संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां गृध्रस्य मोक्षदाम् ।पारायणस्थले नित्यं सतामुच्छिष्टभोजनम् ॥१॥गृध्रो जग्ध्वा तु मध्याह्ने मुक्तिमवाप शाश्वतीम् ।न्यग्रोधषण्डे जरठा गृध्रा आसन् शताधिकाः ॥२॥आबालवृद्धाः सर्वे स्म वटषण्डे वसन्ति वै ।उड्डीयोड्डीय गगने मार्गयन्ति स्म भोजनम् ॥३॥दूरं दूरं पराक्रम्य भक्षयन्ति स्म मार्गितम् ।तेषां पारायणकाले महोत्सवः सदाऽभवत् ॥४॥नित्यं यत्र भोजनानि कुर्वन्त्यसंख्यमानवाः ।तत्र पारायणक्षेत्रे भोजनानां तु भूमिषु ॥५॥उच्छिष्टानि पतन्ति स्म विविधान्नानि बद्रिके ।भर्जितान्नानि शाकानि मिष्टान्नानि पतन्ति च ॥६॥वैष्णवानां पंक्तयो वै यत्र भवन्त्यहर्निशम् ।साध्वीनां पंक्तयश्चापि साधूनां पंक्तयस्तथा ॥७॥भवन्ति भुञ्जते तत्र प्रसादान्नानि साधवः ।तदुच्छिष्टानि पात्रेभ्यः पतितानि तु यानि वै ॥८॥पात्रोच्छिष्टानि चान्नानि गृध्रास्ते शतशः सदा ।पंक्त्यन्ते भुंजते सर्वे तृप्ता भवन्ति चान्वहम् ॥९॥उच्छिष्टक्षेपणस्थाने महोत्करेऽपि पक्षिणः ।प्रक्षिप्तोच्छिष्टपर्युषितान्नशाकानि भुंजते ॥१०॥शृणु बद्रीप्रिये चैत्रशुक्लद्वादशिकादिने ।स्वतःप्रकाशो भगवान् व्यासो मध्याह्नके शुभे ॥११॥भुक्त्वोच्छिष्टं प्रचिक्षेप पार्श्वे क्षेत्रे सपात्रकम् ।गृध्रस्त्वेको हि जरठो वटादुड्डीय चागमत् ॥१२॥अभक्षयत् तदुच्छिष्टं कृष्णप्रसादमिश्रितम् ।तावत्तस्य समस्तानि नष्टानि पातकानि वै ॥१३॥पुण्यात्मा त्वभवत्तूर्णं कर्माशयोऽस्य भस्मितः ।बहूनां पश्यतां पक्षी पपात भूतले द्रुतम् ॥१४॥निर्गत्य पक्षिदेहात् स दिव्यदेहश्चतुर्भुजः ।श्रीहरेः पार्षदो भूत्वाऽदृश्यत तत्र चाऽम्बरे ॥१५॥विस्मिताः साधवः सर्वे तथाऽन्ये वैष्णवा अपि ।वीक्ष्य तं पार्षदरूपं पप्रच्छुः साधवस्तु तम् ॥१६॥को भवान् पक्षिरूपोऽपि पार्षदं रूपमाप्तवान् ।वद सर्वं यथातथ्यं निवर्तय कुतूहलम् ॥१७॥इत्येवं पार्षदः श्रुत्वोवाच साधून् समुत्सुकः ।अभुवं पूर्वदेहोऽहं कौलिको मानवो भुवि ॥१८॥नाम्ना दण्डारणिश्चासं हिंसाचौर्यपरायणः ।खादके नगरे चासं महाकुटुम्बवानहम् ॥१९॥मम वृद्धस्य वृद्धो यस्तस्य पुत्रा दशाऽभवन् ।दशानां शतशश्चासन् शतानां तु सहस्रकम् ॥२०॥कन्यकाश्च तथा ह्यासँस्तासां वंशाः सहस्रकम् ।खादकं नगरं सर्वं प्रायः कौलिकवेशितम् ॥२१॥ते सर्वेऽपि वयं नित्यं गृहस्थाः सुकुटुम्बिनः ।अकरवाम वृत्त्यर्थं कृषिकर्माणि नित्यदा ॥२२॥दुष्काले चोष्णकाले वा कुर्मश्चौर्यं प्रसह्य वा ।लुण्टनं चापहरणं धनाऽन्नाऽम्बरसम्पदाम् ॥२३॥विप्राणां वापि साधूनां क्षत्राणां चान्यदेहिनाम् ।भक्षयामस्तदन्नादि धारयामोऽम्बरादिकम् ॥२४॥तेन पापेन पापिष्ठा मृता वयं तु ये च ये ।वृद्धा बाला युवानो वा नरा नार्यश्च ते खलु ॥२५॥सर्वे वयं वटे गृध्रा इमे जाताः स्म वंशजाः ।याम्यदुःखान्यनुभूय गृध्रा जाता वटे त्विह ॥२६॥तेषु सर्वेषु वृद्धोऽहं चौरोऽभवं विशेषतः ।चोरयित्वा मुहुस्तेषां पोषणं संव्यधां तदा ॥२७॥तेन याम्यमहाकष्टं मुक्त्वाऽत्र गृध्रतां गतः ।वृद्धः प्राचीनतमश्च भवामि बहुवत्सरः ॥२८॥व्यासस्योच्छिष्टमासाद्य हरेः प्रसादमुत्तमम् ।दग्धपामाऽभवं नष्टवासनश्च द्रुतं त्विह ॥२९॥मुक्तदशां गतश्चास्मि मुक्तः पक्षिशरीरतः ।प्रयामि त्वद्य बदरिकाश्रमं पावनं ततः ॥३०॥श्वेतद्वीपं प्रयास्यामि वैकुण्ठं च ततः परम् ।एवं मे मोक्षणं जातं प्रसादस्यैव भक्षणात् ॥३१॥प्रसादस्य तु माहात्म्यं मया वक्तुं न शक्यते ।महापापाः प्रसादेन मुच्यन्ते चाधमा अपि ॥३२॥प्रसादस्य तु माहात्म्यमति जानन्त्यजादयः ।मत्स्यो भूत्वा स्वयं ब्रह्मा चखाद सुप्रसादकम् ॥३३॥सुराः प्रसादमिच्छन्ति पितरः सुतरां सदा ।पापघ्नं पुण्यदं सत्त्ववर्धनं मोक्षदं तथा ॥३४॥प्राणा येषां न निर्यान्ति मृत्युदुःखजुषां यदि ।तेषां प्रसादलाभेन प्राणा निर्यान्ति वै द्रुतम् ॥३५॥भूतप्रेतपिशाचानां छाया तस्य न लुम्पति ।न बाधन्ते डाकिनीशाकिनीपिशाचिकाश्च तम् ॥३६॥प्रसादभक्षभक्तानां निर्मलान्यान्तराण्यपि ।धार्मिकानि प्रवर्तन्ते तमःपापक्षयाणि च ॥३७॥अप्रसादभोजिनोऽत्र देहं सदा पिशाचकः ।प्रसादभक्षभक्तस्य तनुः सदा तु देवता ॥३८॥प्रसादभोजने देहे देवा वसन्ति नित्यशः ।प्रसादभोजिनां दिव्यं शरीरं पावनं सदा ॥३९॥अप्रसादप्रभोक्तारः पापभोक्तार एव ते ।भूतप्रेतपिशाचान्नं प्रसादवर्जितं हि यत् ॥४०॥प्रसादभोजिनां नित्यं कृपा कृष्णस्य जायते ।कृपया सम्पदः सर्वा देहान्ते मोक्षसम्पदः ॥४१॥प्रसादभोजनं नित्यं निर्गुणं दोषवर्जितम् ।अपि स्वादभरं सर्वं निःस्वादं तत् सदा मतम् ॥४२॥कृष्णार्पिता रसाः सर्वे भुक्ता बध्नन्ति ते नहि ।रूपाणि यानि रम्याणि सुरूपाकृतयश्च याः ॥४३॥चाकचक्ययुताश्चापि तेजःप्रभासमन्विताः ।कृष्णार्पितास्तु ता भुक्ता नैव बध्नन्ति निर्गुणाः ॥४४॥गन्धा उच्चावचा ये ये तैलसारादयोऽपि च ।कस्तूरीकेसराद्याश्च कर्पूरं गन्धसारकाः ॥४५॥कृष्णार्पिता निर्गुणास्ते भुक्ता बध्नन्ति नैव ह ।शब्दा रम्याः स्वर्थभरा मनोहराश्च नर्मदाः ॥४६॥सुस्वरा उत्सवपूर्णा आकर्षकाश्च तानिनः ।कृष्णार्पिता निर्गुणास्ते भुक्ता बध्नन्ति नैव ह ॥४७॥वादित्राणि समस्तानि सङ्गीतानि च गीतयः ।आलापाश्चाऽर्पिताः कृष्णे निर्गुणा बन्धवर्जिताः ॥४८॥स्पर्शाश्च कोमलाः स्निग्धा मृदवः शीतला अपि ।उष्णा गम्या इष्टवर्या महानन्दप्रदाः सुखाः ॥४९॥चेतनस्था जडस्था वा कृष्णार्पिता न बन्धदाः ।संयोगा विविधाश्चापि कठिना शिथिलाश्च ये ॥५०॥द्रवाश्चापि समस्ता ये स्नेहा ये च मिथः शुभाः ।विज्ञानानि च काव्यानि तर्काश्च बुद्धयस्तथा ॥५१॥सुखदुःखे सर्वविधे सर्वा इच्छाश्च वासनाः ।द्वेषा यत्नाः क्रियाः सर्वा धर्माऽधर्मादयोऽपि ये ॥५२॥भावनाश्च समस्ता वै सर्वकर्माणि यानि वै ।भावा अभावाः श्रीकृष्णेऽर्पितास्ते निर्गुणाः सदा ॥५३॥तद्भोक्तारं न बध्नन्ति यतो मायाविवर्जिताः ।मायासत्त्वं रजश्चापि तमोऽहंममतादयः ॥५४॥स्वत्वं निद्रा च तन्द्रा च कृष्णेऽर्पिता तु निर्गुणाः ।नरो नारी बालिका च बालः कन्या युवा तथा ॥५५॥वृद्धो वृद्धाऽर्पिताः कृष्णे निर्गुणा मोक्षभागिनः ।गावो वृषा गजा उष्ट्रा अश्वा अजाः प्रजास्तथा ॥५६॥गृहं सर्वोपकरणं भोग्यजातं समस्तकम् ।वेषा भूषाः सम्पदश्च यानानि वाहनान्यपि ॥५७॥रक्तानि मणयश्चापि कणाः पत्राणि सर्वथा ।फलपुष्पाण्यर्पितानि कृष्णे निर्बन्धनानि वै ॥९८॥स्नानं ध्यानं धारणा च पूजा सेवा प्रदानकम् ।व्रतं तीर्थं पुण्यमिष्टं वापीकूपतडागकम् ॥५९॥सर्वं कृष्णार्पितं दिव्यं निर्गुणं बन्धवर्जितम् ।प्रवासो भारवाहित्वं भृत्यता दासता कृतिः ॥६०॥शिल्पिता कारुता कृष्णसमर्पितं तु निर्गुणम् ।कलाकौशल्यमत्यर्थं नवाऽऽविष्करणान्यपि ॥६१॥साधनान्युत्सवानां च प्रतिमाश्च पृथग्विधाः ।शृंगाराणि निर्गुणानि कृष्णेऽर्पितानि सर्वथा ॥६२॥पाचनं कर्षणं यानं कर्तनं लवनं तथा ।सीवनं चापि सन्धानं कृष्णार्पितं तु निर्गुणम् ॥६३॥श्वसनं दर्पणं स्पर्शः स्वादश्च घ्राणनं तथा ।भोगः फलं समस्तं च कृष्णार्पितं तु निर्गुणम् ॥६४॥वपनं सेचनं चाभ्यवर्धनं रक्षणं तथा ।पोषणं ग्रहणं सर्वं कृष्णार्पितं तु निर्गुणम् ॥६५॥मञ्जनं क्षुवनं चापि म्रोडनं त्रोटनं तथा ।हसनं रमणं चापि कृष्णार्पितं तु निर्गुणम् ॥६६॥विहारश्च समाप्तिश्चारम्भो विस्तारणं तथा ।संकोचश्च विकासश्च कृष्णाऽर्पितांस्तु निर्गुणाः ॥६७॥जृंभणं पक्षणं चापि निमेषोन्मेषणे तथा ।स्वपनं कूर्दनं पातः कृष्णाऽर्पितास्तु निर्गुणाः ॥६८॥धावनं क्रमणं न्यासः स्थैर्यमुडुयनं लयः ।प्रकाशनं यशः कीर्तिः कृष्णाऽर्पितास्तु निर्गुणाः ॥६९॥कण्डनी पेषणी चुल्ली जलकुंभी च मार्जनी ।वर्धनी शयनी कोष्ठी कृष्णाऽर्पितास्तु निर्गुणाः ॥७०॥मस्तकं नेत्रकर्णोरःकण्ठहस्तोदरादयः ।जघनोरुसक्थिजानुजंघापादादयस्तथा ॥७१॥कृष्णार्पिताङ्गसर्वस्वं निर्गुणं मोक्षदं भवेत् ।रुग्णता स्वास्थ्यमुदयो वृद्धिर्हानिः प्रशासनम् ॥७२॥अर्जनं व्यवहारश्च कृष्णाऽर्पितास्तु निर्गुणाः ।व्यापारो विक्रयो विनिमयः क्रयोऽपहारिता ॥७३॥भिक्षा चोपार्जनं वृत्तिर्जीविकाऽऽयव्ययौ तथा ।सदसद् यत् समस्तं तत् कृष्णार्पितं तु निर्गुणम् ॥७४॥स्त्रीपुंनपुंसकभावा धातवश्च प्रवर्तना ।निवर्तनाद्याः श्रीकृष्णार्पिता निर्गुणमुक्तिदाः ॥७५॥बन्धशून्या हरावर्पणमाप्ताः सर्वसम्पदः ।मोक्षायैव प्रजायन्ते कृष्णप्रसन्नताप्रदाः ॥७६॥यस्य द्रव्यं कृष्णशून्यं नैव नैव गुणास्तथा ।यस्य कर्म कृष्णशून्यं नैव नैव तथाऽस्तिता ॥७७॥न जीवनं कृष्णशून्यं न प्राणाः कृष्णवर्जिताः ।न चैतन्यं कृष्णशून्यं न वर्णः कृष्णवर्जितः ॥७८॥नाश्रमः श्रीकृष्णशून्यो न त्यागः कृष्णवर्जितः ।न दीक्षा श्रीकृष्णशून्या न मृत्युः कृष्णवर्जितः ॥७९॥नेषणाः श्रीकृष्णशून्यास्तस्य सर्वं हि निर्गुणम् ।दिव्यं कृष्णार्थकं सर्वं सर्वं मोक्षप्रदं हि तत् ॥८०॥कृष्णप्रसन्नतादं तत् तस्य सर्वं विराजते ।सोऽपि प्रसादपात्रं श्रीकृष्णार्पितस्तदीयकः ॥८१॥कृष्णतादात्म्यमाप्तो वै महाभागवतो हि सः ।कोटिकल्याणभूमिः सः सर्वकल्याणदोऽपि सः ॥८२॥अधर्मोद्धारकः स स्यादंशावतार एव सः ।साधुः स एव श्रीकृष्णसम्पद्वान् मुक्त उत्तमः ॥८३॥ब्रह्मैव स तु विज्ञेयो यः श्रीकृष्णार्थकः सदा ।मूर्तिः सा श्रीकृष्णनारायणवासार्थमन्दिरम् ॥८४॥तद्देहः श्रीकृष्णदेहस्तन्मनः कृष्णमानसम् ।तदिन्द्रियाणि श्रीकृष्णेन्द्रियाण्येव न वै पृथक् ॥८५॥तत्क्रियाः श्रीकृष्णनारायणक्रिया न चेतराः ।तत्सर्वस्वं कृष्ण एव तत्पूजा कृष्णपूजनम् ॥८६॥तत्सेवा श्रीकृष्णसेवा स एव कृष्णमूर्तिकः ।तस्य प्रसन्नता कृष्णप्रसन्नता न संशयः ॥८७॥तद्वाक्यं कृष्णवचनं तदाशीः कृष्णकीर्तिता ।तस्य प्राप्तिः कृष्णप्राप्तिर्नास्ति भेदो मनागपि ॥८८॥अवतारास्त एवोक्ता लोकोद्धारकरा भुवि ।तं भजन्तु महाराजं कृष्णनारायणं प्रभुम् ॥८९॥प्रयाम्यहं विशालां च प्रसादमात्रभोजनः ।स्वस्ति वोऽस्तु कृष्णनारायणश्रीनाथवल्लभः ॥९०॥हत्युक्त्वा बद्रिके गृध्रो दिव्यो बद्रीश्वरं ययौ ।नरनारायणं मां तु प्राप्तस्तपश्चकार ह ॥९१॥ततः श्वेतद्वीपधाम ययौ नारायणाश्रितम् ।ततो ययौ स वैकुण्ठं प्राप्तपूर्णमनोरथः ॥९२॥अथ तस्माद् ब्रह्मधाम प्रयास्यत्यक्षरं पदम् ।प्रभोनारायणकृष्णनारायणेति वै जपन् ॥९३॥इत्येवं बद्रिके जातो मोक्षस्तस्य प्रसादतः ।तस्मात् सर्वं करणीयं कारणीयं प्रसादजम् ॥९४॥अथाऽन्ये शतशो गृध्रा वटे प्रसादभोजिनः ।कौलिकस्य पुरा सम्बन्धिनो गृध्रगतिं गताः ॥९५॥तेऽपि नित्यं भुंजते स्म प्रसादं साधुयोगिनाम् ।तेन क्षपितकर्माणोऽभवन् पुण्याभिभागिनः ॥९६॥देहांस्तिर्यग्जातिजातान् त्यक्त्वा दिव्यशरीरिणः ।भूत्वा श्रीबदरीनाथं ययुर्दिव्याश्रमं तु नौ ॥९७॥तत्र तप्त्वा तपस्ते च ययुः श्वेतालयं हरेः ।तत्र नारायणसेवां कृत्वा वैकुण्ठकं ययुः ॥९८॥तेऽपि यास्यन्ति परमं धामाऽक्षरं ततः परम् ।प्रज्ञानारायणपद्माश्रीनारायणजापिनः ॥९९॥बद्रि प्रसादवत् कृष्णसत्तां धुलिं च पावनीम् ।सतां पादजलं पूतं पीत्वा यान्ति परं दिवम् ॥१००॥सतां प्रसेवया पूता न कल्पन्ते भवाय ते ।सतां मूर्तिः कृष्णमूर्तिः कथा कृष्णवचः शुभम् ॥१०१॥कृष्णार्पितं वैष्णवं वै तत् सेव्यं नेतरत् क्वचित् ।भुक्तिर्मुक्तिर्भवेत्तेन श्रीकृष्णाप्तिर्भवेत्सदा ॥१०२॥पठनाच्छ्रवणादस्य तिर्यग्योनिप्रदं त्वघम् ।नश्यत्येव परं पुण्यं जायते नात्र संशयः ॥१०३॥कृष्णे भक्तिर्जायतेऽपि सत्सु प्रीतिः प्रजायते ।सर्वार्पणादिभावः स्यात् तन्मयत्वं ततो भवेत् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पूर्वजन्मनि दण्डारणिनामकौलिकस्य गृध्रजन्मनि कथास्थले भगवत्साधुप्रसादोच्छिष्टभोजिनो मोक्षणं, तत्सम्बन्धिगृध्राणामपि प्रसादभोजनेन मोक्षणमित्यादिनिरूपणनामा षट्षष्टितमोऽध्यायः ॥६६॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP