संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां सर्वाघहारिणीम् ।तटाधिष्ठानके ग्रामे गोवारो नामतोऽभवत् ॥१॥गवां पालः कुटुम्बाढ्यश्चारयत्येव गाः सदा ।गवां पञ्चशतं सीम्नि क्षेत्रेषु पीडकेषु च ॥२॥सस्यभूमिषु घासाढ्यक्षितावुच्छ्रायकेषु च ।नीत्वा नित्यं चारयति गोव्यापारश्च जीवति ॥३॥दुग्धदध्याज्यविक्रेता गोवारः स प्रजीवति ।करोति चापरं कार्यं ग्रामीणगोप्रचारणम् ॥४॥ग्रामीणानां गवां चापि चारणं स्वीयधेनुभिः ।साकं सीमसु सर्वत्र वृत्तिकां लभते तथा ॥५॥एवं निर्वाहमाप्नोति किन्तु लोभाभिकर्षितः ।अन्यासां तु गवां दुग्धं दोहयित्वा च विक्रयम् ॥६॥क्वचित् क्वचित् करोत्येव दुग्धचौर्यं तथाविधम् ।चतुःशतानि गावस्तु ग्रामीणानां भवन्ति ताः ॥७॥निजा गावः शतं चेति दुग्धदास्तु तदर्धिकाः ।ग्रामीणानां गवां नित्यं पञ्चानां दुग्धमेव सः ॥८॥चोरयत्येव मध्याह्नोत्तरं सीम्न्येव प्रत्यहम् ।नित्यमेवं रसचौर्यं करोति गोसतीष्वपि ॥९॥दोग्ध्रीषु च स्वकीयासु तृष्णातन्तुर्हि दुर्जरः ।रसस्तैन्यजपापेन कालान्तरे मृतो वने ॥१०॥जलान्नरहितः सोऽयं वने मार्जारतां गतः ।शर्करानगराभ्याशे मार्जारो भ्रमति प्रगे ॥११॥यद्वा रात्रौ भोजनार्थं समन्वेषणतत्परः ।समायाति महोद्यानं गन्धेन कर्षितस्ततः ॥१२॥आययौ भोजनोच्छिष्टोत्करपुञ्जसमीपगः ।तत्र कृष्णप्रसादान्नभोजिनां साधुयोगिनाम् ॥१३॥उच्छिष्टं प्राप्तवान् वन्यबिडालको मुदं गतः ।भक्षयामास तृप्तश्च ययौ रात्रौ वनान्तरम् ॥१४॥एवं करोति नित्यं स मिष्टगरिष्टभोजनम् ।तेनाऽलसः स सञ्जातो मासान्ते पुष्टदेहवान् ॥१५॥उत्करस्यैव पार्श्वस्थतृणपुञ्जे दिवानिशम् ।वासं स रोचयामास निर्भीकः स्तबकेष्वपि ॥१६॥स्तम्बेषु च क्वचिदस्ति स्वपिति भक्षणोत्तरम् ।क्वचिद् दिवा समायाति बहिः श्वादिविवर्जिते ॥१७॥चैत्रशुक्लत्रयोदश्यां भोक्तुमुत्करके स तु ।मध्याह्नोत्तरवेलायामागतो भयवर्जितः ॥१८॥उच्छिष्टं भुक्तवाँस्तत्र मूर्छां जगाम वै ततः ।व्यसुर्जातः क्षणात् तस्माद् दिव्यः पुमान् व्यजायत ॥१९॥सुरवद् दिव्यदेहश्च सर्वांगशोभनः शुभः ।उच्छिष्टमार्जका दृष्ट्वा महाश्चर्यमिदं ततः ॥२०॥पप्रच्छुस्तं देवजनं कस्त्वं मार्जारतां गतः ।कथं देवत्वमापन्नो नमस्तुभ्यं वदात्र नः ॥२१॥स चाहोच्छिष्टहाराँस्तु तटाधिष्ठानके पुरे ।गोवारनामकश्चाऽहं गवां चारोऽभवं पुरा ॥२२॥ग्रामीणानां धेनवश्च दोग्ध्रयः सुचारिता मया ।किन्तु तासां सुदुग्धानि सीम्नि प्रलोभिना मया ॥२३॥चोरितानि दोहितानि विक्रीतानि च चौर्यतः ।आजीवनं कृतं चौर्यं तेन पापेन वै मृतः ॥२४॥याम्यपुरे दुःखमयीर्यातनाः समलोक्य च ।भुक्त्वा दुःखान्यसंख्यानि ततो मार्जारतां गतः ॥२५॥जलान्नशून्यदेशे वै क्षुधातृषातिपीडितः ।श्वपदानां भौतियुक्तो भ्रमामि रक्षयँस्तु माम् ॥२६॥मार्गयामि भक्ष्यमेव जलं चापि मिलेद् यदि ।अटन् वनानि चागच्छं वने सिन्धुतटेऽधुना ॥२७॥जलयुक्ते प्रदेशेऽहं निवासं समरोचयम् ।रात्रौ रात्रौ विचरामि भक्ष्यलाभाय खेटकान् ॥२८॥महोद्यानाभिभूमौ चागच्छं दैवानुयोजितः ।उत्करं दृष्टवान् रात्रावुच्छिष्टबहुलं तदा ॥२९॥अभक्षयं यथेष्टं च तृप्तिं शान्तिमवाप च ।नित्यमेवं भक्ष्यमत्र प्राप्तं मया दिवानिशम् ॥३०॥पुष्टिं प्राप्तोऽत्र देहस्य महालस्यं गतोऽपि च ।अलसः सन्निवासं चारोचयं तृणपुञ्जके ॥३१॥नातिदूरे स्तबकेषु स्तम्बेष्वपि भ्रमाम्यहम् ।भुक्त्वा चात्र प्रयाम्येवं मासोऽत्र मे व्यवर्तत ॥३२॥उच्छिष्टं भुक्तवान्नित्यं कृष्णप्रसादभोजिनाम् ।साधूनां वैष्णवानां च तेनाऽघानि गतानि मे ॥३३॥नष्टपापो भवाम्यद्य प्रसादोच्छिष्टभोजनः ।पुण्यवान् भाग्यवानस्मि जातश्चाद्य भुवस्तले ॥३४॥कथास्थलीस्थसाधूनां प्रसादं प्राप्तवानहम् ।देवभावं चाधिगतस्त्यक्त्वा बिडालविग्रहम् ॥३५॥प्रयामि व्योमचारोऽहं स्वर्गं महेन्द्रपालितम् ।तत्र शतयुगं स्थित्वा यास्यामि बदरीवनम् ॥३६॥श्वेतद्वीपं ततश्चापि वैकुण्ठं च ततः परम् ।ततोऽऽक्षरपदं दिव्यं प्रयास्यामि च संशयः ॥३७॥अनादिश्रीकृष्णनारायणस्य परमात्मनः ।साधूनां सुप्रसादस्योच्छिष्टभोगफलं त्विदम् ॥३८॥जातं मे सर्वथा लोका यास्यामि स्वर्गमुत्तमम् ।स्वस्ति वोऽस्तु नमो वोऽस्त्वित्युक्त्वा दिवं ययौ द्रुतम् ॥३९॥उच्छिष्टमार्जकाः सर्वे महाश्चर्यं प्रपेदिरे ।अहो प्रसादमाहात्म्यं पशूनां देवताकरम् ॥४०॥विदित्वा ते कथायां वै कथान्ते चाहुरुत्सुकाः ।सर्वे ज्ञात्वा मेनिरे तां कृपां कृष्णस्य सर्वथा ॥४१॥शृणु बद्रीप्रिये देवि ठठ्ठोलस्य कथां तथा ।वस्त्रचौरोऽभवद्धूर्तः ठट्ठोलाख्यो वणिग्जनः ॥४२॥हनूदराख्यनगरे वस्त्रव्यापारवान् सदा ।वस्त्रापणाद् वस्त्रजातीन्यभिक्रीणाति नित्यदा ॥४३॥विक्रीणाति च तान्येव व्यापारं प्रकरोति च ।क्वचित् क्वचिद् वस्त्रचौर्यं करोति परवस्त्रतः ॥४४॥क्रये चौर्यं विक्रयेऽपि परकोशेभ्य इत्यपि ।ग्रन्थिचौर्यं करोत्येव यथा जानाति नेतरः ॥४५॥वस्त्रचौर्योत्थपापेन दारिद्र्यं समजायत ।अन्नवस्त्रादिहीनः स व्यजायत शनैः शनैः ॥४६॥कुटुम्बपोषणाऽशक्तो विचित्तः सोऽभवँस्ततः ।उन्मत्तः स गृहं त्यक्त्वाऽभ्रमद् ग्रामान्तरेऽपि च ॥४७॥प्रारब्धवशतापन्नो ज्वराविष्टोभवत्तः ।मृतो निर्जनदेशेऽसौ देहं काका अभक्षयन् ॥४८॥वस्त्रचौर्यस्य पापेन याम्यपुरं गतोऽभवत् ।तत्र भुक्त्वा नरकान् स वने जम्बुकतां गतः ॥४९॥क्षुधाव्याप्तो वस्त्रहीनः शीतोष्णपीडितः शठः ।धूर्तस्वभावयुक्तः स जम्बुकः शर्करापुरम् ॥५०॥अदूरवनतस्तत्र कथाऽभ्याशमुपाययौ ।रात्रौ भोजनलब्धीच्छाप्रेरितः पर्यटन् स्वयम् ॥५१॥उत्करं खाद्यसम्पन्नमुच्छिष्टसञ्चयान्वितम् ।प्राप चखाद तत्रान्नं प्रसादोच्छिष्टमुज्झितम् ॥५२॥सतां प्रसादोच्छिष्टं च बुभुजे तृप्तिपूर्वकम् ।एवं नित्यं भुक्तवान् स बद्रिके चोत्करोज्झितम् ॥५३॥तेन पापानि नष्टानि पशुजन्मार्थकान्यपि ।पूर्वजानि समस्तानि नूत्नजन्मानि यान्यपि ॥५४॥सर्वपापानि नष्टानि वासनाश्च क्षयं गताः ।शुद्धो जातः शृगालो यत् प्रसादो भेषजं सताम् ॥५५॥जन्मरोगहरः सर्ववासनाक्षयकृत्तथा ।हरेः सतां च साध्वीनां प्रसादो भेषजं महत् ॥५६॥संसाररोगमग्नानां प्रसादो रोगनाशकः ।ब्रह्मस्वास्थ्यप्रदश्चापि स्वर्गसौख्यप्रदस्तथा ॥५७॥पशूनां पक्षिणां चापि कीटानां क्षुद्रदेहिनाम् ।शाखिनां तृणजातीनामपि पापविनाशकः ॥५८॥स्वर्गदः पुण्यदो मोक्षप्रदश्चापि प्रसादकः ।दिव्यदृष्टिप्रदो दिव्यगतिप्रदः प्रसादकः ॥५९॥प्रसादान्नं प्रसादापो भुक्तं पीताः प्रमोक्षदाः ।पितरो मानवा देवाः पिबन्ति भुञ्जते ततः ॥६०॥हरेः प्रसादं मुक्त्यर्थं सतां प्रसादमित्यपि ।एवं भुक्त्वा नित्यमेव जम्बुकः शुद्धतां गतः ॥६१॥बद्रिके चैत्रपूर्णायां मध्यन्दिनोत्तरं स तु ।भक्षयामास चोच्छिष्टं मूर्छामवाप तत्क्षणम् ॥६२॥तावज्जम्बुकदेहात्तु पुरुषो देवरूपवान् ।सुदिव्यः प्राविरभवत् सर्वतेजोऽभिभासुरः ॥६३॥कर्मचारैस्तथाऽन्यैः संवीक्षितः स तदाम्बरे ।पृष्टः कस्त्वं कथं देवो जम्बुकाद्वै व्यजायथाः ॥६४॥स प्राहाऽहं वणिग्जातिर्हनूदरपुरालयः ।पुराऽऽसं ठट्ठोलकाख्यो वस्त्रव्यापारवान् सदा ॥६५॥विश्वस्तानां चापणेभ्यो वस्त्रचौर्यपरोऽभवम् ।वस्त्रकोशेभ्य एवाऽपि ग्रन्थिकाचौर्यतत्परः ॥६६॥एवं चौर्यप्रपापैश्च दारिद्र्यं प्राप्तवाँस्ततः ।उन्मत्तश्चाऽभवं मृत्युं गतो भ्रमन् वनान्तिके ॥६७॥देहं त्वभक्षयन् काका गृध्राश्च जम्बुका मम ।याम्यदुःखानि संभुक्त्वा पापलेशेन जम्बुकः ॥८॥वनेऽत्राऽस्मि प्रसंभूतः क्षुधाविष्टो भ्रमामि च ।वस्त्रहीनः सदा दुःखी भोजनार्थमिहोत्करम् ॥६९॥आगत्य प्रत्यहं चान्नं भुनज्म्युच्छिष्टमुत्तमम् ।हरेः प्रसादजं चान्नं सतामुच्छिष्टमुत्तमम् ॥७०॥पावनं पापहारं च नित्यं भुक्त्वाऽघवर्जितः ।पावनो वासनाहीनो जातोऽस्मि पुण्यवानहम् ॥७१॥कथाप्रसंगतश्चात्र मया प्राप्तं सुभोजनम् ।येनाऽहं देवतारूपो जातोऽस्मि च दिवंगतः ॥७२॥उषित्वा सुचिरं मार्गे ततो यास्यामि मोक्षणम् ।इत्युक्त्वा प्रययौ बद्रि देवो भूत्वा दिवं तदा ॥७३॥आश्चर्यं परमं प्राप्ताः कर्मचारास्तदा जनाः ।विविदुश्च प्रसादस्य माहात्म्यं स्वर्गमोक्षदम् ॥७४॥शृणु बद्रीप्रिये पश्चादाश्चर्यपरमं मनः ।अभवत् कर्मचाराणां प्रसादान्नादिभक्षणे ॥७५॥माहात्म्यसंविदस्ते च प्रसादं कर्मचारिणः ।पापनाशकरं ज्ञात्वा चखदुर्भावसंभृताः ॥७६॥तेषां वै कर्मचाराणां निर्मलान्यान्तराणि वै ।इन्द्रियादीन्यभवँश्च हृदयानि शुभानि च ॥७७॥पापशून्यानि जातानि श्रेष्ठविवेकवन्ति च ।तेषां तदाऽभवन् हृत्सु संकल्पा मोक्षहेतवे ॥७८॥मन्त्राणां ग्रहणे चापि सतां प्रसेवनेऽपि च ।नाम्नां कृष्णस्य रटने कीर्तने परमात्मनः ॥७९॥अथ ते वै शतं कर्मचाराः सेवापरायणाः ।जगृहुः परमं मन्त्रं नामधुन्यं च कीर्तनम् ॥८०॥स्वतःप्रकाशायनतो जापं चक्रुश्च कीर्तनम् ।नित्यं कथायाः श्रवणं कृत्वा कुर्वन्ति कीर्तनम् ॥८१॥एवं ते श्रद्धया युक्ता मन्त्रमाहात्म्यवेदिनः ।प्रसादस्य सतां सेवायाश्च माहात्म्यवेदिनः ॥८२॥भक्त्या कृष्णस्य भजनं चक्रिरे भोजनोत्तरम् ।मासान्ते भजतां तेषां कृष्णः प्रसन्नतां गतः ॥८३॥अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ।आकाशादाययौ तूर्णं स्वर्णविमानवाहनः ॥८४॥प्रसन्नमानसो दिव्यः सर्वाभरणभूषितः ।लक्ष्म्या जुष्टो ललितया माणिक्या परिसेवितः ॥८५॥राधया जपया पद्मावत्या च प्रज्ञयाऽर्चितः ।कर्मचारैर्नरैः सर्वैस्तथा कर्मपरायणैः ॥८६॥तदन्यमानवैश्चापि योषिद्भिः कर्मजुष्टिभिः ।दृष्टः श्रीभगवान् रम्यः सर्वकामार्थपूरकः ॥८७॥नतो मुहुर्जयशब्दैर्वर्धितश्चाऽक्षतादिभिः ।पूजितो हार्दकुसुमैर्विमानाद् भुवमागमत् ॥८८॥प्राह सर्वान् प्रसंवीक्ष्य कर्मचाराऽग्रमानवम् ।गृह्णन्नाम हरिं प्राह सर्वेषां शृण्वतां तदा ॥८९॥भो स्वर्णाञ्जन भृत्य त्वं पवित्रोऽसि प्रसादतः ।मन्ये नारीनराः सर्वे प्रसादभोजिनोऽपि च ॥९०॥कथासेवापराः सन्ति पावना गतकल्मषाः ।मुक्तियोग्याः समस्ता वै सर्वान्नेतुं ममाऽक्षरम् ॥९१॥आगतोऽपि समायान्तु सर्वे मे शाश्वतालयम् ।इत्युक्ता बद्रिके सर्वे कर्मचारा नराः स्त्रियः ॥९२॥सज्जा हलहलाशब्दैर्विमानं प्रति दुद्रुवुः ।कृष्णनारायणेनैते वारिकणैः प्रसिञ्चिताः ॥९३॥मूर्छां लब्ध्वा तनूस्त्यक्त्वा भूत्वा सुदिव्यविग्रहाः ।विमानमधिरुह्यैते दिव्या धामाऽक्षरं ययुः ॥९४॥वैशाखकृष्णैकादश्यां ययुर्धामाऽक्षरं हरेः ।शतं नराः शतं नार्यो दिव्या मुक्ताः सदाऽभवन् ॥९५॥जयनादान् प्रकुर्वन्तो मोदप्रमोदरञ्जिताः ।श्रावयन्तो जनान् सर्वान् किर्तनं ते ययुस्तदा ॥९६॥प्रभोनारायणकृष्णमालतौन्रायण प्रभो ।जयाकृष्णललितान्रायणराधापते विभो ॥९७॥एवं तालीर्वादयन्तः कुर्वन्तः किलकिलाटिकाः ।आह्वयन्तो भूतलस्थान् ययुर्धामाऽक्षरं हे ते ॥९८॥बद्रिके श्रीहरेश्चाऽयं प्रसादः कृपयाऽन्वितः ।भुक्तिं मुक्तिं ददात्येव तथेष्टं प्रददात्यपि ॥९९॥भजतां भगवन्तं वै न न्यूनं त्ववशिष्यते ।सेवतां साधूवर्यांश्च सर्वं पूर्णं प्रवर्तते ॥१००॥रटतां श्रीहरेर्नाम भस्मीभवन्त्यघानि वै ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥१०१॥इत्येवं जपतां मन्त्रं जायन्ते पुण्यकोटयः ।स्मरतां श्रीहरिं बद्रि साक्षात् कृष्णोऽभियाति च ॥१०२॥अर्पयतां समस्तं च गतिर्धाम्न्यक्षरेऽस्ति च ।स्वयं नारायणः श्रीमान्नयत्येतान्निजाऽऽलयम् ॥१०३॥पठतां शृण्वतां चापि स्मरतां मोक्षदं त्विदम् ।सर्वेष्टपूरकं बद्रि शाश्वतानन्ददायकम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पूर्वजन्मनि धेनुपालस्य गोवाराभिधस्य मार्जारतां गतस्य, पूर्वभवे ठट्ठोलाख्यवणिग्जनस्य शृगालता प्राप्तस्य,स्वर्णाञ्जनादिशतद्वयकर्मचारिनरनारीणां च, प्रसादभोजनेन सेवाकथादिना च, मोक्षणमित्यादिनिरूपणनामा सप्तषष्टितमोऽध्यायः ॥६७॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP