संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि विमानगाः समर्चिताः ।रहस्याऽनादिमुक्तैस्तैर्वीक्ष्य दुर्गं तमष्टमम् ॥१॥बालकृष्णेरिताश्चाऽग्रे ययुर्देशाँस्ततः परान् ।अनन्ताऽसंख्यमानांश्चाऽतर्क्यर्द्धिसंभृतान् शुभान् ॥२॥अनादिश्रीकृष्णनारायणतेजोभिसंभृतान् ।यत्राऽनादिमहायुक्ता वसन्ति सर्वतः खलु ॥३॥यत्र रहस्यमुक्ताश्च निवसन्ति हरेः प्रियाः ।यत्र तादात्म्यमुक्ताश्च सदा वसन्ति भूमिषु ॥४॥यत्र वसन्ति च मूर्तिमुक्ता अभिन्नभावनाः ।यत्र वसन्ति चाऽदृश्यमुक्ताः कृष्णैकगोचराः ॥५॥बद्रिके! वर्णनं चाऽस्याः स्थितेर्बुद्धेः परं मम ।तान् प्रदेशान् लोकयन्तो ययुरग्रे विमानगाः ॥६॥व्यपश्यँस्ते तादृशानां मुक्तानां नगराणि वै ।पत्तनानि नगरीश्च वसतीन् राष्ट्रकाणि च ॥७॥कृष्णनारायणाऽऽनन्दवाहिन्यो येषु चापगा ।कृष्णनारायणमूर्तिरसध्राणि सरांसि च ॥८॥कृष्णनारायणाऽऽस्वादवत्यो येषु तु दीर्घिकाः ।कृष्णनारायणाऽऽस्योत्थताम्बूलरससागराः ॥९॥कृष्णनारायणाऽऽश्लेषजन्याऽमृतभरा च भूः ।कृष्णनारायणमूर्तिध्राणि रजांसि येषु च ॥१०॥कृष्णनारायणमूतिध्राणि वनानि येषु च ।कृष्णनारायणमूर्तिफलिका येषु वल्लयः ॥११॥कृष्णनारायणमूर्तिपुष्पिणः स्तबकास्तथा ।कृष्णकान्तधरा वाट्यः आरामाः कृष्णयोगिनः ॥१२॥उद्यानान्यभितः सन्ति कृष्णमयानि यत्र च ।तृणानि मुक्तरूपाणि सस्यानि तादृशानि च ॥१३॥कृष्णनारायणमूर्तिधराणि सन्ति चाभितः ।विविधानां च मुक्तानां ध्यानसेवाजुषां हरेः ॥१४॥मण्डलानि विराजन्तेऽभितः सभागृहेषु वै ।कामरूपधराः सर्वे काममणिप्रधारिणः ॥१५॥कामपूरककृष्णस्य कलांऽशाऽऽवेशरूपिणः ।कृष्णांगरूपिणः सर्वे कृष्णाऽभिन्नस्वरूपिणः ॥१६॥कृष्णानन्दभराः कृष्णाऽपृथक्सिद्धविशेषणाः ।अनन्तभूप्रदेशस्था रिक्तस्थलीविवर्जिताः ॥१७॥प्रत्येकं श्रीहरेर्मूर्त्या सहिताः सन्ति सन्मुखाः ।वनारण्यमहामुक्ताः सर्वेऽपि कृष्णमूर्तयः ॥१८॥पर्वतादिमहामुक्ताः सर्वेऽपि कृष्णमूर्तयः ।नदीनदमहामुक्ताः सर्वेऽपि कूष्णमूर्तयः ॥१९॥सीमवाटीमहामुक्ताः सर्वेऽपि कृष्णमूर्तयः ।आरामोद्यानगा मुक्ताः सर्वेऽपि कृष्णमूर्तयः ॥२०॥ग्रामपत्तनमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ।नगरावासमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ॥२१॥प्रसादालयमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ।कृष्णमण्डलमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ॥२२॥शाखिप्रशाखिमुक्ताश्च सर्वेऽपि कृष्णमूर्तयः ।वन्यनागरिका मुक्ताः सर्वेऽपि कृष्णमूर्तयः ॥२३॥स्वामिकान्तस्य मुक्तान्यः सर्वास्ताः कृष्णमूर्तयः ।शक्तयश्चापि मुक्तान्यः सर्वास्ताः स्वामिमूर्तयः ॥२४॥परब्रह्मप्रियाः कृष्णहरिप्रियाश्च शक्तयः ।सर्वा रहस्यमुक्तान्यः सर्वथा हरिमूर्तयः ॥२५॥अरे बद्रि विभूषाश्च चेतना हरिमूर्तयः ।अरे बद्रि स्वर्णवेषाश्चेतना हरिमूर्तयः ॥२६॥अरे बद्रि च शृङ्गाराश्चेतना हरिमूर्तयः ।अरे बद्रि चायुधानि सर्वाणि हरिमूर्तयः ॥२७॥अरे बद्र्युपस्कराणि सर्वाणि हरिमूर्तयः ।अरे बद्रि प्रभोग्यानि सर्वाणि हरिमूर्तयः ॥२८॥अरे बद्रि सुवर्ष्माणि सर्वाणि हरिमूर्तयः ।अरे वद्रि च हर्म्याणि सर्वाणि हरिमूर्तयः ॥२९॥अरे बद्रि समस्तानीन्द्रियाणि हरिमूर्तयः ।अरे बद्रि पृथग् यानि तानि वै हरिमूर्तयः ॥३०॥अरे बद्रि निजात्माऽपि तत्राऽऽस्ते हरिमूर्तिकः ।यत्किञ्चिद्वर्तते धाम्नि परे तत् कृष्णमूर्तिकम् ॥३१॥सर्वं हर्यात्मकं कृष्णस्वरूपं नान्यदस्ति तत् ।कृष्णानन्दसुखं कृष्णाऽपृथक्प्रसिद्धविग्रहम् ॥३२॥एकमेवाऽद्वितीयं तन्नान्यत् पश्यति नेतरः ।सर्वं श्रीकृष्णकान्तात्मान्वितं तद्रूपरूपितम् ॥३३॥तत्र किं केन गृह्णीयात् स्वात्मकं स्वं प्रविन्दते ।एतादृशं परब्रह्म वर्तते सर्वतोऽन्वितम् ॥३४॥बद्रिकेऽण्डप्रदेशेऽपि परब्रह्म प्रकाशते ।परा ब्राह्मी महाविद्योपनिषत् सेयमुच्यते ॥३५॥एतामधीत्य मुक्तोऽपि परब्रह्मायते तदा ।अमुक्तो मुक्ततां याति मुक्तोऽनादिप्रमुक्तताम् ॥३६॥अनादिमुक्त एवापि याति रहस्यमुक्तताम् ।रहस्यमुक्त एवापि याति तादात्म्यमुक्तताम् ॥३७॥तादात्म्यमुक्तः संयाति परब्रह्मस्वरूपताम् ।नाऽन्यदस्याऽवशिष्टं स्याज्ज्ञातव्यं परमं ततः ॥३८॥नाऽन्यदस्य तथाऽऽप्तव्यं शिष्येत कान्ततः परम् ।स्वः कान्तः कान्त एव सः सा कान्ता कान्त एव सः ॥३९॥यत्साम्यमेवाऽस्य न किञ्चिदस्तियस्मात्परं नास्ति तथा च किञ्चित् ।यद्गर्भमेवाऽखिलमस्य चास्तितद्भाव्य विद्वान्न पृथक् प्रशास्ति ॥४०॥का वा प्रिया तत्र च कः प्रियोऽस्ययस्य प्रियं सर्वमयं स एव ।तं प्रेष्ठकान्तं परिरभ्य धाम्निपरे पृथक्त्वं विजहाति मुक्तः ॥४१॥सोऽयं प्रियः सैव परा प्रिया चस एव भोक्ता च भुजिष्यिका सा ।स गर्भनिष्ठो हृदये बहिश्चतं प्राप्य कान्तं वृजिनं हिनस्ति ॥४२॥ब्रह्मप्रियाः कृष्णरमाश्च बद्रिकेहरिप्रिया मुक्तरमाश्च ताः खलु ।तं प्राप्य कान्तं च समस्तरूपिणंस्थातुं हि तत्रैव मनांसि चक्रिरे ॥४३॥विमानगास्ताः खलु कृष्णदेहिनोमुक्ता अपि कण्ठमणीच्छया मुहुः ।समुत्सुकाः कृष्णपतिस्पृहार्थिनोमुहुर्व्यपश्यन् स्मितभावगर्भिकाः ॥४४॥हरिः प्रविज्ञाय च वीक्ष्य भावंनिजं परं प्रेम तथाविधं च ।प्रदर्श्य शीघ्रं ह्यनयत् पुरं स्वंपरात्परं सर्वपरं महोलम् ॥४५॥विमानगाश्च ते सर्वे वीक्ष्य मुक्तमयीं भुवम् ।पारब्राह्मीं च वसतिं ययुः श्रीकृष्णमन्दिरम् ॥४६॥सर्वमुक्तनगराणां वर्तुलानां च गर्भगम् ।महादुर्गाभिसम्पन्नं निजं रहस्यमन्दिरम् ॥४७॥बद्रिके! ते स्पृहावन्तो धाम्नि स्थातुं विमानगाः ।परब्रह्मपुरं दूरान् मुक्तवसतिमध्यगम् ॥४८।व्यपश्यन् यावदेवेति तावन्नेत्राणि सत्वरम् ।तेजोऽभिभूततेजांसि मिमिलुर्वै विमानिनाम् ॥४९॥परब्रह्मपुरं दृष्टमशक्तास्ते विमानगाः ।महिमानं विदुः स्वेषां स्वामिनस्तेजसां तदा ॥५०॥प्रार्थयन् परमात्मानं दृष्टिं दातुं तदुत्तमाम् ।हरिर्ददौ निजां पराकाष्ठितां दृष्टिमुत्तमाम् ॥५१॥निजनेत्रमयीं दृष्टिं निजनेत्रऽपृथक्स्थिताम् ।तदा विमानगाः सर्वे स्फारनेत्राः सशक्तिकाः ॥५२॥अभवन्निर्निमेषाश्च कृष्णतेजःसहाः सदा ।विमानानि ययुर्द्राक् च परब्रह्मपुरान्तिकम् ॥५३॥घनतेजोघनतेजोघनतेजोऽतिघट्टितम् ।यत्र ततोऽपि च सद्धट्टतेजोघट्टातितैजसम् ॥॥५४॥परब्रह्मपुरदुर्गं व्यपश्यँस्ते विमानगाः ।अनादिश्रीकृष्णनारायणात्मतत्त्वनिर्मितम् ॥५५॥सर्वाश्चर्यमयं दिव्यं रहस्यमुक्तसंश्रितम् ।कण्ठमणिमहामुक्तप्रेममुक्ताधिवासितम् ॥५६॥कोट्यर्बुदाब्जपत्नीनां दासा दास्यश्च सेवकाः ।पुत्रा पुत्र्यश्च या ये च ते सर्वे कृष्णरूपिणः ॥५७॥तत्र दुर्गे निवसन्ति परार्धयोजनावृते ।असंख्यर्द्धियुते सर्वकृष्णभोगाभिपूरिते ॥५८॥दिव्यगोपुरभूम्यब्जोच्छ्रयेऽन्तःपुररक्षके ।विमानस्था विलोक्याऽपि तान् सर्वान् कृष्णरूपिणः ॥५९॥समानान् ज्ञातवन्तो न पुत्रीः पुत्राँश्च सेवकान् ।ऋषीन् साधून् यतीन् साध्वीर्विविदुर्न यदा तदा ॥६०॥प्रवेदनपरां बुद्धिं ददौ तेभ्यो हरिः प्रभुः ।द्रुतं प्रोद्भिन्नमतयः सर्वज्ञास्तेऽभवन् द्रुतम् ॥६१॥सर्वाऽऽवेदनयोग्याश्च सर्वांस्ते विविदुस्तदा ।मम पुत्रो ह्ययं पुत्री चेयं दासो ममाऽप्ययम् ॥६२॥मम माता पिता चाऽयं मम दासी त्वियं सुहृत् ।इत्येवं प्राप्तविज्ञानाः प्रमोदिनो विमानगाः ॥६३॥सहर्षाश्चात्मसम्बोधा मिथो गाथाः प्रचक्रिरे ।बद्रिके ते रहस्याख्या मुक्ता अपि च सत्वरम् ॥६४॥विमानगान् पिता मेऽयं मातेयं मे सुहृन्मम ।बन्धुश्चाऽयं क्षितौ देशे पुत्रोऽयं पुत्रिका त्वियम् ॥६५॥इत्येवं बहुधा व्यक्तमवोचुर्वीक्ष्य चाम्बरे ।श्रुत्वा वीक्ष्य निसर्गोत्थस्नेहाः कुतुहलान्विताः ॥६६॥ससंभ्रमाः सचाञ्चल्या दुद्रुवुः प्रेमपूरिताः ।सपूजोपस्करपात्रकरास्ते कृष्णमूर्तयः ॥६७॥विमानगाः समस्तास्तेऽपि च तान् प्रेमनेत्रिणः ।आलोकयन्तः स्नेहाढ्यास्तदाह्वानं प्रचक्रिरे ॥६८॥कोटिकोटिविमानानामवतारणभूमिषु ।दुर्गमध्यस्थलीष्वेते स्वागतार्थं समाययुः ॥६९॥सर्वसौगन्ध्यलावण्यव्याप्तौद्यानसुभूमिषु ।परब्रह्ममहोलस्याऽगारभागात्मिकासु वै ॥७०॥जयशब्दान् सुखशब्दाँश्चक्रिरे ते मुदान्विताः ।अवतेरुर्विमानानि कृष्णनारायणेच्छया ॥७१॥तानि सर्वाणि ते मुक्ता अक्षतैः कुसुमादिभिः ।चन्दनैरमृतैस्तोयैर्वर्धयामासुरुत्सुकाः ॥७२॥मिमिलुश्चावतीर्णास्तान् निजान्निजान् हरिप्रियान् ।समाश्लिषन् मिथो वक्षोमेलनैर्नेत्रमेलनैः ॥७३॥आननानां मेलनैश्च देहानां मेलनैस्तथा ।अथ बद्रिप्रिये देवि रहस्यं शृणु चोत्तमम् ॥७४॥विमाने ये स्थिताश्चासन् नारीमुक्तादयोऽखिलाः ।अवतीर्णा विमानात्तु यदा तदा पुरः स्थितान् ॥७५॥व्यलोकयन्निजरूपान् स्वागतार्थं समागतान् ।अनादिसिद्धमुक्ताँस्तान् कृष्णकान्ताऽऽत्मकान् शुभान् ॥७६॥सदा परमधामस्थान् परब्रह्मपुराश्रयान् ।स्वात्मकान् स्वाऽपररूपान् स्वभावगुणरूपिणः ॥७७॥स्वागतं कुर्वतः स्वेषां स्वपूजार्थं समागतान् ।स्वाऽभिन्नरूपिणस्ताँश्च स्वाँश्च तच्छायिकात्मकान् ॥७८॥वीक्ष्य विज्ञाय मूलात्मरूपिणः सर्वतः स्थितान् ।आश्चर्यं परमं प्राप्ता अभवन् वै विमानिनः ॥७९॥कृष्णपूजोत्तरं पूजां प्राप्य कृष्णाज्ञया तु ते ।विमानिनो ययुस्तैस्तैः सहिताः स्वस्वकालयान् ॥८०॥विमानिना तु मुक्तेन प्रत्येकेन सह प्रभुः ।अनादिश्रीकृष्णनारायणो ययौ तदालयम् ॥८१॥तस्य तस्य गृहे दिव्यगजासनेऽपरो हरिः ।राजते मूलरूपोऽपीत्येवं व्यलोकयन् हरिम् ॥८२॥हरिद्वयं निजरूपद्वयं वीक्ष्य विमानिनः ।स्वीयमनादिमुक्तत्वं रहस्यमुक्ततामपि ॥८३॥विविदुर्दिव्यविज्ञानाश्चान्तर्भावं निजात्मनि ।मूलरूपे ययुः सर्वे कृष्णो कृष्णे तिरोऽभवत् ॥८४॥सर्वेऽनादिकृष्णरूपा मूलरूपा यदाऽभवन् ।बद्रिके दिव्यपरमां विश्रान्तिमापुरुत्तमाम् ॥८५॥यथा विदेशे विहृत्य स्वगृहे शान्तिमेति ह ।तथा विश्रान्तिमापन्ना विसस्मरुर्विदेशकान् ॥८६॥अहो कृष्णस्य सामर्थ्यं दिव्याऽदिव्यमतिप्रदम् ।अनन्तरूपधारित्वमसंख्यरूपदत्वकम् ॥८७॥विमानानि विमानेषु व्यलीयन्त क्षणात्तदा ।भूषावेषस्मृद्धयश्च व्यलीयन्त तदर्द्धिषु ॥८८॥अनादिश्रीकृष्णनारायणरूपं समस्तकम् ।एकमेवाऽद्वितीयं वै रूपतो गुणतोऽपि च ॥८९॥अभवत् सर्वमेवेति लीलां जानाति को हरेः ।गृहे गृहे हरिश्चास्ते मुक्तं मुक्तं प्रति प्रभुः ॥९०॥ब्रह्मप्रियादिकाः सर्वा रहस्यमुक्ततां गताः ।कोट्यर्बुदाब्जकोट्यश्च प्रासादाश्चातिशोभनाः ॥९१॥असंख्यर्द्धियुतास्तत्र परब्रह्मपुरे स्थिराः ।कण्ठमणिप्रभावेण प्रासादेषु स्थिताश्च ते ॥९२॥विविदुश्च निजं पत्नीभावं कृष्णं हरिं प्रति ।सिषेविरे तथैवैनं पतिं नारायणं प्रभुम् ॥९३॥तदंगार्धस्वरूपाढ्याः प्राप्य स्वं शाश्वतं पुरम् ।परब्रह्माऽमृतस्नानं चक्रिरे ते तदा गृहे ॥९४॥परब्रह्माऽक्षतपुष्पचन्दनैः कृष्णमीजिरे ।परब्रह्मरसास्वादामृतानां भोजनं व्यधुः ॥९५॥परब्रह्माऽमृतवारिपानं प्रचक्रिरे प्रियाः ।परब्रह्म परं कान्तं सिषेविरे निरन्तरम् ॥९६॥परब्रह्मणः कान्तस्योपासनां चक्रिरेऽन्वहम् ।परब्रह्मपराभक्तिं व्यधुस्ते नित्यमुक्तिगाः ॥९७॥परब्रह्मानन्दवार्द्धिं बुभुजिरेऽतिसेवया ।विविदुर्न परं किञ्चित् कान्तसुखात् सुखेतरत् ॥९८॥कृष्णस्य कृपया पत्न्यः प्रापुः कृष्णस्वरूपताम् ।अथ श्रीभगवाँस्ताभ्यो दर्शयितुं स्वमन्दिरम् ॥९९॥कोट्यर्बुदाब्जकोटीनां प्रासादानां तु मध्यगम् ।मनश्चक्रेऽथ वै कृष्णः सर्वाः प्राह प्रियं वचः ॥१००॥परब्रह्ममहोलाख्यसभास्थानं प्रयाम्यहम् ।आयान्तु सहसा सर्वास्तत्र मत्परमं पदम् ॥१०१॥प्राप्तवत्यो भवत्योऽत्र सालोक्यं सार्ष्टि चेत्यपि ।सायुज्यं चापि सारूप्यं चैकत्वं परिशिष्यते ॥१०२॥तदप्यहं दर्शयामि परधिष्णयस्थिते मयि ।इत्येवं बद्रिके प्रोक्त्वा कृष्णनारायणप्रभुः ॥१०३॥तिरोभवद्द्रुतं तत्तन्मन्दिरात् प्रययौ सभाम् ।यत्र राजाधिराजेशाधिराजेश्वरपूजितः ॥१०४॥अनाद्यनन्तमुक्तेशेश्वरमुक्तादिपूजितः ।असंख्यानन्तविभवैरवतारैश्च पूजितः ॥१०५॥असंख्यदिव्यशक्त्याद्यैरायुधैरभिपूजितः - ।सर्वसृष्टिस्वराट् चास्ते सर्वधामस्वराट् पतिः ॥१०६॥अनादिश्रीकृष्णनारायणार्यः कृष्णकेशवः ।स्वयं मूले स्वरूपे स्वे गत्वा स्थिरोऽभवद्धरिः ॥१०७॥कंभरानन्दनो योऽयं गोपालकृष्णबालकः ।प्रभुः पद्मावतीस्वामी राधालक्ष्मीवरोत्तमः ॥१०८॥परमात्मा परब्रह्म परमेशः परेश्वरः ।पुरुषोत्तमसंज्ञो वै भूत्वा धिष्ण्ये स्थिरोऽभवत् ॥१०९॥बद्रिके मुक्तकोट्यस्ता आययुश्च सभां प्रति ।हर्षिताः स्वपतिं प्रोष्य प्राप्ता पुनर्यथांऽगनाः ॥११०॥भुवि प्राकट्यदिवसे सप्तविंशतिसंख्यके ।ऊर्जकृष्णाष्टमीरूपे प्रातरेव प्रियादिकाः ॥१११॥अनादिश्रीकृष्णनारायणस्मारितमुत्सवम् ।कर्तुं तूर्णं ययुः सर्वे मुक्ता मुक्तानिकास्तदा ॥११२॥गजासने स्थितं कान्तं सभामहोलकेऽभितः ।स्थित्वाऽऽनर्चुः स्वामिनं स्वं चारार्त्रिकं व्यधुस्तथा ॥११३॥असंख्यमुक्ता आगत्य दिव्योपचारकैर्हरिम् ।पुपूजुः परया प्रीत्या जयनादान् प्रचक्रिरे ॥११४॥तत्रत्याः प्रययुः सर्वे प्रपूज्य च निजालयान् ।सहायातास्तु ये ब्रह्मप्रियाद्या मुक्तकोटयः ॥११५॥ते सर्वे तु समैच्छन् वै द्रष्टुं कृष्णमहोलकान् ।ओमित्याह तदा मुक्तान् दर्शयामीति चाह तान् ॥११६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽष्टमदुर्गोत्तरस्थाः परधामप्रदेशाः, परब्रह्मपुरदुर्गः, परब्रह्मात्ममुक्तवसतयः, परब्रह्मपुरस्थानां वैमानिकानां स्वरूपद्वयेऽप्यैक्यं, परब्रह्मपुरेस्वस्वालयेष्ववतरणम्, स्वागतं विश्रमणं, परब्रह्मणः सभायां स्वशाश्वतधिष्ण्यं प्रति गमनमित्यादिनिरूपणनामा सप्तदशाधिकशततमोऽध्यायः ॥११७॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP