संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|

तिष्यसन्तानः - अध्यायः १११

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मुकुन्दविक्रमं हरिः ।
उपोषणं चाद्यदिने कारयामास शुद्धये ॥१॥
गव्यप्राशनमेवापि क्षौरकर्माऽप्यकारयत् ।
देहशुद्धिं तथा तीर्थवारिभिः स्नानमित्यपि ॥२॥
अक्षय्यतृतीयायां च प्रगेऽभिषेकमुत्सवम् ।
कारयामास भगवान् सहस्रतीर्थवारिभिः ॥३॥
गणेशपूजनं चापि कुलदेवप्रपूजनम् ।
हनूमत्पूजनं चापि कारयामास माधवः ॥४॥
मण्डपे वास्तुदेवानामर्हणां लोमशेन तु ।
कारयामास भगवान् हवनानि यथायथम् ॥५॥
वह्नेः प्रपूजनं वह्नौ चरोः श्रपणमित्यपि ।
होमं च कारयामास विप्रैर्वै वेदपारगैः ॥६॥
बहुवाद्यान्यवाद्यन्त स्त्रीणां च गीतयोऽभवन् ।
महीमानाः सर्वलोकनिवासिनः समाययुः ॥७॥
मुक्तास्तथाऽवताराश्चेश्वराः सिद्धाश्च साधवः ।
सत्यदेवाश्च पितरो मातरो देवताः सुराः ॥८॥
पार्षदाश्चापि मुक्तान्यो देव्यो लक्ष्म्यः समाययुः ।
मण्डपे द्युनिवासाश्च रुद्राद्या विष्णवो ह्यजाः ॥९॥
लोकपाला दिशांपाला मेरुमन्दरवासिनः ।
तीर्थानि दिव्यतरवश्चाययुर्वृक्षवल्लिकाः ॥१०॥
तत्त्वानि शक्तयश्चापि कामदुघाः समाययुः ।
महर्षयश्च मुनयः साध्व्यः सत्यः समाययुः ॥११॥
भटाश्चारणगन्धर्वाः सूतमागधबन्दिनः ।
नर्तकाश्चापि नर्तक्यो मण्डपे वै समाययुः ॥१२॥
विद्वाँसः किंपुरुषाश्च किन्नरा यक्षराक्षसाः ।
उरगाश्च भुजगाश्च नागा दैत्याश्च दानवाः ॥१३॥
पशवः पक्षिणो दिव्या जातिस्मराः समाययुः ।
नद्यश्च पर्वताश्चापि समुद्राश्च रसास्तथा ॥१४॥
तारा ग्रहाश्च नक्षत्रमण्डलानि समाययुः ।
मानवाः ऋषयो विप्रा दीनाऽनाथाः समाययुः ॥१५॥
राजानो राजवर्गाश्च प्रजेश्वराः प्रजाजनाः ।
श्रेष्ठिनो वैष्णवा भक्ताः कोटिशस्तत्र चाययुः ॥१६॥
राजराजेश्वराः सर्वे निषेदुः स्वासनादिषु ।
मण्डपः सर्वसृष्टीनां सम्राजैः शोभनोऽभवत् ॥१७॥
वेदकार्याणि सर्वाणि प्रवर्तन्ते द्विजादिभिः ।
वेदघोषा उद्भवन्ति गर्जयन्ति दिशो दश ॥१८॥
गोपालः कारयामास पार्षदैः स्वागतादिकम् ।
श्रीकृष्णः कारयामास सम्मानं पाद्यवारिभिः ॥१९॥
अर्घ्यादिभिश्चापि तथा मधुपर्कैः समर्हणैः ।
विमानानि समन्ताद्वै व्योम्नश्चाऽवतरन्ति च ॥२०॥
आयान्ति देववर्याश्च मण्डपे दिव्यविग्रहाः ।
स्वागतेनाऽर्चिता निषीदन्ति सिंहासनेषु ते ॥२१॥
होमकार्यं तदा बद्रि प्रवर्तते यथायथम् ।
मुकुन्दविक्रमस्तत्र सपत्नीकोऽनले चरुम् ॥२२॥
जुहाव भावनायुक्ताश्चाज्यसमित्फलादिभिः ।
अथ श्रीलोमशस्तत्र कारयामास पूजनम् ॥२३॥
सुवर्णवर्मणश्चापि खड्गस्य चर्मणस्तथा ।
छत्रस्य वेत्रयष्ट्याश्च मुकुटस्य पटस्य च ॥२४॥
शतघ्न्याः पूजनं चापि गदायाः पूजनं तथा ।
चक्रस्य पूजनं लक्ष्म्या रुद्राण्याः पूजनं तथा ॥२५॥
धनुषः पूजनं चापि बाणस्य पूजनं तथा ।
सर्वशस्त्रास्त्रमन्त्राणां पूजनं च ततः परम् ॥२६॥
राजधिष्ण्याऽर्हणां चापि रुद्रस्य पूजनं तथा ।
विष्णोश्च ब्रह्मणश्चापि कारयामास पूजनम् ॥२७॥
सेनादेव्याः पूजनं च कोशदेवस्य पूजनम् ।
पृथिव्याः पूजनं चापि कारयामास लोमशः ॥२८॥
वाराहपूजनं चापि स्वामिश्रीकृष्णपूजनम् ।
भूपमुकुटपूजां च कारयामास लोमशः ॥२९॥
श्रिया लक्ष्म्याः पूजनं च लाभशुभप्रपूजनम् ।
जयश्रीपूजनं चापि कारयामास लोमशः ॥३०॥
दिक्पालाऽऽवाहनं भूपदेहे चकार लोमशः ।
सुराऽऽवाहनमेवाऽपि चकार लोमशो गुरुः ॥३१॥
भूपतित्वार्थसंसिद्ध्यै चक्रे भुवः प्रपूजनम् ।
प्रजापतित्वसिद्ध्यर्थं चक्रे प्रजेशपूजनम् ॥३२॥
लक्ष्मीपतित्वसिद्ध्यर्थं चक्रे लक्ष्मीप्रपूजनम् ।
दण्डपतित्वसिद्ध्यर्थं चक्रे यमस्य पूजनम् ॥३३॥
धनपतित्वसिद्ध्यर्थं चक्रे कुबेरपूजनम् ।
नद्यब्धीशत्वसिद्ध्यर्थं चक्रे वरुणपूजनम् ॥३४॥
अन्नौषधीशताप्त्यै चक्रे चन्द्रप्रपूजनम् ।
राजत्वसिद्धिलाभाय चक्रे महेन्द्रपूजनम् ॥३५॥
पाकपतित्वलाभार्थं चक्रेऽर्कपूजनं मुनिः ।
आरोग्यार्थं रोगपतिरुद्रार्हणां चकार सः ॥३६॥
तेजोलाभाय च वह्निपूजां चकार लोमशः ।
प्राणरक्षाकरं देवं वायुं पुपूज लोमशः ॥३७॥
मातृकापूजनं राष्ट्रप्रजावृद्ध्यै चकार सः ।
समस्तसृष्टिदेवानां चकार पूजनं तथा ॥३८॥
वाहनानां पूजनानि शमिगोहस्तिवाजिनाम् ।
यानयन्त्रविमानानां पूजां चकार लोमशः ॥३९॥
बलिदानानि सर्वेभ्यो ददौ श्रीलोमशस्तदा ।
निर्ऋतिरक्षसां चापि सुराणां ग्रहनाकिनाम् ॥४०॥
बलिदानानि च ददौ लोमशः सुखहेतवे ।
कृत्वैवं विधिवत् पूजां शान्तिं श्राद्धं यथाविधि ॥४१॥
मुखे पूर्णाहुतिं दत्वा लोमशस्तु ततः परम् ।
प्रसादतिलकं चक्रे राजराज्ञीललाटयोः ॥४२॥
राजवेषं च मुकुटं यज्ञोपवीतकं स्रजम् ।
मुकुटं धारयामास यवांकुराणि भूपतिः ॥४३॥
शस्त्रधारणमेवाऽपि चक्रे मुकुन्दविक्रमः ।
चक्रे राज्यप्रतिज्ञां च प्रजापालनगर्भिताम् ॥४४॥
लोमशाद्याः ऋषयश्च वृद्धा नृपादयः प्रजाः ।
ईश्वराश्च तथा मुक्ता विप्रा आरार्त्रिकं व्यधुः ॥४५॥
आशीर्वादान् ददुश्चापि चिरं जीव प्रजा अव ।
पुत्रपौत्रादिमानास्स्व प्रजासेवापरो भव ॥४६॥
स्वस्ति ते सर्वदा चास्तु मंगलानि सदा तव ।
उत्सवास्ते प्रजायां तु भवन्तु सततं सुखाः ॥४७॥
अविघ्नं तव राज्यं चाऽसमुद्रान्तं स्थिरं सदा ।
आरोग्यधान्यधनवत् सम्पन्नं सर्वदाऽस्त्विति ॥४८॥
अथैवं द्विजवर्यास्ते समुच्चार्य सुमाऽक्षतैः ।
वर्धयामासुरत्यर्थं पुष्पाञ्जलीन् ददुः क्रमात् ॥४९॥
त्रिविक्रमायनर्षिश्च तिलकं प्रचकार ह ।
मुकुटं च स्रजं तस्य मूर्ध्नि कण्ठेऽन्यसत्तदा ॥५०॥
अन्येऽपि साधवो विप्राः पुपूजुः क्ष्मापतिं तदा ।
गुरुः प्रकाशो भगवान् राजपत्रं ददौ तदा ॥५१॥
राज्याधिकारलेखं च ददौ तस्मै नृपाय वै ।
जयनादा अभवँश्च राजानश्चोपदा ददुः ॥५२॥
उपायनानि रत्नानि मणिहारान् सुवर्णजान् ।
ददुर्नृपाय चाऽमूल्यान् सम्पदश्च पराः शुभाः ॥५३॥
कश्चिच्छत्रं तथा कश्चिद् वेत्रं तथा च चामरे ।
मुकुटं कुण्डले कश्चित् कटके च धनानि च ॥५४॥
स्वर्णरूप्यकभूषाश्च ददू राजन्यवंशजाः ।
प्रजाजनाः सुरा देववराश्च देवता ददुः ॥५५॥
उपायनानि बहूनि चामूल्यानि तदा तदा ।
अथ श्रीभगवानस्य तिलकं संव्यधाद्धरिः ॥५६॥
वंशविस्तारवान् राजा भव चक्राधिपाधिपः ।
इत्युक्त्वा मस्तके मालां करं पुत्रस्य सन्ददौ ॥५७॥
आह संशृण्वतां सर्वभूपानां संसदि प्रभुः ।
भवतां सर्वभूपानां मूर्धन्योऽयं मया कृतः ॥५८॥
मुकुन्दविक्रमो राजेश्वरः सम्राट् कराऽर्जकः ।
सुदर्शनं मम चक्र रक्षार्थं दीयतेऽस्य वै ॥२९॥
अशासने स्थिता ये स्युस्तेषां निबर्हणं त्विदम् ।
इत्युक्त्वा श्रीकृष्णनारायणश्चक्रं ददौ महत् ॥६०॥
सहस्रारं यथावाञ्च्छा तथारूपधरं शुभम् ।
चक्रध्वजं जैत्ररथं ददौ शंखं जयप्रदम् ॥६१॥
कल्पलतां चाऽक्षयं सत् पात्रं ददौ हरिः स्वयम् ।
पुष्पाञ्जलिं ददौ कण्ठे जीवमालां ततो ददौ ॥६२॥
अथैवं पूजने जाते मुकुन्दविक्रमो नृपः ।
शुशुभे कृष्णवत् तत्र राज्ञीयुतो नृपासने ॥६३॥
वृद्धाभिवादनं चक्रे श्रीकृष्णपूजनं व्यधात् ।
ददौ दानानि सर्वाणि स्वर्णरत्नाम्बराणि च ॥६४॥
गजवाजिविमानानि गृहोद्यानतलानि च ।
धनानि सम्पदश्चापि दिव्यान्नभूषणानि च ॥६५॥
ब्रह्माण्डदानमेवाऽपि तुलादानानि यान्यपि ।
धेनुदानानि सर्वाणि कन्यादानानि वै तथा ॥६६॥
ग्रामक्षेत्रालयदानान्यपि ददौ तदा नृपः ।
जीविकाः प्रददौ देवालयदीनान्धरोगिषु ॥६७॥
मोचयामास निगडस्थितान् प्रदण्डितान् जनान् ।
मिष्टान्नानि तदा तत्र भूरीणि प्रददौ नृपः ॥६८॥
सूतमागधबन्दिभ्यश्चारणेभ्यो धनं ददौ ।
विप्रर्षिद्विजजातिभ्यो महादानानि वै ददौ ॥६९॥
भोजनानि समस्तेभ्यो ददौ राज्ये तदा दिने ।
जयशब्दैः समं तत्र सभामण्डपतो नृपः ॥७०॥
दत्वा च दक्षिणास्तूर्णं परिहारं विधाय च ।
उत्थितो राजचिह्नैश्च सर्वराजन्यवन्दितः ॥७१॥
मातरं पितरं नत्वाऽभिवाद्याऽभिजनं नृपः ।
राज्याऽग्रपदभाग्भिश्च प्रार्थितो भ्रमणाय ह ॥७२॥
जगर्यां सैन्यसहितो वर्धमानो जनैस्तदा ।
बभ्राम राजमार्गेषु सर्वसैन्यसमन्वितः ॥७३॥
वन्दितः पूजितश्चाशीर्भिश्च संवर्धितो नृपः ।
प्रजाः प्रसाद्य यमुनां गत्वा प्रपूज्य तां नदीम् ॥७४॥
जलं पीत्वाऽऽपूज्य दुर्गं शनैर्यायान्नृपालयम् ।
विशश्राम क्षणं पश्चाद्भाजनानि शुभानि वै ॥७५॥
कारयामास सर्वेभ्यो महीमानेभ्य आदरात् ।
भोजयामास सर्वाश्च विदायं प्रददौ तदा ॥७६॥
जयध्वनिं च यन्त्राणां श्रावयामास चक्रराट् ।
सायं नृत्यानि मोदार्थं भूभृतोऽप्सरसो व्यधुः ॥७७॥
गायनानि च गन्धर्वाः कवयः कविता व्यधुः ।
एभ्योऽपि नृपवर्योऽसौ ददौ तोषाय सद्धनम् ॥७८॥
विशश्रमुस्ततो रात्रौ सर्वे राजा प्रजादयः ।
प्रातर्जजागरुः श्रुत्वा मंगलानि शुभानि ह ॥७९॥
महीमाना ययुर्नैजान् देशान् लोकान् सुखान्विताः ।
भुक्त्वा विधाय पानानि चाशीर्वादपरायणाः ॥८०॥
अथाऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।
निजपुत्रान् यमलाँश्च स्वस्वमातामहादिभिः ॥८१॥
सह गन्तुं तदाज्ञां वै चकार बहुपूजितान् ।
श्वशुराश्च तथा चाऽन्ये प्रसन्ना बहुमानिताः ॥८२॥
ययुर्नैजान् प्रदेशांश्च विमानैश्च निजैः सह ।
प्रजाः स्वस्वप्रदेशाँश्च ययुर्वै मानितास्तदा ॥८३॥
अथाऽनादिकृष्णनारायणः स्वीयजनैः सह ।
पुत्राय शिक्षणं दत्वा ययौ कुंकुमवापिकाम् ॥८४॥
स्वपत्न्यादिसमेतश्च स्वीयकुटुम्बयुक् तथा ।
लोमशाद्यैश्च सहितो ययावश्वसरोभुवम् ॥८५॥
बद्रिके भगवत्पुत्रश्चाभिषिक्तो नृपासने ।
शशास पृथिवीं दीर्घां दशसाहस्रयोजनाम् ॥८६॥
करदीकृतभूपालो भगवद्बलमाश्रितः ।
वैष्णवीं पृथिवीं सर्वां चकार धर्मशासनः ॥८७॥
नाऽस्य राज्ये ह्यनावृष्टिर्दुभिक्षं दुष्टपीडनम् ।
रोगा नैवाऽकालमृत्युर्न च वैधव्यमित्यपि ॥८८॥
न शाठ्यं न च पैशुन्यं कापट्यं न प्रजास्वपि ।
न हिंसा नापि चौर्यं च प्रसह्य हरणं न च ॥८९॥
नैव वसतिद्वाराणां पिधानं विद्यते तदा ।
उद्घाटितकपाटा वै तदा वसतयः सदा ॥९०॥
वाग्बन्धे न व्यभिचारः प्रतिज्ञाभंग एव न ।
वृद्धाभिवादनं नित्यं पञ्चमखप्रवर्तनम् ॥९१॥
पञ्चाग्नितापनं नित्यश्राद्धादि कर्म वै सताम् ।
विप्राणां वेदघोषाश्च ग्रामे ग्रामे स्थले स्थले ॥९२॥
सर्वाः कामदुघा गावः पातिव्रत्यपराः स्त्रियः ।
सत्यः साध्व्यश्च सन्तश्च गृहस्था अपि सर्वदा ॥९३॥
शममार्गस्थिता नारायणध्यानपरायणाः ।
फलन्ति च तदा कल्पवल्लिका इव बुद्धयः ॥९४॥
कृष्णार्पितानि शस्त्राणि दिव्यविग्रहवन्ति च ।
प्रवर्तन्ते तु दण्डार्थं गत्वा दुष्टं स्वयं तदा ॥९५॥
देशान्तरे प्रशास्तारः शस्त्ररूपा भटास्तदा ।
कारागारस्य नैरर्थ्यं तदाऽभवत् समन्ततः ॥९६॥
अग्नयः सीमभागस्था रक्षन्त्यस्य सुराष्ट्रकम् ।
अब्धयो मूर्तिमन्तश्च दुर्गनिर्वाहकारिणः ॥९७॥
अस्याऽध्वरेषु वै देवाः साक्षादायान्ति शार्ङ्गिणा ।
सहिताः पार्षदा मुक्ता ईश्वरा हव्यभोजनाः ॥९८॥
ग्रामदेव्यो वनदेव्यो रक्षन्ति तत्प्रजाः सदा ।
दैत्यदानवरक्षांसि सत्त्वभावं गतानि वै ॥९९॥
तामस्यः सम्पदो याश्च गताः सात्त्विकतां तदा ।
विघसाशिप्रजाश्चास्य देवगृहान्वितगृहाः ॥१००॥
बद्रिके सर्वथा भक्तिः प्रावर्तत समन्ततः ।
हरेः पुत्रस्य राज्ये वै मोक्षदा सम्पदावहाः ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दिलावरीराजधान्यां मुकुन्दविक्रमस्य राज्याभिषेकोत्सवादिनिरूपणनामैकादशाधिकशततमोऽध्यायः ॥१११॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP