संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि ततोऽनादिनरायणः ।भक्तं निकामदेवं तं प्राह योगं तु निर्भयम् ॥१॥श्रीकृष्णनारायण उवाच-शृणु निकामदेव त्वं निर्भीकयोगमुत्तमम् ।यज्ज्ञात्वा न भयं तस्य मायाकालाद्यकर्मणाम् ॥२॥अनादिश्रीकृष्णनारायणस्य ध्यातुरन्वहम् ।नदानतीर्थतपसां पुण्यभोगभयं भवेत्। ॥३॥सर्वपुण्यानि वै कृष्णे मयि न्यस्तानि येन तु ।तस्याऽक्षरं परंधाम निर्भयं प्राप्यमेव हि ॥४॥सर्वकर्माधिकं कर्मोपासनं मम सर्वदा ।स्मरणं चानुमननं सर्वथा भयनाशनम् ॥५॥मायालेशानुसक्तिस्तु पापं चात्र महात्मनाम् ।हरेः स्मरणरूपं तत्प्रायश्चित्तं महात्मनाम् ॥६॥मुहूर्तस्मृतिमात्रेण मम धामाऽभिगो भवेत् ।किं पुनः सततं भक्तो निर्भीकोऽन्यसमागमात् ॥७॥जाग्रत्स्वप्नसुषुप्तानां पारे तिष्ठति योगवित् ।योगः स एव मनसो वृत्तिर्मय्येव सर्वदा ॥८॥गच्छंस्तिष्ठन् श्वसन् कृष्णं नारायणं तु मां स्मरेत् ।प्रलपन् विविशन् भुंजन् रमन् मां सर्वथा स्मरेत् ॥९॥सर्वकर्मसु रक्तोऽपि चित्तं कुर्यात्तु यो मयि ।तस्य लेपो न भोगानां भोगमध्याऽधिवासिनः ॥१०॥स्मृतिर्मे परमो धर्मो ध्यानं तपश्च वै मखः ।शुद्धिः सर्वा परा शान्तिः सर्वं मे स्मरणे स्थितम् ॥११॥दुर्लभं यत्परं दूरमगोचरं यदक्षरम् ।तथापि प्राप्यमेवाऽस्य स्मर्तुर्मे कृपया मम ॥१२॥अप्यध्वरशतानां यद् वैगुण्यं विक्रमादिकम् ।निर्दोषं प्रत्युत पूर्णं श्रीकृष्णस्य स्मृतेर्मम ॥१३॥न स्मृत्या सदृशं मेऽत्र शोधनं चाऽद्यकारिणाम् ।भवानां दाहिका चापि मोक्षदा सा मम स्मृतिः ॥१४॥निष्पन्नध्यानवृत्तेस्तु मुक्तिरत्रैव जन्मनि ।स्मर्तुर्मेऽनलवत् कक्षं स्मृतिर्दहति वासनाम् ॥१५॥हरौ चात्मस्थिते चित्तस्थिते तु सर्वकिल्बिषम् ।स्वयं लीनं भवत्येव ततो भयं न विद्यते ॥१६॥कलहो दूषणं दोषो राग उद्वेजनं क्षयम् ।न क्रामेन्मानसं स्मर्तुर्यतस्तच्चित्तगोऽस्म्यहम् ॥१७॥तिथिर्मासः क्षणं योगश्चन्द्रो लग्नं शुभं दिनम् ।तदेव यत्र गोविन्दः स्मर्यते सर्वथा शुभः ॥१८॥सा क्षतिः सा परा हानिर्व्यसनं तत्परं तथा ।यत्र क्षणेऽनादिकृष्णनारायणो न चिन्त्यते ॥१९॥कलौ कृतयुगस्तस्य यस्य चित्ते जनार्दनः ।कृते कलियुगस्तस्य यच्चित्ते न जनार्दनः ॥२०॥अग्रे पृष्ठे पुर ऊर्ध्वेऽधोऽभितो मध्यवर्तुले ।हृदये यस्य गोविन्दः कृतकृत्यो हि सोऽस्ति हि ॥२१॥शुभेऽशुभे मनो यस्याऽनादिकृष्णनरायणे ।तस्य फलं महत् स्वर्गं दुःखदोषादिवर्जितम् ॥२२॥असन्त्यज्याऽपि गार्हस्थ्यं स्मरते मां तु यः सदा ।छिनत्ति पौरुषीं मायां मय्यर्पितक्रियो हि सः ॥२३॥यस्य चित्ते हरिश्चास्ते क्षमावान् सोऽपराधिषु ।अज्ञेषु दयया युक्तो मोदवान् धार्मिकेषु सः ॥२४॥स्मरेन्नारायणं मां तु त्यागभोगादिकर्मसु ।जाग्रत्स्वप्नसुषुप्त्यादौ दुष्कर्मस्वपि चाधिकम् ॥२५॥हृदयस्थोऽहमेतस्य लाभं जयं यशो धनम् ।सम्पादयामि सततं शान्तिमानन्दमुत्तमम् ॥२६॥असंख्यपक्षिपादपपशूनां मोक्षदोऽस्म्यहम् ।स्मरतां मम चैश्वर्यं किं प्रपन्ननृणां तदा ॥२७॥श्रीकृष्णपादपच्छाया शीतातपविवर्जिता ।अमृतपददा मायाभीहन्त्री किं न सेव्यते ॥२८॥न शापस्य भयं तस्य न च राज्ञो भयं तथा ।न तु याम्यभयं तस्य यस्य चित्तं मयि प्रभौ ॥२९॥ध्यानं स्मरणसंजुष्टं पवित्रमुत्तमं सदा ।येन पापाशनोऽप्यत्र लिप्यते न कदाचन ॥३०॥यथा तु विषये चित्तं तथा यस्य हरौ मयि ।तथा मे सत्सु सत्सङ्गे स मुक्तोऽत्र प्रमुक्तिदः ॥३१॥कृष्णनारायणभक्तिर्हृदये वासकारिणी ।तत्सङ्गसङ्गिसङ्गाढ्यान् तारयत्यघसागरात् ॥३२॥तज्ज्ञानं श्रीहरिर्यत्र सा कथा यत्र माधवः ।सत्कर्म तद् यत्र चाहं तच्चित्तं यन्मदर्पितम् ॥३३॥जिह्वा सा या हरिं स्तौति सा त्वग् या स्पृशति प्रभुम् ।तौ हस्तौ चाश्लेषितौ मां तद्वर्ष्म यन्मदर्थकम् ॥३४॥शिरःफलं नमो मेऽत्र पाणिफलं मदर्चनम् ।मनःफलं मननं मे वचःफलं गुणस्तवः ॥३५॥मेरुतुल्यः पापराशिर्मत्स्मृतेर्द्राग्विनश्यति ।साध्वसाधु चरितं चार्पितं मयि न लेपकृत् ॥३६॥अनाथानां हरिर्नाथोऽबलानां तु बलं हरिः ।सकामानां हरिर्दाता सर्वेषां शरणं हरिः ॥३७॥अनादिश्रीकृष्णनारायणाऽऽश्रयोऽत्र भूसुर ।तीर्थं तत्परमं मायाकालकर्मादिनाशकम् ॥३८॥शूद्रं चर्मकरं चाण्डालं वा भक्तियुतं मम ।विप्रवत् पावनं मन्ये मम योगं गतो हि सः ॥३९॥धनिनां स्तावकाः प्रायो यदि स्तुवन्ति मां तथा ।धनेश्वरानिह कृत्वा मोचयामि च बन्धनात् ॥४०॥वह्निर्वनेऽभिसंव्याप्तः शुष्काऽऽर्द्रदाहको यथा ।तथाऽहं हृदये न्यस्तो दहामि वासनादिकम् ॥४१॥प्रज्वलन्तं महारण्यं नाश्रयन्ति मृगेश्वराः ।तथा मया प्रकाशन्तं नाश्रयन्ति मदादयः ॥४२॥यावद्वेगेन भक्तिर्मे विश्वासोऽपि यथा मम ।तथाऽत्र फलमाप्नोति कृपाऽत्र मे विशिष्यते ॥४३॥पुत्रदारकुटुम्बादौ मग्ना सीदन्ति देहिनः ।सीदन्ति मयि ते चेद्वै द्रागुत्तरन्ति मद्बलात् ॥४४॥मुक्तिमुखं तु पिहितं येन साधुनिषेवणम् ।तस्य मुक्तिं न पश्यामि कदापि भाविसर्जने ॥४५॥पूजयेत् परमात्मानं मां सदा हृदये बहिः ।ध्यायेन्मां सर्वगं मूर्तं कान्तं श्रीवल्लभम् प्रभुम् ॥४६॥गुरुं पतिं स्वामिनं मां जुष्टं साक्षिणमच्युतम् ।परब्रह्माऽनादि कृष्णं नारायणं परेश्वरम् ॥४७॥एवंविधं तु मां ध्यायन् पूज्य सन्मान्य मानद ।अवाप्स्यसि ध्रुवं तात शाश्वतं मेऽक्षरं पदम् ॥४८॥इत्येवं बोधितो विप्रो निकामदेव आदृतः ।महाहर्षं समापन्नः सामोवाच तु निर्भयम् ॥४९॥नृत्यन् गायन् हसन् देहं कूर्दयन् चेष्टयन् मुहुः ।उवाचाऽऽवेशयोगेन निर्भयं साम गायनम् ॥५०॥ 'बालकृष्णं प्रपन्नोऽस्मि किं मे कालः करिष्यति ।अक्षरेशं परमेशं ब्रह्मेशं पुरुषोत्तमम् ॥५१॥शंखचक्रगदापद्मधारिणं परमेश्वरम् ।अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥५२॥अनादिश्रीकृष्णनारायणं श्रीपतिमच्युतम् ।गोपालजं प्रपन्नोऽस्मि किं मे माया करिष्यति ॥५३॥सर्वावतारिणं सर्वशक्तिसेवितमाधवम् ।कांभरेयं प्रपन्नोऽस्मि किं मे पापं करिष्यति ॥५४॥कुंकुमवापिकातीर्थं लोमशस्य शुभाश्रमम् ।अश्वसरः प्रपन्नोऽस्मि किं मे कर्म करिष्यति ॥५५॥भगवन्तं सर्वधाम्नां नारायणनरायणम् ।राधाकान्तं प्रपन्नोऽस्मि किं मे तृष्णा करिष्यति ॥५६॥मायातारं कृष्णनारायणं श्रीमाधवीपतिम् ।माणिकीशं प्रपन्नोऽस्मि किं मे कामः करिष्यति ॥५७॥सर्वान्तर्यामिणं साक्षाद् बालयोगिनीस्वामिनम् ।परमेशं प्रपन्नोऽस्मि किं मे भ्रान्तिः करिष्यति ॥५८॥अक्षरेशं च मुक्तेशं मुक्तानिकापतिं हरिम् ।ब्रह्मप्रियेशं प्राप्तोऽस्मि किं मे सम्पत् करिष्यति ॥५९॥ईश्वरेशं चेश्वराणीपतिं हरिप्रियापतिम् ।प्रभुम्पतिं प्रपन्नोऽस्मि कि मे तमः करिष्यति ॥६०॥पद्मावतीस्वामिनं च जडचेतनवर्तिनम् ।लक्ष्मीनाथं प्रपन्नोऽस्मि किं वासना करिष्यति ॥६१॥एकरूपं बहुरूपं विश्वरूपं तु बालकम् ।सतां पतिं प्रपन्नोऽस्मि किं मे बन्धः करिष्यति' ॥६२॥ 'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।नमोऽक्षरनिवासाय नमो गोलोकवासिने ॥६३॥नमो वैकुण्ठनाथाय नमः श्रीपुरवासिने ।नमो ललिताकान्ताय सर्वकान्ताय ते नमः ॥६४॥बालयोगिनीकान्ताय बद्रीकान्ताय ते नमः ।निकामदेवनाथाय वासुदेवाय ते नमः ॥६५॥नमोऽमृतनिवासाय नमोऽव्याकृतवासिने ।नमः कैलासवासाय हिरण्यगर्भवासिने ॥६६॥नमः सिद्धाधिवासाय नमः सुरादिवासिने ।नमः पितृनिवासाय नमो मानवरूपिणे ॥६७॥नमः सर्वनिवासाय नमो मदात्मवासिने ।सुरेश्वरीहृदिस्थाय नमोऽनन्तस्वरूपिणे ॥६८॥नमो देहेन्द्रियप्राणान्तरात्मवासिने सदा ।नमस्ते परमानन्द नमस्ते ज्ञानसंभृत ॥६९॥नमस्ते ज्ञानविज्ञानप्रद श्रीपुरुषोत्तम ।नमस्ते विश्वकृद्विष्णो नमस्ते सर्वकारण ॥७०॥नमस्ते गोपगोपीश नमः सर्वार्थसाधक ।नमस्तेऽनुग्रहदातर्नमस्ते मोक्षद प्रभो ॥७१॥जय कृष्ण जय विष्णो ममाऽभयद माधव ।जय शान्त चिदानन्द सच्चिदानन्द केशव ॥७२॥जय जीव जयद त्वं जय साक्षाज्जनार्दन ।जय शास्त्रादिसन्न्यस्तबीजगर्भाद्युपासन ॥७३॥त्वं गुरुस्त्वं पिता भ्राता सुहृद् बन्धुः प्रसूर्मम ।त्वं मोक्षस्त्वं परानन्दस्त्वं मे सर्वस्वमच्युत ॥७४॥त्वमुद्धर्ता च पाता च नेता त्वं विरतिर्भवान् ।जगत् सर्वं तव रूपरूपितं संप्रकाशते ॥७५॥त्वं परब्रह्म भगवन् देवाद्यैस्तु दुरासदः ।मया त्वासादितश्चाऽत्र बालयोगिनीवैभवात् ॥७६॥कस्त्वां जानाति चात्मेश मुक्तगम्यं परात्परम् ।सनातनपुमांसं तं पुराणपुरुषोत्तमम् ॥७७॥परं रूपमजान्तो दिवौकसो महर्षयः ।अवतारमयीमूर्तीस्ते भजन्ति सुगोचराः ॥७८॥अवतारा भजन्ते त्वां पुमांसमवतारिणम् ।नारायणा असंख्यास्त्वां भजन्ते परमायणम् ॥७९॥नारायण्यश्च मुक्तान्यस्त्वां भजन्ते परं पतिम् ।सन्तो मुक्तास्त्वां भजन्ते सर्वावस्थासु सत्पतिम् ॥८०॥तवाऽज्ञानेन भगवन् मानुषादिनिसर्गतः ।क्षन्तुमर्हसि सर्वं मे यत् कृतं न कृतं तव ॥८१॥सर्वावस्थासु सर्वत्र सर्वकालेषु सर्वथा ।अचला तु हरे भक्तिस्तेंऽघ्रियुगेऽस्तु मे प्रभो ॥८२॥प्रीतिस्त्वय्येव सततं भवत्वात्यन्तिकी मम ।सर्वकामफलदातस्त्वयि भक्तिर्दृढास्तु मे ॥८३॥स्तोत्रं कर्तुमनन्तस्य कः शक्नोति तु मानवः ।तथापि व्यापृतं वाक्यं क्षमस्व नाथ ते नमः ॥८४॥पुरुषोत्तमयोगेन निर्भयत्वं प्रजायते ।तव योगेन पुरुषः पुरुषोत्तमतां व्रजेत् ॥८५॥अधन्यो जायते धन्यस्त्वसाधुः साधुतां व्रजेत् ।अभाग्यो भाग्यवान् स्याच्च ते स्तवात् पुरुषोत्तम ॥८६॥अपि लोकबहिष्कार्या यदि ते शरणं गताः ।साधुशीला हि ते सर्वे जायन्ते पंक्तिपावनाः ॥८७॥येषां सर्वाधिपे कृष्णे भक्तिरव्यभिचारिणी ।अपि चाण्डालकर्माणस्तेऽपि विप्रोत्तमोत्तमाः ॥८८॥अपि शौचसमाचाराः कृष्णे ते संगवर्जिताः ।श्मशानवासास्ते सर्वे सर्वकिल्बिषसंभृताः ॥८९॥तव ध्यानपरा ये च तव पूजापरायणाः ।तव प्रसादभोक्तारस्ते सदा विघसाशिनः ॥९०॥आराध्य सततं त्वां श्रीहरिं सर्वसुखप्रदम् ।प्राप्य त्वां परमात्मानमेष्टव्यं नावशिष्यते ॥९१॥साधुभिश्चिन्त्यते यश्च साध्वीभिः काम्यते तु यः ।पीयते योगमापन्नैर्यः स कृष्णोऽस्तु मे हृदि ॥९२॥भावपुष्पैः पूजयामि श्रद्धाञ्जलिप्रदोऽस्मि च ।आत्मानं दक्षिणां कृत्वाऽर्पयामि ते परेश्वर ॥९३॥यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् ।निर्गतं कर्मसंयुक्तं दत्तं तासां बलप्रदम् ॥९४॥तथा त्वं हृदयस्थोऽपि मानवानां बलाय न ।त्वमेव निर्गतः साक्षाद् भूतो बलाय विद्यसे ॥९५॥विनाऽऽराधनया कृष्ण त्वं कृपावशगो मम ।प्रत्यक्षं मानवं रूपं दृष्टं नारायणाच्युत ॥९६॥सदैव सेवितं चापि दिव्यं रूपं प्रदर्शय ।यद्यहं पात्रमस्म्यत्र कृपापात्रं भवामि चेत् ॥९७॥विप्रत्वं मे गतं चापि त्वय्येव तत्समर्पितम् ।मुक्तत्वं वर्तते मे चेत् सर्वांशे तव भक्तिमान् ॥९८॥एवं श्रीबदरीदेवि प्रार्थितः परमेश्वरः ।कृपयैव भूसुराय दिव्यं रूपमदर्शयत् ॥९९॥अक्षरस्थं चाऽवतारैरसंख्यैराप्रपूरितम् ।मुक्तैर्मुक्तानिकाभिश्च सेवितं कमलादिभिः ॥१००॥तथा श्रीबालयोगिन्या बदर्या जुष्टमुत्सुकम् ।कृपयाऽदर्शयत् कृष्णनारायणो निकामिने ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीकृष्णनारायणकृतनिर्भययोगोपदेशोत्तरं निकामदेवस्य दिव्यज्ञानाप्तिलाभोत्तरं स्तुतिरित्यादिनिरूपणनामा षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP