरुहुर्गिरिम् ॥१५॥शिखराणि कज्जलानि धवलानि क्रमात् ततः ।विलोकयन्तो भक्तौ च मग्ना यान्ति शनैः शनैः ॥१६॥अथ नारायणस्वामी साधुर्भूत्वा नरोऽपि च ।तथा श्रीबदरी साध्वी भूत्वा भागवतीप्रभा ॥१७॥भिक्षुकाणां वेषवन्तो ययुः संघेन संयुताः ।रात्रौ त्रयो मिलित्वा च मिष्टस्वरैः सुकीर्तनम् ॥१८॥नरनारायणस्यैव कुर्वन्ति स्नेहगर्भितम् ।शृण्वन्ति संघशः सर्वे नमन्ति त्रीन् गुरूनिव ॥१९॥भोजयन्ति परे चापि सेवन्ते त्वपरेऽपि तु ।अर्पयन्ति यथेष्टं वै त्रिभ्यो यात्रालवो मुहुः ॥२०॥त्रिकं चापि दिव्यरूपं भागवतं स्थले स्थले ।आवेदयति पन्थानं पथ्यं पाथेयमित्यपि ॥२१॥विक्रेतृरूपमासाद्य पर्वतीयफलादिकम् ।आपणे त्विव धृत्वा च मार्गे तिष्ठति वै पुरः ॥२२॥एवं श्रीभगवान् बद्रि संघेन सह वर्तते ।भक्ता यतः प्रसन्नाः स्युः सेवया दुःखवर्जिताः ॥२३॥वियोगं निजभक्तानां तत्रापि स्वं प्रयायिनाम् ।सहते न हरिकृष्णो भक्ताः सहन्त एव न ॥२४॥तथा बद्रीप्रभो नारायणोऽहं वै त्वया सह ।नरेण सहितः संघे युक्तेऽभवं निजेच्छया ॥२५॥मुक्तिदोऽहं हि भक्तानां पार्वतिकोऽघनाशकः ।दयया प्रेरितः संघे व्यचरं साधुवेषभाग् ॥२६॥साधूनां सेवया कृष्णसेवया तीर्थयात्रिका ।सफला जायते बद्रि दर्शनात् पादवाहनात् ॥२७॥अथ राज्ञस्तु संघस्य परीक्षार्थं मया तदा ।रुग्णं रूपं मम बद्रि दर्शितं ज्वरवेशितम् ॥२८॥चलितुं त्वसमर्थोऽहं ज्वराग्निना तदाऽभवम् ।मम भ्राताऽपि सहसा ज्वराऽऽविष्टोऽभवत्ततः ॥२९॥मम पत्नी सती नारी साध्वी रुरोध वै भृशम् ।ज्वराविष्टौ पुमांसौ द्वौ सेवनीयौ कथं पथि ॥३०॥एकया योषिता साध्व्या रुग्णौ पाल्यौ कथं पथि ।शीताढ्ये हिममार्गे वै पराधीनौ सुदुःखितौ ॥३१॥भिक्षुक्याः सन्निधौ तत्र नायान्ति धनमानिनः ।भिक्षुकी रौति विजने निषद्य सन्निधौ तयोः ॥३२॥संघस्था मानवाः सर्वे दयायुक्तास्तु तैर्थिकाः ।ये ये त्वायान्ति तत्पार्श्वे तिष्ठन्ति दययाऽन्विताः ॥३३॥सेवन्ते ज्वरनाशार्थं देहं संवाहयन्त्यपि ।धैर्यं वदन्ति नार्यै च यथेष्टं संददत्यपि ॥३४॥क्रमशस्ते सहस्रं वै मानवा रुग्णसन्निधौ ।यात्रां निरुध्य मिलितास्त्यक्तुं शक्ता न चाऽभवन् ॥३५॥राजाऽपि त्वाययौ मार्गे निर्गच्छन् तौ व्यलोकयत् ।रुग्णौ साधूसत्तमौ च दुःखिनीं साध्विकां प्रियाम् ॥३६॥अतिष्ठत् सहसा तत्र निषसाद पुरस्तयोः ।पप्रच्छेप्सितमेवाऽपि धैर्यं ददौ धनं ददौ ॥३९॥वचनं प्रददौ ताभ्यां साधुभ्यां नृपतिः शुभम् ।यावद् रोगो न भवतोर्निवर्तेत तु तावता ॥३८॥नाऽस्मात् स्थानात् प्रयास्यामि त्वग्रे बदरिकाश्रमम् ।सह नीत्वैन यास्यामि मा खेदं कुरुतं युवाम् ॥३९॥सर्वे वयं निवत्स्यामश्चात्रैव स्वस्थतावधिम् ।यद्वाऽऽज्ञया तु भवतोर्वां कृत्वा स्कन्धवाहिनौ ॥४०॥यास्यामो बदरीतीर्थं सन्तो हि हृदयं हरेः ।न त्यक्तव्या मोक्षणार्थैः प्राप्ताः सन्तः कदाचन ॥४१॥साध्वीयं मा शुचं यातु तिष्ठामस्त्वत्सहायिनः ।बद्रीनाथो द्रुतं चेमौ नीरुग्णौ विदधात्विह ॥४२॥एवं निश्चित्य राजाऽपि प्रजाश्चापि हरिप्रियाः ।सर्वे यात्रां विहायैव साध्वर्थं तूषिताः पथि ॥४३॥अथ भोजनपानादि फलादनं प्रचक्रिरे ।साधुभ्यां दत्तवन्तश्च मुद्गपक्वादिमण्डकम् ॥४४॥पपतुस्तौ सुखं साध्वी भोजनं प्रचकार ह ।सर्वेऽपि भुक्तवन्तस्ते रात्र्यागमोऽभवत्ततः ॥४५॥रात्रौ सर्वे कीर्तनं च प्रचक्रुः कण्ठरागिणः ।सवाद्यं श्रीनरनारायणनाम प्रचक्रिरे ॥४६॥अथापि हिमवर्षा वै निशाऽर्धविगमेऽभवत् ।शीताऽनलोऽभवद् व्याप्तः संघे सर्वत्र भूतले ॥४७॥रुग्णौ प्रातर्मृतौ त्यक्त्वा प्राणान् प्रेतौ बभूवतुः ।रुरोध साध्वी साऽनाथा रुरुदुर्नृपतत्प्रजाः ॥४८॥हिमस्य विगमे जाते प्रातःप्रकाशनोत्तरम् ।राजा सर्वान् यात्रिकाँश्च सम्बोधयन्नुवाच ह ॥४९॥यावन्मृतौ न जीवेतां तावदन्नं त्यजाम्यहम् ।मरणं साधुभिः साकं मन्ये मोक्षप्रदं मम ॥५०॥श्रुत्वैवं यात्रिकाः सर्वे नरा नार्योऽपि बालकाः ।प्रतिज्ञां तादृशीं चक्रुर्गृह्णामो भोजनं नहि ॥५१॥यावन्नैतौ हि जीवेतां मरिष्यामोऽत्र निर्जलाः ।यास्यामो ब्रह्मसदनं साध्वर्थे प्राणरोधिनः ॥५२॥किमत्र यात्रया साधून् त्यक्त्वा स्वार्थपरार्थिनाम् ।निष्फलं जीवनं तस्य साधूँस्त्यक्त्वा तु जीवति ॥५३॥अपि प्राणान् प्रदायैव साधून् संरक्षयेत् सदा ।गवार्थे ब्राह्मणार्थे वा साध्वर्थे च सतीस्त्रियै ॥५४॥प्राणपणं विधायाऽपि रक्षां करोति यो जनः ।तस्य स्वर्गं च मोक्षश्च शरण्यस्य ध्रुवौ मतौ ॥५५॥अपि पञ्चमहापापप्रसक्तोऽपि सतां कृते ।प्राणान् जहाति रक्षार्थं सर्वपापात् स मुच्यते ॥५६॥साधुरक्षाकृतः रक्षां करोति भगवान् हरिः ।साधुष्वेव हरिश्चास्ते साधुरेव स्वयं हरिः ॥५७॥या प्रीतिर्निजपुत्रेषु पत्न्यां पित्रोश्च बन्धुषु ।तां कृत्वा सत्सु देह्यत्र मुच्यते जन्मबन्धनात् ॥५८॥यो यत्नः स्वकुटुम्बस्य भरणार्थं वितन्यते ।स चेत् कृतः सतामर्थे यत्नवान् मुच्यते ह्यघात् ॥५९॥यथा लोकैः पक्षपातः क्रियते स्वकुटुम्बिषु ।तथा कृतः सतामर्थे तारयत्येव तत्कृतः ॥६०॥यथा स्नेहो निजदेहे दैहिके वर्तते नृणाम् ।तथा चेज्जायते सत्सु मुच्यते भवसागरात् ॥६१॥यथा स्वार्थे कृतयत्नः पुमान्न मनुते श्रमम् ।तथा सतां कृते यत्ने स्नेहान्न मनुते श्रमम् ॥६२॥न पारक्यं च मनुते मनुते मोक्षकृच्छ्रमम् ।स एव लभते धाम्नि नारायणपदाम्बुजम् ॥६३॥रुग्णं साधुं तु यस्त्यक्त्वा याति देही मदान्वितः ।स याति याम्यलोकं वै दुःखं याम्यनिभं त्विह ॥६४॥मातृसेवाफलं पितृसेवाफलं तथा सताम् ।सेवया लभते कान्तसेवाफलं हि शाश्वतम् ॥६५॥सर्वतीर्थानि साधूनां मूर्तौ वसन्ति सर्वदा ।साधुतीर्थाऽवमन्ता न लभते तीर्थजं फलम् ॥६६॥साध्वोरेतयोर्मार्गेऽत्र गताऽस्वोस्त्यजनं ह्यघम् ।तदर्थं प्राणदानेन पुण्यं स्वर्गं च मोक्षणम् ॥६७॥इति निश्चित्य राजा च प्रजा यात्रां विहाय वै ।अन्नं जलं विहायाऽपि निषेदुः शवसन्निधौ ॥६८॥चक्रुस्ते भजनं तत्र सततं नामकीर्तनम् ।अथ साध्वी सती नारी प्राणान् हातुं समिच्छति ॥६९॥कृत्वा काष्ठानि चैकत्र शवौ निधाय तत्र च ।यावदग्निं तत्र कर्तुं याति तावन्नृपः स्वयम् ॥७०॥उत्प्लुत्य काष्ठचयने निपपात पुरः स्त्रियाः ।ततो राज्ञी तथा नार्यः प्रजाश्चापि शुचाकुलाः ॥७१॥निपेतुः सहसा काष्ठचितायां मरणाय वै ।नारी वह्निं समुत्पाद्य शेते तु यावदेव ह ॥७२॥शेरते भूभृताद्याश्च न निर्गच्छन्ति वह्नितः ।तादृशीं परमां भक्तिं विलोक्य भगवान् स्वयम् ॥७३॥चितायाः शान्तवह्नेस्तु सजीवः सनरो हरिः ।उत्थितश्च हसन् दिव्यवपुश्चतुर्भुजान्वितः ॥७४॥शंखचक्रगदापद्मधरो नरेण शोभितः ।तथा लक्ष्म्या युतः साध्व्या हसन्नाह नृपादिकान् ॥७५॥भवन्तो मम भक्ताः स्थ सर्वस्वार्पणकारिणः ।साधुस्नेहयुतास्तीर्थपावनाश्चात्मसदृशाः ॥७६॥आत्मनिवेदिनः सर्वे सर्वपापविवर्जिताः ।वैकुण्ठयोग्या यूयं स्थ मम प्रसन्नतान्विताः ॥७७॥परीक्षिता मया सर्वे मदर्थकृतयत्नकाः ।मदर्थप्राणदातारो मदर्थकृतजीवनाः ॥७८॥त्यक्तसंसारपुत्रादिस्नेहाः साधुपरायणाः ।धामयोग्या मुक्तियोग्या भवथाऽत्र हिमालये ॥७९॥मत्प्रसादाद्दिव्यदेहा भवथाऽत्र सुगन्धिनः ।व्योमगाः संभवन्त्येव सर्वे दुःखविवर्जिताः ॥८०॥इतो दूरं न मे बद्रिकाश्रमो विद्यतेऽनघाः ।आयान्तु व्योममार्गेण सहसा तु मया सह ॥८१॥इत्युक्त्वा भगवान्नारायणो नरश्च बद्रिका ।व्योममार्गेण सर्वांस्तान्निन्युर्बदरिकाश्रमम् ॥८२॥बदर्यां अभितस्तत्र तस्थुस्ते भगवत्पराः ।ऊषुः पक्षं सेवमाना बद्रीनाथं नरं सतीम् ॥८३॥ऋषीन्देवान्पितृगणान्दिव्यान्दिवः समागतान् ।वीक्षयामासुरूर्ध्वज्ञा मुक्ता इवाऽभवँश्च ते ॥८४॥अथैकं तत्र विप्रं च तपन्तं तापसं मुनिम् ।व्यलोकयन् बदर्यग्रे नारायणजपान्वितम् ॥८५॥निराहारं ध्यानमग्नं दिव्यमूर्तिं जटान्वितम् ।व्यपश्यँश्च द्विजस्याऽग्रे त्वायातां कन्यकां शुभाम् ॥८६॥बदरीमूलतो दिव्यामुद्भूतामद्भुतां प्रभाम् ।विप्राय बदरं दत्वा व्यलीयत द्रुतं तु सा ॥८७॥बदर्यां सा लीनभावमुपयाता नरायणी ।दृष्ट्वाऽऽश्चर्यं तु परमं प्राप्तास्ते नृपमानवाः ॥८८॥तीर्थविधिं ततश्चक्रुर्नारायणस्य पूजनम् ।गंगास्नानं बदरस्य फलाहारं व्यधुस्तदा ॥८९॥नामसंकीर्तनं चक्रुर्नारायणगतासवः ।नीराजनं हरेश्चक्रुः प्रसादं जग्धुरुत्सुकाः ॥९०॥एकाग्रमानसा जाताः कृष्णे स्नेहद्रवान्विताः ।तावत्तेषां शरीराणि दिव्यानि तैजसानि वै ॥९१॥व्यजायन्त क्षणाद् बद्रि विमानं चागतं ततः ।निर्विकल्पसमाधिस्था दिव्येन्द्रियादिविग्रहाः ॥९२॥तैरेव विग्रहैर्दिव्यैरारुरुहुर्विमानकम् ।सर्वे चतुर्भुजा दिव्या नरा नार्यश्च बालकाः ॥९३॥वैकुण्ठमार्गं विमलं त्वविच्छिन्नं तथाऽम्बरे ।व्यलोकयन् हरिं नत्वा पार्षदैः सह तैजसैः ॥९४॥ययुर्वैकुण्ठधामाऽथ जयशब्दास्तदा दिवि ।देवानामभवन् बद्रि महर्षीणां शुभा रवाः ॥९५६॥नारायणाः सर्वनरा नारायण्यः स्त्रियस्तदा ।दिव्या वैकुष्ठयोग्यास्ते वैकुण्ठं विविशुः क्षणात् ॥९६॥साधुरूपस्य कृष्णस्य सेवाफलं हि मोक्षणम् ।दाराभाग्यनृपाद्याँस्तान् स्वप्ने ददृशिरे प्रजाः ॥९७॥मुक्तिं गतान् विमानेन महोत्सवान् प्रचक्रिरे ।एवं श्रीमाणिकीबद्रि बद्रिकाश्रमयात्रया ॥९८॥मुक्तिं यान्ति मानवा वै दिव्यदेहा विमानगाः ।पठनाच्छ्रवणादस्य स्मरणात् संस्तवादपि ॥९९॥भुक्तिं मुक्तिं लभन्ते वै बद्रीप्रभेतिवादिनः ।साक्षान्नारायणो यत्र यत्र त्वं बद्रिकाप्रभे ॥१००॥यत्र महर्षयो दिव्या गंगा यत्र च पार्वती।तत्र वैकुण्ठमेवास्ते पञ्चमं तपसाऽन्वितम् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दाराभाग्यनृपस्य सहस्रमानवयुतस्य बद्रिकाश्रमयात्रायां साधुसाध्वीरूपबदरीनरनारायणदर्शनं, परीक्षणं, नारायणार्थप्राणदानं, प्रसन्नता,व्योम्ना वद्रिकाश्रमप्रापणं, दिव्यदेहवत्त्वं, मोक्षणं चेत्यादिनिरूपणनामा सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP