संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ५२

तिष्यसन्तानः - अध्यायः ५२

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि देवद्रोहिकथां तथा ।
विक्रमाख्ये पुरे त्वासीत् क्षत्रियो नागविक्रमः ॥१॥
पूर्वकर्मानुरोधेन बाल्ये चास्तिक उत्तमः ।
देवपूजां साधुसेवां करोति भावतः सदा ॥२॥
द्रव्येच्छया भूपतित्वेच्छया राज्येच्छया तथा ।
यत्र यत्र भवन्त्येव सन्तो वा दैवपूरुषाः ॥३॥
तत्र तत्र सकामोऽयं प्रयात्याशीर्ग्रहेच्छया ।
यौवने सर्वथा क्षात्रधर्ममाश्रित्य योधने ॥४॥
तत्परो वर्तते नित्यं राज्येच्छया परैः सह ।
यत्र यत्र गतश्चायं योधनार्थं जयार्थकः ॥५॥
तत्र तत्राऽभवत्तस्य पराभवो जयो न तु ।
ततः स देवतानां तु मानता कृतवान् मुहुः ॥६॥
तत्रापि निष्फलत्वं स प्राप्तवान् विजयं न तु ।
एवं कृते मुहुः पश्चान्नास्तिक्यं त्वाप्तवान् स तु ॥७॥
पूजाया निन्दनं देवमूर्तेश्च निन्दनं तथा ।
खण्डनं धर्मशास्त्राणां धर्माणां खण्डनं तथा ॥८॥
साधूनां खण्डनं चापि व्रतानां खण्डनं तथा ।
दानानां खण्डनं सर्वसत्कर्मणां तु खण्डनम् ॥९॥
करोति सर्वथा वक्ति देवा मृषा हि मूर्तयः ।
सन्तो मृषा मानताश्च मृषा भवन्ति निष्फलाः ॥१०॥
पराक्रमं कृतं सत्यं दैवं दैवं तु निष्फलम् ।
पराक्रमं परं दैवं पुत्तलं दैवमेव न ॥११॥
तस्मात् पराक्रमं कार्यं तेन सर्वमवाप्यते ।
पराक्रमेण राजानो भवन्ति राज्यभोगिनः ॥१२॥
देवा मूर्तिमयाः सर्वे वञ्चनार्थं प्रकल्पिताः ।
न तत्र जायते चेच्छापूर्तिर्वा लाभ उत्तमः ॥१३॥
न ते वदन्ति ददति पूरयन्ति न वाञ्छितम् ।
तस्मान्मूर्तिर्मृषा बोध्या केवला काजनैः कृता ॥१४॥
जीविकार्थं कृता तत्र पाषाणे काऽर्थना भवेत् ।
फलं चेतनवृक्षाद्वै लभ्यते न तु भित्तितः ॥१५॥
गवादिभ्यः पयोलाभो न पाषाणगवादितः ।
मक्षिकागृहतः क्षौद्रं लभ्यते न तु शून्यतः ॥१६॥
चेतनाल्लभ्यते सौख्यं शवान्नैव तु लभ्यते ।
राज्ञेऽर्पितं फलत्येव बहुधा न शवाय तत् ॥१७॥
तस्माच्छवात्मकं काष्ठपाषाणाद्युत्थपुत्तलम् ।
देवता नास्ति सा साक्षाच्छिला प्रतारणार्थिका ॥१८॥
राजवेषधरो नाट्यकारो राजा न वै क्वचित् ।
देववेषधरा मूर्तिः शिला न देवता क्वचित् ॥१९॥
तादृशी या शिला मूर्तिः खण्डनीया हि सर्वशः ।
एवं नास्तिक्यमापन्नो निन्दत्येव तु देवताम् ॥२०॥
देवालयान् देवतायतनानि देवभूमिकाः ।
खण्डयत्येव सर्वत्र क्षत्रियो नागविक्रमः ॥२१॥
तथा विशेषतश्चापि देवद्रोहपरोऽभवत् ।
शंकरः सर्वदा कामी विष्णुर्हिंसापरायणः ॥२२॥
इन्द्रचन्द्रादयश्चापि कामवासनया हताः ।
कथं कल्याणदास्ते स्युः स्वयं दोषैः प्रपूरिताः ॥२३॥
साधवो भोजनासक्ता रसास्वादपरायणाः ।
विप्रा विवाहकर्माणो नारीमन्तो गृहाश्रमाः ॥२४॥
लोभाढ्यास्ते दोषवन्तः श्रेयसे स्युर्न सर्वथा ।
गुरवो मानिनः सर्वे पूज्यतालालसान्विताः ॥२५॥
एवं तृष्णामयी सृष्टिः श्रेयसे स्यात् कथं त्विह ।
ये तरन्ति तारयन्ति निमज्जन्ति न वै क्वचित् ॥२६॥
निमज्जन्त्येव ये ते न तारयन्ति कथंचन ।
तस्मात् सर्वं मृषा लोकेऽनृतं मूर्तिर्गुरुः सुरः ॥२७॥
पराक्रमं परं सत्यं यस्य तात्कालिकं फलम् ।
पराक्रमः सदा कार्यः श्रेयसे सर्वथा जनैः ॥२८॥
भाव्यं शूरेण वीरेण न षण्ढेन कदाचन ।
पराक्रमविहीनस्य दैवाशा षण्ढता मता ॥२९॥
न षण्ढाज्जायते गर्भो न दैवाल्लभ्यते फलम् ।
एवं श्रीबद्रिके नागपराक्रमो हि खण्डनम् ॥३०॥
देवद्रोहं करोत्येव तिष्ठन् गच्छन् जनव्रजे ।
अथैकदा विचार्येत्थं ययौ युद्धार्थमेव सः ॥३१॥
स्वसदृशान् क्षत्रियान् विंशतिं श्रेष्ठान् बलान्वितान् ।
संघे कृत्वा शस्त्रसज्जान् द्रव्यार्थं निर्ययौ बहिः ॥३५॥
स्वग्रामाद् योजनषट्के ग्रामं फलोदयं तु यत् ।
युद्धपुरमहाराज्यशासने वर्तते तु तत् ॥३३॥
तत्र योद्धुं गतः सर्वशूरैः सह सहेतिभिः ।
पर्णपत्रं लिखित्वैव प्राहिणोत् पत्रमुत्सुकः ॥३४॥
दूतेन शार्दूलविक्रमाख्यं ग्रामेश्वरं प्रति ।
ग्रामाध्यक्षो द्रुतं युद्धपुरेशस्य भटेश्वरम् ॥३५॥
न्यवेदयद् व्यवसायं नागविक्रमनामिनः ।
युद्धपुरमहाराजो ज्ञात्वा वृत्तान्तमुल्बणम् ॥३६॥
सैन्यं सम्प्रेषयामास गजैर्विमानकैस्तथा ।
धर्मयुद्धं तदा बद्रि तूर्णं तत्र व्यजायत ॥३७॥
नाराचैस्तोमरैः खङ्गैर्भल्लैः शिलिमुखैः शरैः ।
गोलकैः करवालैश्च भिन्दिपालैश्च मुद्गरैः ॥३८॥
दिव्यादिव्यायुधैश्चापि युद्धमर्धदिनं ह्यभूत् ।
युद्धराजमहाराजसैन्येनाऽभिजितास्तु ते ॥३९॥
क्षताश्चार्धजनाश्चार्धजनाश्च प्राणतो हताः ।
नागपराक्रमाद्याश्च दशकारागृहे तदा ॥४०॥
क्षिप्ता निगडपादास्तेऽभवन् कष्टप्रपीडिताः ।
क्षतपीडान्विताश्चापि पुनस्ते रोगपीडिताः ॥४१॥
कारागारेऽभवन् सर्वे देवद्रोहविधायिनः ।
देहांऽगघातभुग्नाऽस्थिमहापीडाऽतिपीडिताः ॥४२॥
नाऽऽप्नुवँस्ते मनाक् शान्तिं निद्रां निगडपातिताः ।
देवद्रोहफलं तेषां तृष्णया योधनात्तदा ॥४३॥
बद्रिके त्वागतं तूर्णं मोहाद्गर्वाद्बलात्तथा ।
अवलेपात् सुनास्तिक्यान्मृषा व्यापारयोजनात् ॥४४॥
प्राप्तं फलं समस्तं तद्भूमौ युद्धमिषेण वै ।
युद्धपुराधिपो भक्तोऽभवद् राजा नरायणे ॥४५॥
देवद्रोहकरं दुष्टं क्षत्रं ज्ञात्वाऽत्यपीडयत् ।
दण्डं ददौ महाघोरं देवद्राग्ध्रे विशेषतः ॥४६॥
द्रोहजन्यफलं नागप्राक्रमस्याऽभवच्छृणु ।
बद्रिके मूकतां प्राप्तो वृक्णतां खञ्जतां च सः ॥४७॥
बाधिर्यं कुष्ठितां लिङ्गक्षयतां चाऽन्धतां गतः ।
अन्ये साहाय्यकर्तारश्चापि योद्धार एव ये ॥४८॥
तेऽपि दण्डगृहे व्यंगा न्यूनाऽधिकतयाऽभवन् ।
भग्नगर्वा महाकष्टाः कदर्या इव तेऽभवन् ॥४९॥
बद्रिके मुग्धसंसारे लोका विवेकवर्जिताः ।
स्वबलैर्गर्वमापन्ना वृथा गर्जन्ति मेघवत् ॥५०॥
क्षणान्ते स्वविनाशं स्वसर्वस्वापगमं च ते ।
कालकृतं न जानन्ति गर्ववायुप्रपेरिताः ॥५१॥
यौवनं न स्थिरं चास्ते बलं नैव स्थिरं क्वचित् ।
अच्छेद्यं न शरीरं च मृषा द्रुह्यन्ति मोहिताः ॥५२॥
स्वं विनाशं चाह्वयन्ति बलिनां द्रोहकारिणः ।
देवद्रोहो बलिद्रोहश्चात्मद्रोहो विनाशकृत् ॥५३॥
देवानां द्रोहकरणाद् देवा निर्यान्ति देहतः ।
अन्धा वृकाः कुष्ठिनश्च पङ्गवस्ते भवन्त्यतः ॥५४॥
मनुष्याणां द्रोहभावाच्छापान् संप्रेरयन्ति ते ।
शापदग्धा विनश्यन्ति वंशैर्धनैश्च सम्पदा ॥५५॥
देवद्रोग्धुरकस्मात् स्यात् दैवं कष्टं प्रभूतकम् ।
दुःप्रधर्ष्यं प्रयोगैश्चाऽनिवर्त्यं जीवनान्तकृत् ॥५६॥
सर्वद्रोहात्परो द्रोहो देवद्रोहोऽधिको मतः ।
प्रतिकारोऽन्यद्रोहाणां देवद्रोहस्य नास्ति सः ॥५७॥
अपि स्वर्गगतं देवद्रोहो निपातयेद् द्रुतम् ।
अपि मोक्षगतं देवद्रोहस्तस्मान्निपातयेत् ॥५८॥
अद्रोग्धुः सर्वदा शान्तिर्द्रोग्धुर्वै सर्वदा भयम् ।
तस्माद् गर्वं परित्यज्य शान्तिं यच्छेन्न वै भयम् ॥५९॥
मानुषाणां भये प्राप्ते दैवी शान्तिः प्रयुज्यते ।
दैवे भयेऽपि शान्तिः सा दैवी भयनिवर्तिनी ॥६०॥
किन्तु देवद्रोहजे तु भये सा निर्बला वृथा ।
अन्यक्षेत्रकृतो द्रोहो देवक्षेत्रे निवर्तते ॥६१॥
देवक्षेत्रकृतो द्रोहो वज्रलेपायते सदा ।
देवरोषे प्रलयो वै फलं नान्यत् फलं क्वचित् ॥६२॥
तस्माद् देवास्तोषणीयाः साक्षाद्वा दूरतोऽपि वा ।
गोचरा वाप्यविषयास्तोषणीयाः सुराः सदा ॥६३॥
मूर्त्यात्मकाश्च वा चैत्यवृक्षात्मकाः स्थलात्मकाः ।
प्रेतात्मकाश्च वा देवास्तोषणीयाः क्षणे क्षणे ॥६४॥
तुष्टा देवाः सुखं स्मृद्धिं कुर्वन्ति तोषणं सदा ।
रुष्टा देवा रुषं हान्तिं कुर्वन्ति कष्टमुल्बणाम् ॥६५॥
गृहदेवा ग्रामदेवाः कुलदेवाः स्वदेवताः ।
इष्टदेवाः स्वर्गदेवास्तोषणीया विधानतः ॥६६॥
ऋतुदेवा यज्ञदेवा भूदेवा वायुदेवताः ।
इन्द्रियाणां देवताश्च तोषणीया विधानतः ॥६७॥
देहदेवा गुरौ देवा गोदेवाः साधुदेवताः ।
नारीदेवाः सतीदेवास्तोषणीया विधानतः ॥६८॥
अद्रिदेवाः सरिद्देवा वनदेवाः पथः सुराः ।
गोत्रदेवाः सर्वदेवास्तोषणीया विधानतः ॥६९॥
वास्तुदेवा यज्ञदेवा दिव्याः प्रासाददेवताः ।
यन्त्रमन्त्रतन्त्रदेवास्तोषणीया विधानतः ॥७०॥
सीमदेवा गर्भदेवाः गृहदेवा प्रजेश्वराः ।
शाखामण्डपदेवाद्यास्तोषणीया विधानतः ॥७१॥
जलदेवा वह्निदेवा विश्वेदेवाः सभासुराः ।
शक्तयो देवताः सर्वास्तोषणीया विधानतः ॥७२॥
वृद्धदेवाः सिद्धदेवाः पितृदेवाश्च भिक्षुकाः ।
ब्राह्मदेवाः पूज्यदेवास्तोषणीया विधानतः ॥७३॥
गृहदेवा राजसा वा तामसाः सात्त्विकास्तथा ।
आभिचारिकदेवाश्च तोषणीया विधानतः ॥७४॥
स्वप्नदेवा दिवादेवा रात्रिदेवास्तदाश्रिताः ।
देववाहनभृत्याद्यास्तोषणीया विधानतः ॥७५॥
विघ्नदेवाः क्रूरदेवा भूतदेवा विरोधिनः ।
आशापाशहता हते तोषणीया विशेषतः ॥७६॥
आशां कुर्वन्ति देवाश्च पितरोऽपि तथाविधाः ।
आशया ये तु वल्गन्ति सर्वे ते भिक्षुका यतः ॥७७॥
तोषणीयास्तदिष्टानां प्रदानैः सर्वभिक्षुकाः ।
प्रसन्नास्ते प्रकुर्वन्ति योगं क्षेमं क्षुखं सवम् ॥७८॥
कराशाः सर्वराजानः पूजाशाः सर्वदेवताः ।
मानाशाः श्रेष्ठिनः सर्वे सत्काराशास्तु पण्डिताः ॥७९॥
दानाशा भिक्षुकाः सर्वे श्राद्धाशाः पितरः सदा ।
भिक्षाशा भिक्षुकाः सर्वे ब्रह्माद्याः साधवः सदा ॥८०॥
पुत्राशा दम्पतीवर्गा द्रव्याशा निर्धनाः सदा ।
विवेकिनो निराशाश्च सन्तुष्टा देवतोत्तमाः ॥८१॥
एवंविधाऽस्ति वै सृष्टिस्तोषणीया हि देवताः ।
तोषणं सुखसंस्थानं तोषणं मोक्षणं तृषः ॥८२॥
तोषणं परमं स्वर्गं तुष्टोऽत्र ब्रह्मसदृशः ।
तृप्तिर्धर्मो हि साधूनां तृप्तिर्धर्मोऽस्ति मोक्षणे ॥८३॥
सदा तृप्तिर्हरावस्ति तृप्तिः सम्पत् परा मता ।
वासनाविलये तृप्तिः सदाऽऽत्मनां प्रजायते ॥८४॥
सा मुक्तिः सा परा शान्तिः परो मोदः प्रमोदनम् ।
तृप्तानां तु करे नित्यं ब्रह्मानन्दप्रवाहणम् ॥८५॥
बद्रिके दुःखमापन्नश्चाऽतृप्तोऽपि निवर्तते ।
दुःखं कष्टं गुरुस्तस्य येन दुःखी निवर्तते ॥८६॥
तथा दुःखं परं प्राप्तः कारागारे परश्रितः ।
नागपराक्रमश्चान्येऽन्ततस्तस्य सहस्थिताः ॥८७॥
सर्वे ते मनसा दध्युर्देवं नारायणं प्रभुम् ।
अनादिश्रीकृष्णनारायणं श्रुतं प्रियेश्वरम् ॥८८॥
बालकृष्णं कृष्णनारायणं श्रीमाधवीपतिम् ।
ध्यात्वा स्मृत्वा च शरणं ययुः कारालये हृदि ॥८९॥
कृष्णनारायणस्वामिन्नारायणेति सञ्जगुः ।
भक्तिं च भजनं ज्ञात्वा युद्धपुरनराधिपः ॥९०॥
प्रसन्नमानसो भूत्वा दोषक्षमां ततोऽकरोत् ।
कारागारविनिर्मुक्तान् प्रचकार दशापि तान् ॥९१॥
ते तूर्णं श्रीहरेः सर्वं माहात्म्यं परमं शुभम् ।
जानन्तो द्रोहशान्त्यर्थं पापनाशाय सर्वथा ॥९२॥
शर्करापत्तनं पारायणस्य मण्डपं ययुः ।
नत्वा देवं लोमशं च गुरुं धर्मप्रकाशकम् ॥९३॥
सभां नत्वा क्षमां तत्र ययाचिरे हरेः पुनः ।
कथाव्यासासने व्यासः क्षमयामास तत्कृतम् ॥९४॥
पाययामास तेभ्यश्च प्रसादाऽमृतवारि च ।
प्रसादान्नं तत्र तावद् भोजयामास ताँस्तदा ॥९५॥
ददौ मन्त्रं ततस्तेभ्योऽभयदानं तदा ददौ ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९६॥
प्रभोनारायण श्रीमाधवीनारायण प्रभो ।
राधाकृष्ण बालकृष्ण ललिताकृष्ण सद्विभो ॥९७॥
एवं तेभ्यो ददौ नाम तेऽपि चक्रुश्च कीर्तनम् ।
मासे गते तु माघस्य पूर्णायां सायमेव ह ॥९८॥
कथोत्तरक्षणे व्योम्नश्चागतं सुविमानकम् ।
अनादिश्रीकृष्णनारायणो यत्र विराजते ॥९९॥
श्रीवल्लभो द्रुतं तस्मादवातरद् भुवः स्थले ।
पस्पर्श पाणिना ताँश्च सर्वे मृतास्तदाऽभवन् ॥१००॥
दिव्यदेहा अभवँश्च विमाने तेऽभवन् स्थिताः ।
कृष्णनारायणो निन्ये तान् सर्वानक्षरं पदम् ॥१०१॥
एवं श्रीबद्रिके तत्र महाश्चर्यमभूत्तदा ।
पश्यतां सर्वलोकानां ययुस्ते परमं पदम् ॥१०२॥
इहैव भोगमापन्ना द्रोहस्य मोक्षणं ततः ।
श्रीकृष्णकृपया जातं कथायाः श्रवणेन च ॥१०३॥
कृष्णनारायणनामजपेन साधुसेवया ।
प्रसादान्नाशनेनापि मोक्षणं जातमुत्तमम् ॥१०४॥
सर्वद्रोहप्रणाशोऽपि श्रीकृष्णस्य कृपावशात् ।
तेषां जातो वज्रनाशो मोक्षश्चाऽपुनरागमः ॥१०५॥
बद्रिके श्रीकृष्णनारायणो गोपालबालकः ।
कम्भराश्रीसुतः सर्वान् मुक्तान् करोति भक्तिगान् ॥१०६॥
दोषान्नैव तथाऽघानि नैव पश्यति देहिनाम् ।
कृपयैव महामोक्षं करोति शरणार्थिनाम् ॥१०७॥
पठनाच्छ्रवणाच्चाऽस्य स्मरणात् प्रविचिन्तनात् ।
भुक्तिर्मुक्तिः परं स्वर्गं लभ्यते श्रीहरेः पदम् ॥१०८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने नागविक्रमस्य क्षत्रियस्य सर्वद्रोहिणो देवद्रोहिणश्च तत्सहायिनां च व्यंगत्वादिमहाकष्टं कारागारवासस्ततः संहिताकथाश्रवणेन नवद्रोहिसहितस्य पापनाशो मोक्षणं चेत्यादिनिरूपणनामा द्वापञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP