संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३४ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि विष्टिनार्याः कथां शुभाम् ।सौराष्ट्रे धनधृङ्नाम्नि नगरे चातिशोभने ॥१॥राज्ञो देवर्द्धिसिंहस्य शासने संप्रवर्धिते ।विषयो बहवश्चासन् मनुष्यवाहकोत्तमाः ॥२॥यत्स्कन्धेषु स्थिताः शिब्यो न कम्पं यान्ति वै मनाक् ।शिविकास्था न मन्यन्ते भेदं शिबीविमानयोः ॥३॥विष्टयस्ते कृताभ्यासा वहन्ति नृपतिं गुरुम् ।मातॄँश्च राजमातॄँश्च वधूजनान् सतीजनान् ॥४॥निर्वहन्ते श्रमवाहा वहनोद्भवसद्धनैः ।राज्ञः कुटुम्बिनश्चापि परिचरन्ति दासवत् ॥५॥यात्रालुमानवान्नारीवर्गान् वरान् विवाहितान् ।श्रेष्ठिनश्च तथा राज्याधिकारिणो वहन्त्यपि ॥६॥क्वचित् साधून् सतीः साध्वीर्वहन्ति त्वातपादिषु ।तीर्थात् तीर्थान्तरं चापि प्रसेवन्ते तु वैष्णवान् ॥७॥देवानामुत्सवेष्वेते वहन्ति देवतास्तथा ।परिभ्रमन्ति नगरे देवमूर्तीः समूह्य वै ॥८॥एवं सेवापराः सर्वे विष्टयो भोयिसंज्ञिनः ।दासवर्गा नरा नार्यः प्रसेवन्ते महज्जनान् ॥९॥सतां तन्नगरे त्वासीन्मण्डलं कृतमन्दिरम् ।सदुत्तमोऽभवत्तत्र स्वामी श्रीराधिकायनः ॥१०॥राधातुल्यो हरेर्भक्तो विरागवान् हरौ रतः ।तत्राऽन्ये साधवश्चासन् पञ्चाशत् शिष्यशाखिनः ॥११॥साध्व्यश्चासन् विंशतिश्च श्रीकृष्णप्रतिमाऽपि च ।बालकृष्णप्रतिमा श्रीयुता तन्मन्दिरेऽभवत् ॥१२॥कीर्तनानि भवन्त्येव विष्टीनां सद्भिरादरात् ।सहितानां च साध्वीनां गीतिकाश्च भवन्ति वै ॥१३॥पूजनं प्रोत्सवाश्चापि भवन्ति विष्टिभिः कृताः ।विष्टयोऽपि सहस्रं ते राधिकायनसेविनः ॥१४॥राधिकायनशिष्यास्ते ह्यासन् परमवैष्णवाः ।प्रातः स्नानपरा ध्यानपरा नैवेद्यभोजनाः ॥१५॥तीर्थार्चनपराः साधुसेवापराश्च तेऽभवन् ।नरा नार्यः समस्तास्ते बालाश्च बालिकास्तथा ॥१६॥बालकृष्णातिभक्ताश्चाऽभवन् निःसंशयाऽनुगाः ।देहेन मनसा द्रव्यैः साधुसेवापरायणाः ॥१७॥येषां वै संशयो नाऽभूत् सतां क्रियासु सर्वथा ।भोजने शयने स्नाने मर्दने चांगवाहने ॥१८॥विहारे हसने दिव्ये चमत्कारे च लौकिके ।विवस्त्रे वा सवस्त्रे वा विकारे निर्विकारिणि ॥१९॥रमणे रामणे वापि भुवि दोलाधिरोहणे ।गमने धावने वापि गायने कलहेऽपि च ॥२०॥सर्वथा साधुचर्यासु संशयो नैव यद्धृदि ।तादृशा विष्टयश्चासन् कृपापात्राणि ते सताम् ॥२१॥राधायनसतः प्राप्तमन्त्राः श्रीपरमात्मनः ।आत्मनिवेदिनः सर्वे सर्वस्वार्पणतत्पराः ॥२२॥साधुं साध्वीं प्रमन्यन्ते नारायणं नरायणीम् ।नारायणयोर्योगेन नारायणत्वमाप्यते ॥२३॥एवंविधानां विष्टीनां विश्वासवशगो हरिः ।अनादिश्रीकृष्णनारायणोऽपि वशगोऽभवत् ॥२४॥तत्र विष्टिकृतां पूजां गृह्णाति नित्यमन्दिरे ।गृहे गृहे हरिर्गत्वा गृह्णात्यर्हणमुत्तमम् ॥२५॥प्रत्यक्षस्य श्रीहरेस्ते कुर्वन्ति पूजनं महत् ।चन्दनैरक्षतैस्तैलैः सुगन्धिभिश्च कुंकुमैः ॥२६॥हार्दैर्भावैस्तथा प्रेम्णा स्नेहेन हृदयार्पणैः ।देहार्पणैस्तथा सर्वार्पणैर्नार्योऽर्चयन्त्यपि ॥२७॥शृंगारयन्ति विष्टीनां कन्यका मुग्धमानसाः ।बालकृष्णं प्रभुं कान्तं वीक्ष्य सर्वांगसुन्दरम् ॥२८॥काचित् कृत्वा स्तनयोश्च चरणौ परमात्मनः ।कण्ठे कृत्वा करौ तस्य सुखं भुंक्ते हि शाश्वतम् ॥२९॥काचित् स्वस्या मुखे कृष्णमुखं चाकृष्य सर्वथा ।स्वमुखं तन्मुखे युक्त्या स्वादं भुंक्ते परात्मनः ॥३०॥काचित् कृष्णं निजं कान्तं मत्वा शय्यागता सती ।आसज्ज्य सर्वथा देहे कामसुखं समश्नुते ॥३१॥काचित् कृष्णं निजदेहासने धृत्वा स्वपित्यति ।काचित् स्पर्शं गण्डयोश्च सक्थ्नोश्च जंघयोस्तथा ॥३२॥जघनस्योदरस्यापि करोति मोदते मुहुः ।काचिद् धृत्वा कृष्णपादौ संवाहनं करोति च ॥३३।काचित् स्वोरसि कृत्वैव तादात्म्यं योगमेति च ।काचित् प्रचुम्बते कृष्णं काचिदाश्लिष्य तिष्ठति ॥३४॥नखान्नारायणं त्वन्या शिखापर्यन्तमेव तम् ।सर्वांगं तृष्णया दिव्यं विलोकयति सुन्दरी ॥३५॥अपरा श्रीहरये तु नैवेद्यं मिष्टमुत्तमम् ।दुग्धसारादिकं कृत्वा संभोजयतिकन्यका ॥३६॥इतरा शाकपत्रं पाचयित्वा स्वादगर्भितम् ।पोलिकाभिः समं कान्तं प्रभोजयति कन्यका ॥३७॥परा तु श्रीहरिं कण्ठे पादयोः करयोस्तथा ।स्वर्णभूषा धारयति मुकुटादीनि सुन्दरी ॥३८॥तथाऽन्या कज्जलं कृष्णनेत्रयोः प्रददात्यपि ।चन्दनं भालफलके तलयोश्चाप्यलक्तकम् ॥३९॥ओष्ठयो रञ्जनं देहे तैलं ददाति भावुकी ।नखरञ्जनकार्यं च करोत्यन्याऽतिमोहिता ॥४०॥कृष्णमेकान्तमालम्ब्य महानन्दं समश्नुते ।दधि भक्तं सह भुंक्ते स्थाल्यां मुखे ददात्यपि ॥४१॥जलं शीतं च पिबति ताम्बूलं प्रददात्यपि ।अतिस्नेहभरा कान्ता भुंक्ते ताम्बूलजं रसम् ॥४२॥अन्या वृद्धा बालकृष्णं वीक्ष्य वीक्ष्य तु सुन्दरम् ।अन्तःसुखं भुञ्जते वै ध्यायन्त्येकाग्रमानसाः ॥४३॥सिंहासने सुखट्वायां शुभासने नरायणम् ।उपावेश्य स्वयं चाग्रे ह्यासीना मोदते क्षणम् ॥४४॥व्यजनेनाऽनिलं शीतं ददाति परमात्मने ।पुष्पहारान् ग्रथित्वा तं शृंगारयति सर्वथा ॥४५॥देहस्य मर्दनं चान्या द्रवैः कुर्वन्ति तत्क्षणे ।स्नपयन्ति जलैर्गन्धैः स्नेहैद्रवार्पणैस्तथा ॥४६॥शृंगारितस्य नाथस्याऽऽरार्त्रिकं ह्याचरन्ति च ।अवस्थाप्योच्चपर्यंके पुरः स्थित्वा स्त्रियोऽपराः ॥४७॥नृत्यन्ति चापि गायन्ति गीतिका मण्डलात्मिकाः ।रासं कुर्वन्ति देहानामुत्क्षेपणाऽभिकर्षणैः ॥४८॥कृष्णस्तासां मानसानि पूरयत्येव सादरः ।नीत्वा भावभरां भावं पूर्णं करोति वै रहः ॥४९॥उद्यानादौ वाटिकासु क्षेत्रेषु मन्दिरेष्वपि ।वृक्षस्तम्बान्तरे नद्यां पुलीनेषु वनेष्वपि ॥५०॥गृहेषु गोष्ठभागेषु गर्तेषु गह्वरेऽपि च ।गृहकक्षास्वपि यथा यथेच्छावती तत्र ह ॥५१॥नारायणो भाववशो याति तस्यां सुक्रीडति ।भक्तमानसपूरोऽयं भक्ताऽऽनन्दप्रदायकः ॥५२॥अनादिश्रीकृष्णनारायणः सुखं ददाति हि ।बद्रिके त्वाबालवृद्धा विष्टिसुन्दर्यं उत्सुकाः ॥५३॥कृष्णं बुभुजिरेऽत्यर्थं देहेन्द्रियात्ममानसैः ।एवं विष्टिजनाः कृष्णं सत्कारयन्ति तत्क्षणे ॥५४॥राजाधिराजवद् वृद्धाः पूजयन्ति स्म माधवम् ।युवानो युवभावाढ्यं रञ्जयन्ति सुसेवया ॥५५॥कुमारास्तु सखायं तं प्रसादयन्ति खेलनैः ।यथेष्टं स हरिर्विष्टिजनतोषणमावहत् ॥५६॥सर्वविष्टिकुटुम्बानि पावितानि हि चक्रिणा ।एवं भक्तिवशो नाथो बद्रिकेऽपावयत्तदा ॥५७॥संक्षेपात् कथितं तेऽत्र प्रत्यहं पावयत्यपि ।एतादृशानां भक्तानां कृष्णस्त्वेकान्ततां गतः ॥५८॥न यमा न नियमा नाऽऽम्नायो नापि च शासनम् ।न पद्धतिर्न चाचारः सर्वनाथे प्रवर्तते ॥५९॥सर्वनाथेन ये भक्तिमन्तो जनास्तु नाथिताः ।तादात्म्यस्वीकृतास्तेषु प्रवर्तन्ते न ते तथा ॥६०॥कृष्णाचारस्तदा धर्मः कृष्णस्नेहश्च सत्कृतिः ।कृष्णाप्तिः सत्फलं दिव्यं कृपा कृष्णस्य साधनम् ॥६१॥कृष्णक्रिया महायज्ञः कृष्णार्थं पुरुषार्थकः ।कृष्णभावो महायोगो विज्ञानं कृष्णदर्शनम् ॥६२॥कृष्णस्य शयनं धाम मुक्तिस्तु कृष्णभोगिता ।सिद्धयः श्रीकृष्णनारायणे साफल्यमुत्तमम् ॥६३॥जीवनं श्रीकृष्णपार्श्वे वर्तनं हरिसन्निधौ ।विहारोऽपि रहः कृष्णे निवृत्तिः कृष्णशान्तता ॥६४॥प्रवृत्तिः श्रीकृष्णनारायणचेष्टानुवर्तनम् ।कर्तव्यं च विधिश्चापि कृष्णप्रसादनार्थकम् ॥६५॥रतिः प्रीतिश्च संकल्पः काम आनन्द उत्सवः ।सर्वं तृप्ते हरौ चात्मनिवेदिनां तु बद्रिके ॥६६॥नात्मनस्तत्र पार्थक्यं जानाति भक्तिदासिका ।नापि कृष्णेतरं भुंक्ते लावण्यवर्जितं तु तत् ॥६७॥सर्वे रसाः सर्वगन्धाः सर्वस्पर्शा नरायणे ।सर्वाः श्रुतयः श्रीकृष्णे सर्वार्थदर्शनं हरौ ॥६८॥आहाराश्च विहाराश्च येषां सर्वे हि माधवे ।आनन्दाश्च प्रमोदाश्च नारायणे श्रियः पतौ ॥६९॥भावा हासा विलासाश्च युगलत्वं हरौ तथा ।वरत्वं स्वामिता कृष्णे नाथता च विवाहनम् ॥७०॥लग्नग्रन्थिर्हरौ येषां तेषां मोक्षे न संशयः ।जीवतां भुक्तिमोक्षाख्या महानन्दा हरेर्गृहे ॥७१॥देहान्ते नित्यभोगा सा परानन्दाऽक्षरे पदे ।सर्वथा मन्दिरे तस्य वासो भक्तिमतां शुभः ॥७२॥निर्मितः कृष्णकान्तेन श्रीकृष्णात्मनिवेदिनाम् ।बद्रिके विष्टयो भोयिभक्तास्त्वात्मनिवेदिनः ॥७३॥धनधृग्वासिनः सर्वे वैष्णवाश्चाऽभवँस्तथा ।यद्गृहेषु स्वयं कृष्णः साक्षात्तिष्ठन् प्रमोदते ॥७४॥विष्टिकुलेऽभवन्नारी नाम्ना विद्रुमिणी सती ।सा तु भक्त्या तुर्यभावे वर्तते कृष्णमोहिता ॥७५॥शृणु त्वं बद्रिके लज्जां त्यक्त्वा त्यक्त्वा पतिं गृहम् ।हित्वा च मानवीं रीतिमुद्वृत्तान्ता ततोऽभवत् ॥७६॥कृष्णे त्वात्मा मनो बुद्धिरहं चित्तं जनार्दने ।देहेन्द्रियाणि वै कृष्णे कृष्णरंगमयानि च ॥७७॥यथा कृष्णस्तथा सापि दिव्यचेष्टा बभूव ह ।आश्चर्यजनिका तत्र विष्टीनां सर्वतोऽभवत् ॥७८॥यथा विचित्ता युवती यथोन्मत्ता च मादिनी ।यथा मस्तानिका वापि प्रमदा प्रमदान्विता ॥७९॥वर्तते कृष्णकृष्णेति गायत्यपि हसत्यपि ।कृष्णनारायणं कान्तं रटत्यपि मिलत्यपि ॥८०॥जनास्तां तादृशीं वीक्ष्य रुरुधुर्बद्धमन्दिरे ।पिहितेऽपि कपाटे सा निर्ययौ दिव्यविग्रहा ॥८१॥गृहे क्षिप्ता जले क्षिप्ता पेटायां पूरिताऽपि सा ।निरावरणभावा तन्निर्यान्ति दिव्यविग्रहा ॥८२॥गृहाद् गृहान्तरं निर्गच्छति भित्तिं विभिद्य सा ।एवमदृश्यतां याति पश्यतां सर्वदेहिनाम् ॥८३॥क्वचित् कन्या युवती वा वृद्धा वा सुन्दरी शुभा ।सौम्यहास्यवती कान्ता क्वचिद् रुद्री भवत्यपि ॥८४॥प्रभाकृष्णेति कृष्णेति स्वामिकृष्णेति गायति ।एकान्ते तं स्वामिकृष्णं नीत्वा रहसि मोदते ॥८५॥सा वै पश्यति कान्तेशं कान्ता कृष्णमनस्विनी ।कृष्णध्यानपरा कृष्णचेष्टा कृष्णस्वरूपिणी ॥८६॥कृष्णरूपा क्वचिद् राधारूपा क्वचिच्च माणिकी ।क्वचित् प्रिया तु ललिता पार्वती च जया क्वचित् ॥८७॥एवंविधां तां जनता ज्ञानवत्येव सर्वथा ।दिव्येयं खलु सम्पन्ना महामुक्तानिका त्विति ॥८८॥मत्वा तां सिद्धदेहां च महासाध्वीं तु राधिकाम् ।लोका नार्यो नरास्तस्याः पूजां चक्रुस्ततोऽर्हणाम् ॥८९॥पादजलं पपुश्चापि भोजयामसुरुत्सुकाः ।प्रसादं फलपुष्पादि मिष्टान्नं जगृहुस्तथा ॥९०॥साऽपि मायामयं स्पृष्ट्वा दिव्यं करोति तत्क्षणम् ।पापिजनान् पापिनारीः करोति पुण्यशालिनीः ॥९१॥दर्शयित्वा हरिकृष्णं सम्प्रेषयति चाऽक्षरम् ।विमोचयति तृष्णां च प्रज्वालयति वासनाम् ॥९२॥कृष्णप्राप्तिं कारयति प्रसंगमयत्यच्युतम् ।मोक्षमार्गं दिशत्येव प्रापयत्यूर्ध्वगं पदम् ॥९३॥विद्रुमिण्याः प्रसंगेन नरा नार्यः सहस्रशः ।पशवः पक्षिणश्चापि परां मुक्तिमगुस्तदा ॥९४॥सन्तः साध्व्यश्च तच्छिष्या बभूवुर्वै सहस्रशः ।जनाश्च लक्षशस्तस्या मुखान्मन्त्रौ प्रजगृहुः ॥९५॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥९६॥बालकृष्णो हरिकृष्णः श्रीपतिः पुरुषोत्तमः ।सदाऽवतु प्रभुश्चास्मान् स्तुतिं त्वेवं प्रचक्रिरे ॥९७॥एवं श्रीबद्रिके विष्टिनारी विद्रुमिणी सती ।तेनैव वर्ष्मणा दिव्या राधासमा व्यजायत ॥९८॥आययौ सा तीर्थवासं कर्तुं लक्षजनैः सह ।कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ॥९९॥तादात्म्ययोगमापन्ना बालकृष्णे तिरोऽभवत् ।ब्रह्मप्रियासु दिव्यासु वर्तमानाऽवसत् ततः ॥१००॥नरा नार्यश्च बहुधा न्यूषुर्निरन्तरं ततः ।त्यागाश्रमं परिगृह्य सन्तः साध्व्यश्च तापसाः ॥१०१॥योगिन्यस्तापसिन्यश्च भूत्वा च यतयस्तथा ।आक्षरे दिव्यसंवासे न्युषुश्चाऽश्वसरस्तटे ॥१०२॥अनादिश्रीकृष्णनारायणस्य चरणाश्रये ।भजित्वा संप्रसेवित्वा प्रसाद्य परमेश्वरम् ॥१०३॥ययुर्धामाऽक्षरं दिव्यं लक्षशो विषयोऽपि च ।विद्रुमिणी विमानेन ययौ धामाऽक्षरं प्रभोः ॥१०४॥एवं बद्रीप्रिये देवि साऽभवद् राधिकासमा ।महामुक्तानिका यस्याः स्मरणान्मुच्यते ह्यघी ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने धनधृक्पत्तनस्थाया विष्टिनार्या विद्रुमिण्याः प्रसत्संगेन लक्षाधिमानवानां दिव्यता मोक्षणं तस्याश्च मोक्षणमित्यादिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP