संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|

तिष्यसन्तानः - अध्यायः ११८

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि रंगमहोलमुत्तमम् ।
सभामहोलमुत्कृष्टं वासमहोलमित्यपि ॥१॥
शय्यामहोलमुच्छ्रैष्ठ्यं महोलं मन्दिराभिधम् ।
स्नानमहोलनैर्मल्यं खेलमहोलमित्यपि ॥२॥
शान्तिमहोलसौख्यं च शृंगारार्हमहोलकम् ।
महोलं भोजनाख्यं च पूजामहोलमित्यपि ॥३॥
सर्वागममहोलं च भक्तसेवामहोलकम् ।
तथा रहस्यमुक्तानीकृतसेवामहोलकम् ॥४॥
पट्टांगनामहामुक्तानिकामहोलकं तथा ।
अन्तःपुरमहोलं च षोडशेतिमहोलकान् ॥५॥
ब्रह्मप्रियाद्या मुक्ताश्च व्यपश्यन् बहुविस्तरान् ।
लक्षयोजनविस्तारान् प्रत्येकं तान् महोलकान् ॥६॥
रंगमहोलसंज्ञो यो महोलः परमात्मनः ।
अनादिश्रीकृष्णनारायणस्य सन्निवासवान् ॥७॥
सर्वो दिव्यसुवर्णात्मा सच्चिदानन्दतैजसः ।
सर्वर्द्धिसिद्धिसामर्थ्यासंख्यैश्वर्यादिसंभृतः ॥८॥
सर्वोर्ध्वध्वजसंशोभद्वृत्तमण्डपराजितः ।
असंख्यस्तम्भशोभाभिः रमणीयमनोहरः ॥९॥
कल्पलताऽक्षयपात्रचिन्तामण्यादिकोणकः ।
सर्वभोग्यादिसंराजत्पार्श्वशालादिराजितः ॥१०॥
असंख्यतोरणालम्बिकम्मानिकातिसुन्दरः ।
दिव्यातिदिव्यतेजोभिर्हरेः समन्ततः शुभः ॥११॥
मध्ये ब्रह्मासनाढ्यश्च वितानछत्रचामरैः ।
दिव्यदेवतामुक्ताभिः पुष्पस्रगाभिवर्षितः ॥१२॥
यत्तेजांसि हरेः सिंहासनतेजोभवानि वै ।
तत्तेजांसि प्रसरन्ति चान्यमहोलकेषु ह ॥१३॥
अन्यमहोलतेजांसि वर्तुलानि प्रयान्ति च ।
बहिर्दुर्गाभिसम्मुखान्यतीव सर्वसृष्टिषु ॥१४॥
ब्रह्मासनेऽनादिकृष्णनारायणो विराजते ।
परेश्वरो मूलरूपः सर्वस्वामी सदीश्वरः ॥१५॥
सर्वाभरणभूषश्च सर्वसुगन्धसंभृतः ।
सर्वरूपातिरूपाढ्यः सुन्दरेभ्योऽपि सुन्दरः ॥१६॥
युवाऽऽषोडशवर्षोनः सर्वकान्तामनोहरः ।
सर्वशृंगारशोभाढ्यः सर्वेषां हृदयंगमः ॥१७॥
सहस्रस्तम्भयुक्सौम्यब्रह्मासने विराजितः ।
शतसोपानोर्ध्वपीठे समासीनः स कोमले ॥१८॥
सर्वपूजोपहाराद्यैरर्चितो मुक्तकोटिभिः ।
तमेनं परमात्मानं कान्तं परमपूरुषम् ॥१९॥
दृष्ट्वाऽऽनन्दं ययुः सर्वरहस्यमुक्तकोटयः ।
रंगमहोले मुक्तास्ते व्यपश्यन् स्वान् हि कोटिशः ॥२०॥
दिव्यरत्नगतरूपान् नैजानसंख्यकानपि ।
भित्तौ ते च ततोऽपश्यन् धामसृष्टीः समस्तिकाः ॥२१॥
चरुष्वपि ततोऽपश्यन्नीश्वराखिलसर्जनम् ।
पट्टिकासु ततोऽपश्यन् ब्रह्माण्डानि समस्ततः ॥२२॥
एवंविधं परं साक्षादनुभवं हि लेभिरे ।
कोणके कोणके सर्वसृष्टिव्यूहा भवन्ति हि ॥२३॥
तलके तलके तत्र सर्वधामानि सन्ति हि ।
फलके फलके सर्वब्रह्माण्डानि भवन्ति हि ॥२४॥
अनन्ताराधिकास्तत्राऽसंख्याश्च कमलास्तथा ।
असंख्याश्चापि माणिक्यः पद्मावत्योऽप्यसंख्यकाः ॥२५॥
प्रिया अनन्तकास्तत्र लक्ष्म्योऽप्यनन्तका ह्यपि ।
रमा अनन्तकाश्चापि श्रियः सन्त्यप्यनन्तकाः ॥२६॥
रंगमहोलमध्ये श्रीकृष्णनारायणप्रियाः ।
कृष्णनारायणरूपप्रतिमा मुक्तविग्रहाः ॥२७॥
सर्वाः पुंरूपिण्य इति सेवन्ते कान्तमुत्सुकाः ।
रहस्यरूपधारिण्यः सेवने शयनालये ॥२८॥
पुंरूपप्रधारिण्यस्ताः सेवन्ते रंगमण्डपे ।
ब्रह्मप्रिया असंख्याश्चाऽप्यसंख्याश्च हरिप्रियाः ॥२९॥
कार्ष्ण्योऽप्यनन्ताः सेवन्ते हरिण्यो हरिमच्युतम् ।
नारायण्योऽप्यसंख्याश्च माधव्योऽपि तथाविधाः ॥३०॥
लीलाश्चापि तथा वासुदेव्यश्चापि ह्यसंख्यकाः ।
पद्माश्चापि च पद्मिन्यस्तुलस्यश्चाप्यसंख्यकाः ॥३१॥
शारदाश्च सरस्वत्यो गंगा यम्योऽप्यसंख्यकाः ।
पुंमुक्ताख्याः प्रसेवन्ते कान्तं कृष्णं नरायणम् ॥३२॥
पूजयन्ति प्रभुं कान्तं रामयन्ति रमोत्तमाः ।
प्रेंखायां श्रीहरिमान्दोलयन्ति गीतिकोविदाः ॥३३॥
शृंगारयन्ति कमला स्वामिश्रीकृष्णमीश्वरम् ।
संवाहयन्ति चांगानि हरिण्यश्च हिरण्यभाः ॥३४॥
भोजयन्ति प्रभुं सर्वरस्यभोजनपानकैः ।
सुखयन्ति कृपानाथं सर्वाश्लेषप्रदानकैः ॥३५॥
सुखं गृह्णन्ति कान्तात् ता रहस्यमन्दिरश्रिताः ।
पाययन्ति हरिं दिव्यशर्करैलार्ककेसरैः ॥३६॥
मिश्रितानि सुदुग्धानि कामधेनूद्भवानि वै ।
एवंविधे महारंगमहोले हीरकोत्तमाः ॥३७॥
विद्यन्तेऽसंख्यरत्नानि स्वर्णहाराश्च शोभनाः ।
तैस्तैः कान्तं भूषयन्ति कान्ताः श्रीकान्तवल्लभम् ॥३८॥
तत्र ब्रह्मप्रियाद्यास्ताः स्वामिना सह संगताः ।
तत्रापि भगवान् कृष्णो द्वितीयरूपधृक् प्रभुः ॥३९॥
ताभिर्विलोकितः कान्तो द्वयोरैक्यं ततोऽभवत् ।
ब्रह्मसिंहासने तत्र व्यराजत परेश्वरः ॥४०॥
राजाधिराजशोभाढ्योऽनन्तमुक्ताऽभिसेवितः ।
बद्रिके महदाश्चर्यं व्यलोकयँश्च तत्स्थले ॥४१॥
प्रत्येकं ये कृष्णनारायणा ह्यासन् सहागताः ।
प्रतिमुक्तेन सहते परकृष्णे लयं गताः ॥४२॥
ब्रह्मसिंहासनेऽनादिकृष्णनारायणे प्रभौ ।
लयं यातान् निजकान्तान् वीक्ष्याऽऽश्चर्यं परं गताः ॥४३॥
तत एव प्रिया मुक्ता आकृष्टाः सुखमूर्छिताः ।
मुग्धाः कान्ते परे देवे पुपूजुस्तुष्टुवुर्मुदा ॥४४॥
आरार्त्रिकं प्रचक्रूश्च समाश्लिक्षन् पतिं प्रभुम् ।
समूचुः श्रीहरिं मुक्ताः प्रलुब्धाः परमेश्वरे ॥४५॥
हरे कृष्ण कृपासिन्धो त्वमेव परमः पुमान् ।
राजसेऽनन्तकृष्णात्मा सेवनीयोऽसि नः सदा ॥४६॥
भवतः सम्पदः सर्वाः प्रदर्शयाऽत्र नो विभो ।
महोलाः षोडश दिव्या बहिष्टो वीक्षिताः खलु ॥४७॥
आन्तरं वीक्षितुं सर्वं समीच्छामः प्रभोपते ।
बहिष्टोऽनन्तपारास्ते दृश्यन्ते माधवीपते ॥४८॥
तैजसोर्ध्वा यथा सूर्यास्तैजसानां सदाधिकाः ।
ब्रह्माण्डेषु भवन्त्येव तथा महोलकास्तव ॥४९॥
षोडशानां सुमध्यस्थो रंगमहोलकस्तव ।
कोटिसूर्यात्मकः सूर्य इवाऽऽभाति समन्ततः ॥५०॥
सर्वाधिको महाराज! मनोमोहकरो हि नः ।
प्रदर्शय प्रभो सर्वान् सम्पदां निलयान् हि नः ॥५१॥
बद्रिके श्रीहरिस्तूर्णं दर्शयितुं तु तैः सह ।
रंगमहोले बभ्राम यत्रर्द्ध्यो ह्यसंख्यकाः ॥५२॥
दिव्यचिन्तामणीनां वै भित्तयश्च तलानि च ।
दिव्यचिन्तामणीनां च स्वर्णानां भूषणानि च ॥५३॥
दिव्यरत्नस्रजो रम्या दिव्यतोरणपंक्तयः ।
दिव्यवेषा दिव्यसर्वोपस्करा दिव्यभूमिकाः ॥५४॥
दिव्यसर्वास्तरणानि दिव्यासनानि मूर्तयः ।
दिव्यपात्राणि सर्वाणि दिव्यमञ्जुषिकादिकाः ॥५५॥
शृणु श्रीबद्रिके तत्र सन्ति रङ्गमहोलके ।
एकैकस्माद् वस्तुनस्तु बीजमणीन्द्रसंज्ञकात् ॥५६॥
यथेष्टमुद्भवाः सञ्जायन्तेऽसंख्यसजातिकाः ।
रूपकुल्या रसकुल्या गन्धकुल्या मणीश्वराः ॥५७॥
दधिकुल्या मधुकुल्याः सुधाकुल्या मणीश्वराः ।
आनन्दघनपानादिकुल्यास्तृप्तिप्रदास्तथा ॥५८॥
सर्वलावण्यकुल्याश्च मण्यो रस्यसम्प्रदाः ।
रहस्यमुक्तनिवहैर्वीक्षिता भोग्यदास्तदा ॥५९॥
केशाः सर्वाधिका बद्रि शृंगारद्रव्यसम्प्रदाः ।
भूषावस्त्रप्रदा वेषप्रदास्तत्र विलोकिताः ॥६०॥
लक्षशो भूमिकाः कक्षाः सच्चिदानन्दभायुताः ।
एकैकया प्रियया च सह स्थितः पतिः प्रभुः ॥६१॥
अनादिश्रीकृष्णनारायणाः प्रत्येकमन्दिरे ।
विलोकितः समस्ताभिर्दिव्यमुक्तानिकादिभिः ॥६२॥
सर्वोत्कृष्टमहानन्दघनवर्षणकारिणः ॥
विलोकितास्तत्र कृष्णमणयः कान्तमूर्तिजाः ॥६३॥
परावर्त्तनमण्यो लताकुञ्जमणिव्रजाः ।
महोद्यानादिमणयश्चाराममणयस्तथा ॥६४॥
विलोकिताः समस्ताभिस्तत्र रत्नादिहेतवः ।
हिरण्मय्यश्रियः सर्वा लोकिता वै समन्ततः ॥६५॥
सूर्यचन्द्रादिमणयो दर्पणादर्शपट्टकाः ।
विलोकिताः समस्ताभिः रंगमहोलकेऽभितः ॥६६॥
स्वस्वरूपाणि सर्वाणि विलोकितानि तत्र च ।
रहस्यमुक्तनिवहैः स्पृहावद्भिर्महोलके ॥६७॥
अत्याश्चर्यमिदं तत्र दृष्टिपथमभूद् गतम् ।
कृष्णनारायणमूर्तौ स्थितायां रंगमण्डपे ॥६८॥
परधामसमस्तं वै मस्तके तैर्विलोकितम् ।
अक्षरं धाम हृदये मायाधामोदरे तथा ॥६९॥
अवतारादिधामानि मुखे विलोकितानि वै ।
ईश्वराणां तु लोकाश्च जद्यने ह्यवलोकिताः ॥७०॥
ब्रह्माण्डानि पादयोस्तु विलोकितानि तैस्तदा ।
लिङ्गे संकर्षणरुद्रशंकरास्तैर्विलोकिताः ॥७१॥
अनिरुद्धा वेधसश्च नाभौ तस्य विलोकिताः ।
प्रद्युम्ना विष्णवस्तस्य वृषणयोर्विलोकिताः ॥७२॥
महापुमान् महाकालो भ्रकुटौ तस्य लोकितौ ।
प्रकृतिश्च महामाया तदिच्छायां विलोकिता ॥७३॥
साक्षी वासुदेव एतौ बुद्धौ तस्य विलोकितौ ।
कृष्णो नारायणस्तस्य भुजयोस्तैर्विलोकितौ ॥७४॥
प्रियाः सर्वा हरेर्वामे पार्श्वे कुक्षौ विलोकिताः ।
आत्मानश्च हरेर्दक्षे नराः सर्वे विलोकिताः ॥७५॥
विहंगमाः पृष्ठदेशे यादांसि तु नितम्बके ।
वामे दक्षे तु तिर्यञ्चः शाखिनः सर्वरोमसु ॥७६॥
कन्दा रोम्णां तु मूलेषु रोमकूपेषु वल्लिकाः ।
पर्वताः कठिने तस्य नद्यो नाडीषु सर्वशः ॥७७॥
एकतत्त्वात्मके तस्मिन् तस्यैव कृपया बहून् ।
भेदान् विलोकयामासू रहस्यमुक्तकोटयः ॥७८॥
सुराष्ट्रं तस्य भाले वै भालमध्येऽश्वसारसम् ।
तस्य निजस्वरूपाणि व्यलोकयन् हरेः प्रियाः ॥७९॥
आहोऽस्य बद्रिके पारो वैभवानां न गम्यते ।
यद्यन्मूर्तौ च तत्सर्वं रंगमहोलकेऽभितः ॥८०॥
विलोकितं प्रियाभिर्वै व्यतिरिक्तं तदिच्छया ।
पुनश्च कृपया तत्र तत्र वस्तुनि माधवः ॥८१॥
प्रकाशमगमद् वस्तु तिरोभावमुपागमत् ।
अन्वितः श्रीकृष्णनारायणश्रीपतिवल्लभः ॥८२॥
विलोकितः समस्ताभिः सर्वात्मकोऽभितः पतिः ।
शरीरीव तदन्तःस्थो बहिःस्थश्चापि लोकितः ॥८३॥
वस्तु विलीय सहसा लोकितः स तदैकलः ।
स्वराट् सम्राण्महाराट् स एक एवाऽद्वितीयकः ॥८४॥
तत्रैकतां तदा प्राप्ता अनादिमुक्तकोटयः ।
परमुक्तकोटयश्च लोकिताः श्रीहरौ तदा ॥८५॥
मूर्तिमग्ना जले यद्वन्मीना इव ह्यसंख्यकाः ।
एकत्वरसवेत्तारश्चाऽपृथग्भावमास्थिताः ॥८६॥
न निःसरन्ति ते क्वापि मूर्तिलग्ना बहिः क्वचित् ।
येषां पारो न वा सीमा न संख्या न च मानकम् ॥८७॥
ह्येषा मूर्तिमयी सृष्टिः परधाम्नोऽतिरेकिणी ।
वीक्ष्य तां परमाश्चर्यं गता रहस्यमुक्तिगाः ॥८८॥
मानं च गलितं तासां न्यूनस्थित्या तदग्रतः ।
अथ ताश्चार्थयामासुः कान्ते स्थितिं तु तादृशीम् ॥८९॥
हरिर्ददौ च वचनं महोलदर्शनोत्तरम् ।
ततो वै दर्शयामास वासमहोलमुत्तमम् ॥९०॥
लक्षयोजनमानं च सर्वर्द्धिपूर्णमच्युतः ।
ततश्च दर्शयामास शय्यामहोलमुत्तमम् ॥९१॥
कोट्यर्बुदाब्जकान्तानां शय्यापर्यंकमण्डितम् ।
सर्वशृंगारवेषार्होत्तमद्रव्यादिसंभृतम् ॥९२॥
अदृष्टपूर्वमेनं च दृष्ट्वाऽऽश्चर्यं परं ययुः ।
अथ स्वमन्दिरं पश्चाद् दर्शयामास माधवः ॥९३॥
यत्र माता कभ्भराश्रीः पिता गोपालकृष्णकः ।
सन्तुष्टा च स्वसाऽप्यास्ते शुकश्च भगवानपि ॥९४॥
वल्लभश्च तथा तेषां भक्ता वसन्ति सर्वदा ।
तत्तन्मूलस्वरूपेषु मातापित्रादिकान् हरिः ॥९५॥
सर्वेषां पश्यतां तत्र कृपयाऽन्तरभावयत् ।
आश्चर्यं परमं तद्वै वीक्ष्य तेऽपि मुदं ययुः ॥९६॥
तत्रैवोषुर्यथेष्टं वै मात्राद्या मन्दिरालये ।
सर्वर्द्धिसहिते लक्षयोजने दिव्यविग्रहे ॥९७॥
अथ स्नानमहोलं च दर्शयामास सत्पतिः ।
दिव्यस्नानविधानानि वीक्ष्याऽऽश्चर्यं परं ययुः ॥९८॥
प्रस्रवणाः समस्ताश्च क्षीरनीराज्यमाधवाः ।
सुधाऽमृताऽऽनन्दमोदप्रमोदादिप्रवाहिणः ॥९९॥
वीक्षिताः सर्वसौगन्ध्यमृदुपेशलवार्युताः ।
ततस्ताभिर्वीक्षितश्च खेलमहोल उत्तमः ॥१००॥
सर्वानन्दरमणानि खेलसाधनकानि च ।
यत्र दिव्यानि वै सन्ति कल्पलभ्यानि सर्वथा ॥१०१॥
ततः शान्तिमहोलं च दर्शयामास केशवः ।
सर्वशान्तिप्रदं सर्वशान्तिसाधनसंभृतम् ॥१०२॥
ततश्च दर्शयामास शृङ्गारोद्यानमुत्तमम् ।
लक्षयोजनविस्तारं सुशृंगारमहोलकम् ॥१०३॥
कोट्यर्बुदाब्जपद्मानां शृङ्गारवस्तुपूरकम् ।
मूर्तिकल्पलताव्याप्तं सर्वेष्टसम्प्रदं शुभम् ॥१०४॥
कुंकुमाऽलक्तकवल्लीः कज्जलाऽक्षतवल्लिकाः ।
चन्दनद्रवलतिका गन्धसारद्रवद्रुमान् ॥१०५॥
स्नेहसारनवनीतपिण्डान् मृदुरसानपि ।
वीक्ष्य मोदं परं प्राप्ता रहस्यमुक्तिगास्तदा ॥१०६॥
भोजनानां महोलं च दर्शयामास मुक्तिकृत् ।
सर्वविधासु दिव्यास्वदिव्यासु सर्वसृष्टिषु ॥१०७॥
यद्यद् भोज्यं भक्ष्यवर्यं चोष्यं लेह्यं च पानकम् ।
तस्य सर्वस्य मूलं वै दिव्यं भोज्यं समस्तकम् ॥१०८॥
सर्वं दैवं चैश्वरं चाऽवतारीयं च मोक्तिकम् ।
आत्मीयं ब्राह्ममेवापि सर्वं तत्र प्रवीक्ष्यताः ॥१०९॥
स्पृहावत्योऽभवन् भोक्तुं भोजयामास तत्पतिः ।
चान्तिमां परमां तृप्तिं बहिर्भावां ददौ प्रभुः ॥११०॥
ततः पूजामहोलं च लक्षयोजनविस्तरम् ।
सर्वपूजार्हणायोग्योपस्कारवस्तुसंभृतम् ॥१११॥
दर्शयामास भगवान् पूजां प्रचक्रिरे तु ताः ।
सर्वागममहोलं च दर्शयामास धामपः ॥११२॥
सर्वसृष्टिनिवासानामागमार्थकृतक्षणम् ।
समाधियोगिनां यत्र कृष्णयोगः प्रजायते ॥११३॥
यत्रैकके मणौ सर्वसृष्टयो दृष्टिगोचराः ।
प्रजायन्ते च वीक्ष्यैनं भक्तसेवामहोलकम् ॥११४॥
व्यलोकयँश्च ते मुक्ता यत्र सेवां हरेः सदा ।
मुक्ताः कुर्वन्ति विविधां मुक्तसेवां हरिस्तदा ॥११५॥
परस्परप्रसेवानां वीक्ष्य सेवकतां तयोः ।
महाश्चर्यं ययुः सर्वाः परं भाग्यं हि मेनिरे ॥११६॥
दर्शयामास भगवान् स्वं रहस्यमहोलकम् ।
यत्र कान्ता इमाः सर्वाः कान्तं श्रीकृष्णवल्लभम् ॥११७॥
सर्वकामप्रदा नित्यं सेवन्ते शयनादिषु ।
असंख्यकान्ताधामैतद् वीक्ष्याऽऽश्चर्यं गताः स्त्रियः ॥११८॥
ततश्च दर्शयामास पट्टांऽगनामहोलकम् ।
यत्र शतं तथा चत्वारिंशत् सन्ति निजांगनाः ॥११९॥
सहस्रसेविकायुक्ताः प्रत्येकं स्वपतिं हरिम् ।
सेवन्ते सर्वदा बद्रि! वीक्ष्य मोदं प्रलेभिरे ॥१२०॥
तासु तास्ता लयं प्राप्ता निजमूलासु योषितः ।
अथ श्रीभगवान् बद्रि चान्तःपुरमहोलकम् ॥१२१॥
दर्शयामास सर्वास्ता अनन्तमानमृद्धिदम् ।
भजन्ते कान्तभावेन कृष्णनारायणं तु याः ॥१२२॥
सर्वसृष्टिषु सर्वत्र सर्वास्ता यान्ति तत्र ह ।
लभन्ते कान्तमेवैनं चान्तःपुराख्यधामनि ॥१२३॥
वीक्ष्य ताः परमाश्चर्यं प्राप्य ववन्दिरे पतिम् ।
निजतादात्म्ययोगार्थं मूर्तौ वासाय सर्वदा ॥१२४॥
हरिर्विज्ञाय तद्भावं समाश्लेषं स्ववक्षसि ।
ददौ प्रेम्णा ददौ वासं चान्तर्भाव्य निजे हृदि ॥१२५॥
स्वमूर्तौ मूर्तिगर्भाख्यसृष्टौ वासं ददौ सदा ।
कोट्यर्बुदाब्जपत्नीः स्वाः सखीभिः सहिताः प्रियाः ॥१२६॥
अन्तर्भाव्य ययौ कृष्णो निजे रंगमहोलके ।
एकलो भगवान् कृष्णश्चैकधा बहुधापि सन् ॥१२७॥
भक्तेच्छापूरकश्चैवं स्वेच्छास्वतन्त्रभागपि ।
स्वस्मिन् स्वस्यैव विस्तारं स्वं समावेशयत्प्रभुः ॥१२८॥
पुत्रपुत्र्यादिकं सर्वं दासदासीप्रविस्तरम् ।
स्वोद्भावितं स्वविस्तारं स्वस्मिन्नावेशयत्प्रभुः ॥१२९॥
अथ क्षणात् तिरोभूय कुंकुमवापिकालये ।
लोमशेन पुनः स्वतःप्रकाशेन पुनस्तथा ॥१३०॥
लक्ष्म्या हृदि स्थयाऽश्विन्या माणिक्यया च वाहया ।
विमानेनापि युक्तः श्रीहरिश्चाश्वसरो ययौ ॥१३१॥
प्रज्ञापद्मावतीयुक्तो जलं पपौ जगद्गुरुः ।
यात्रामेतां च सप्तायतनं स्मरेत् तु यो जनः ॥१३२॥
स यायाच्छ्रीकृष्णस्वाम्याचार्यश्रीहरिधाम वै ।
अनादिश्रीकृष्णनारायणः प्रज्ञा च माधवी ॥१३३॥
लक्ष्मीश्च लोमशः स्वतःप्रकाशो माणिकी च तत्॥
सप्तायतनमेतद्वै स्मर्तव्यं सर्वदा जनैः ॥१३४॥
परब्रह्म कृष्णनारायणस्तिस्रोऽस्य शक्तयः ।
ज्ञानशक्तिः प्रमा चेच्छाशक्तिर्लक्ष्मीः प्रकीर्तिता ॥१३५॥
पद्मावती क्रियाशक्तिर्माणिक्या शाश्वती छविः ।
स्वतःप्रकाशः संकल्पो लोमशो ब्रह्मशीलता ॥१३६॥
स्थापयेत् पूजयेद् यस्तान् सर्वान् कामानवाप्नुयात् ।
हरेर्मूर्त्तः प्रभा कान्तिः पद्मावती तु दिव्यता ॥१३७॥
लक्ष्मीश्च कमनीयत्वं माणिक्या स्वच्छतात्मिका ।
स्वतःप्रकाशः परिधिर्लोमशो रोमरूपधृक् ॥१३८॥
विदित्वैवं सप्तरूपं कृष्णनारायणात्मकम् ।
पृथङ्मुक्तिमतिक्रम्य मूर्तिमुक्तिं प्रयाति सः ॥१३९॥
राधां दुःखहरां शक्तिं लक्ष्मीं सम्पत्प्रदां तथा ।
प्रज्ञां स्वरूपदां शक्तिं पद्मावतीं तु मोक्षदाम् ॥१४०॥
लोमशं मेऽनादिमुक्तं ब्रह्म स्वयंप्रकाशितम् ।
सप्तायतनकं त्वेवं विदित्वा कृष्णरूपगम् ॥१४१॥
मुक्तिं यान्ति परां त्वेवं परे धाम्नि न संशयः ।
एवमाह पुरा बद्रि हरिर्मां परमेश्वरः ॥१४२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने परधामनि रङ्गमहोलादिषोडशमहोलानां रहस्यमुक्तेभ्यः प्रदर्शनं, तदर्द्धिप्रदर्शन, स्वमूर्तौ सर्वर्द्धिसर्वसृष्टिप्रदर्शनं, श्रीहरिमूर्तिगर्भगताऽनादितादात्म्यमुक्तसृष्टिप्रदर्शनं, रहस्यमुक्तानां तत्स्पृहावतां मूर्तिगर्भतादात्म्यमुक्तिप्रदानं, सप्तायतनसमष्टिरूपहरेः कुंकुमवापीं प्रत्यागमनं, चेत्यादिनिरूपणनामाऽष्टादशाऽधिकशततमोऽध्यायः ॥११८॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP