संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५९ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां भाण्डस्य मोक्षदाम् ।द्वारामृते तु नगरेऽभवद् भाण्डः कुटुम्बवान् ॥१॥ज्ञातिवृद्धोऽतिमतिमान् हास्यनर्मादिपण्डितः ।राजोत्सवेषु सर्वेषु प्रजोत्सवेषु चापि सः ॥२॥आमन्त्रितः प्रयात्याशु रात्रौ खेलं करोति च ।गायनं नर्मपद्यानि नर्मकर्माणि वै तदा ॥३॥कृत्वा प्रदर्श्य नृपतीन् हासयत्येव तत्प्रजाः ।एवं स कुशलश्चास्ते प्राप्नोति पारितोषिकम् ॥४॥प्रसिद्धः सोऽभवद्भूमौ नाम्ना तु भण्डशीलकः ।जनेभ्यः सोऽपि शुश्राव पारायणमहोत्सवम् ॥५॥लक्षातिलक्षलोकानां समाजो यत्र जायते ।कथा दिव्या भवन्त्येव विनोदाश्च नवा नवाः ॥६॥खेलनानि भवन्त्येव नूत्नप्रदर्शनान्यपि ।पापनाशो भवत्येव कथाश्रवणतोऽपि च ॥७॥सतां समागमश्चापि दर्शनं परमात्मनः ।प्रजायते प्रभक्तानां चमत्कारो भवत्यपि ॥८॥विमानं श्रीहरेस्तत्र समायाति सुशोभनम् ।मुक्ता भूत्वा जना यान्ति परमेशपदं परम् ॥९॥नरा नार्यः प्रयान्त्येव धामाऽक्षरं हरेरिह ।पापानां मोक्षणं तत्र कार्यते परमात्मना ॥१०॥एवं भाण्डान् समस्तान् वै कथयित्वा हरेर्बलम् ।स्वयं समस्तभाण्डैश्च नरनारीसमन्वितः ॥११॥बालिकाबालयुक्तश्च वृद्धपूज्यसमन्वितः ।अनोभिः सहितः सर्वैः पाथेयवस्तुभिः सह ॥१२॥पश्वादिवाहनैर्युक्तः सज्जो भूत्वा समुत्सुकः ।प्रतस्थे श्रीहरिं ध्यात्वा नत्वा ग्रामस्य देवताम् ॥१३॥धनं दानार्थकं चापि भूषावस्त्राम्बराण्यपि ।इष्टोपकरणाद्यं च नीत्वा ययौ कथां प्रति ॥१४॥शर्करानगराभ्याशे स्नात्वा सिन्धुजले स तु ।सर्वकुटुम्बसहितो मानवैस्त्रिशतैर्युतः ॥१५॥राजोद्याने विधायैव वसतिं स्वास्थ्यमाप्तवान् ।पूजासामग्रिकायुक्तो वृद्धमानवसंयुतः ॥१६॥कथामण्डपमभ्यागाद् व्यासपूजनहेतवे ।संहितायाः स्थलं गत्वा नत्वा सभाजनानपि ॥१७॥जयमोक्षप्रदकृष्ण व्यासजीव चिरं जय ।ऋषयो वृद्धपूज्याश्च जयताऽत्र कृपाकराः ॥१८॥जयन्त्विमे साधवश्च श्रोतारोऽपि जयन्त्विह ।यात्रालवस्तीर्थवासा जयन्तु सर्वदा भुवि ॥१९॥विप्राः साध्व्यः साधवश्च जयन्तु मोक्षकारिणः ।अज्ञानपापहर्तारो जयन्तु वैष्णवा जनाः ॥२०॥इत्येवं ते वदन्तो वै चक्रिरे दण्डवन्मुहुः ।धूलिं सभास्थलस्यापि दध्युः शिरस्सु वर्ष्मसु ॥२१॥अथाऽऽज्ञां व्यासदेवस्य लब्ध्वा पूजार्थमाययुः ।उपदा विविधा न्यस्य पुष्पहाराँस्तिलाऽक्षतान् ॥२२॥फलानि ताम्बूलकानि न्यधुस्ते संहितापुरः ।व्यासस्य चन्दनाद्यैश्च पूजां प्रचक्रिरे ततः ॥२३॥नीराजनं व्यधुश्चापि चक्रुस्तस्य प्रदक्षिणम् ।नर्तनं गायनं चक्रुर्भाण्डाः सर्वे सुभाण्डिनः ॥२४॥सुभाषया हासयन्तो जनान्नत्वा सभान्तरे ।प्रसादं च जलं पीत्वा निषेदुः श्रवणार्थिनः ॥२५॥कथां श्रुत्वा जगृहुस्ते मन्त्रं श्रीलोमशान्मुनेः ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥२६॥'कृष्णनारायण कृष्णनारायण नरायण ।बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥२७॥एवं धुन्यं ददौ तेभ्यो नामसंकीर्तनाय वै ।ततस्ते स्वनिवासं वै गताः स्वस्था हरिश्रिताः ॥२८॥नित्यं कथां प्रशृण्वन्ति गायन्ति गीतिका हरेः ।आबालवृद्धाः सर्वे ते सेवन्ते साधुयोगिनः ॥२९॥एवं नित्यं तु यत्संगं कृत्वा मासो गतो द्रुतम् ।चैत्रकृष्णैकादशिकारात्रौ जागरणं व्यधुः ॥३०॥द्वादश्यां ते कृतस्नाना कथाश्रवणतः परम् ।सभायामेव सहसा व्यासासनेऽति भासुरम् ॥३१॥कृष्णनारायणं श्रीशं हसन्तं विलुलोकिरे ।पश्यतां तु सदस्यानां व्यासे प्रकाशके प्रभो ॥३२॥तिरोऽभवद्धरिस्तूर्णं संहितायां रमाऽऽविशत् ।आश्चर्यं परमं तत्तु दृष्ट्वा श्रीलोमशो मुनिः ॥३३॥भाग्योदयं तु भाण्डानामवोचत्तत्र संसदि ।त्रयोदश्यां पुनश्चैवं कथोत्तरं प्रकाशनम् ॥३४॥प्रसञ्जातं चतुर्दश्यां तथैव पारमेश्वरम् ।अमायां तु प्रगे भाण्डाः स्वाप्नं श्रेष्ठं व्यलोकयन् ॥३५॥विमानेनाऽक्षरं धाम प्रयान्तीत्यभ्यलोकयन् ।ततः प्रसन्नचित्तास्ते ब्राह्मे प्रोत्थाय सत्वरम् ॥३६॥स्नात्वा सज्जा बहवोऽपि भूत्वा कथास्थलं ययुः ।कथान्ते तु प्रकाशं ते व्याजह्रुः स्वप्नगोचरम् ॥३७॥लोमशस्तु समाकर्ण्य प्राहाऽद्य मोक्षणं तु वः ।सायं कथान्ते भाव्यं वै सज्जा भवत मुक्तये ॥३८॥भाण्डास्तेऽपि यथायोग्यं सज्जा गन्तुं ततोऽभवन् ।सायं कथान्ते भगवान् स्वामीकृष्णनरायणः ॥३९॥विमानेनाऽऽययौ नेतुं कानकेन सुवर्चसा ।सज्जान् निष्कास्य देहेभ्यो दिव्यदेहान् विधाय च ॥४०॥लब्ध्वा दिव्ये विमाने तान् ययौ धामाक्षरं निजम् ।सार्धशतं ययुर्मुक्ता मुक्तानिकास्तु भाण्डकाः ॥४१॥ब्रह्माण्डभाण्डं निर्भिद्य ब्रह्मभाण्डं प्रपेदिरे ।अहो दया विचित्रा वै श्रीमाधवपरात्मनः ॥४२॥भाण्डान्नीत्वा ययौ कृष्णो लक्ष्मीपद्मावतीपतिः ।अथाऽन्ये बद्रिके शिष्टा भाण्डास्तदूर्ध्वदैहिकम् ॥४३॥चक्रिरे सिन्घुतीरे वै भूत्वा ते वैष्णवाः पराः ।कथायाः श्रवणार्थं ते वसतिं तत्र चक्रिरे ॥४४॥तेऽपि सेवां सतां नित्यं साधूनां चक्रिरे मुदा ।सतीनां ब्रह्मचाराणां यतीनां सेवनं व्यधुः ॥४५॥निष्पापाः समजायन्त सेवापूजनदर्शनैः ।महाभागवता जाता येषां वंशाश्च पावनाः ॥४६॥नरा नार्यः साधुभक्ताः साधुतुल्यास्ततोऽभवन् ।सर्वार्पणविधानेऽपि निःसंशयात्मवेदिनः ॥४७॥बद्रिके तेषु चायुष्यक्षयो येषां व्यजायत ।तेऽपि दिव्येन यानेन शनैर्धामाऽक्षरं ययुः ॥४८॥अन्ये बाला युवानश्च युवत्यो भेजिरे हरिम् ।आजीवनं कृष्णकान्तं श्रीप्रभुं माधवीपतिम् ॥४९॥तेषां योगेन बहवो ज्ञातिबन्धव इत्यपि ।श्रीकृष्णकान्तभक्ताश्च जाता याताः परं पदम् ॥५०॥बद्रिके तत्र चान्यत्तु महाश्चर्यमभूच्छृणु ।त्रिगालवकुटुम्बानि संघशस्तत्र फाल्गुने ॥५१॥आसन् समागतान्येव मूलतन्तुकपत्तनात् ।भवायनोऽभवत्तेषामग्रेसरः कलाविदाम् ॥५२॥वेषाणां धारणे चानुकरणे कुशलः कृतौ ।शिक्षाप्रदोऽभवत्तेषां गुरुर्भवायनः. स्वयम् ॥५३॥भवायनस्य या शाला शुभा नाट्यकलाविदः ।तस्यामासन् शिक्षणीयाः शिष्याः पञ्चशतानि वै ॥५४॥तैः सर्वैः सहितः श्रुत्वा महिमानं हरेः स च ।आगतोऽभूत् कथायां वै श्रवणार्थं तथाऽपरम् ॥५५॥श्रुतमाश्चर्यमेवाऽपि परीक्षितुं विलोकितुम् ।सिन्धुतीरे वने रम्ये आरामवत्समस्थिते ॥५६॥वसतिं कृतवान् श्रेष्ठां भवायनकलापिनः ।अथैकदा कथां श्रुत्वा रात्रौ खेलं प्रचक्रिरे ॥५७॥तत्र ते दर्शयामासुः शृणु तद् वर्णयामि ते ।ब्रह्मणस्तु पुरा जातः कुमारः क्षुतसंभवः ॥५८॥क्षुपनामाऽकरोत्तस्य ब्रह्मा स्वयं तु विश्वसृट् ।तस्य मित्रं दधीचाख्यो महर्षिश्च्यवनात्मजः ॥५९॥स प्रोवाच प्रसंगेन द्वयोः श्रैष्ठ्ये विचारिते ।विप्रः श्रेष्ठ इति श्रुत्वा नृपः प्राह तु बाहुजः ॥६०॥यतो राज्ञि निवसन्ति दिक्पाला अष्टसंख्यकाः ।ततो वै क्षत्रियः श्रेष्ठो मूर्धाभिषिक्तदैवतः ॥६१॥श्रुत्वैतद्रोषमापन्नो दधीचो वामहस्तजाम् ।मुष्टिं दृढां प्राहरद्वै नृपस्योरसि निर्भयः ॥६२॥राजा रुषा तु खङ्गेन शिरश्चिच्छेद तत्क्षणम् ।ततो हत्या ब्रह्महत्या प्रादुर्भूता भयंकरी ॥६३॥क्षुपं ववल्ग सहसा मारयामीत्युवाच तम् ।यद्वा जीवय विप्रेन्द्रं सञ्जीवन्या सुखी भव ॥६४॥श्रुत्वा राजा प्रसस्मार शुक्राचार्यं स आययौ ।सञ्जीवन्या भार्गवः स शिरःसन्धानमाचरत् ॥६५॥दधीचो जीवनं लब्धवान् सा हत्या व्यलीयत ।अथ विप्रस्तपश्चक्रे शंकरस्योपरि ध्रुवम् ॥६६॥शंभुः साक्षात् समायातो ददौ तत्र वरद्वयम् ।अवध्यत्वमजेयत्वं स्तां ते दधीच सर्वदा ॥६७॥दधीचश्चाधिकं वव्रे वज्रास्थित्वं तृतीयकम् ।तथास्त्विति हर उक्त्वाऽन्तर्धामं प्रजगाम ह ॥६८॥अतः कालान्तरे विप्रक्षत्रयोर्मित्रयोः पुनः ।श्रैष्ठ्यवादे प्रजाते स्वं दधीचः श्रेष्ठमाह वै ॥६९॥राजा श्रैष्ठ्यं निजं प्राह तदा विप्रो रुषा ज्वलन् ।वामपादेन नृपतेर्मूर्ध्नि दृढमताडयत् ॥७०॥अथ राजा पुरा कृत्वा भक्तिमिन्द्रात् कुलीशकम् ।प्राप्तवान् यत् प्रजहार तेन विप्रस्य वक्षसि ॥७१॥वज्रं स्पृष्ट्वा पपातैव न प्रावर्तत मृत्यवे ।व्यर्थं वज्रं विलोक्यैव राजा रोषमवाप्तवान् ॥७२॥उत्थाय प्रययौ पूजागृहं विष्णुमतोषयत् ।प्रत्यक्षं त्वागतं विष्णुं राजा प्राह वरार्थकः ॥७३॥विष्णो सुदर्शनं चक्रं देहि मे विजयप्रदम् ।विष्णुस्तस्मै प्रदायैव ययौ वैकुण्ठमच्युतः ॥७४॥अथ राजा रोषयुक्तो मुमोचाऽस्य सुदर्शनम् ।दधीचस्य गले यावत्तावद् दधीच उल्बणम् ॥७५॥फुत्कारं जनयामास सुदर्शनायुधोपरि ।सहस्रधाराः सर्वास्ताः फुत्कारवह्निना तदा ॥७६॥रसभावं द्रवभावं गताश्चक्रं प्रकुण्ठितम् ।पपात सहसा भूमौ निष्फलं लोहपिण्डकम् ॥७७॥तदा क्षुपो विवेदापि बलं विप्रस्य वै महत् ।अथापि रोषमापन्नो विष्णुं चाराधयत्पुनः ॥७८॥विष्णुः समाययौ राजा विष्णुं प्राह कृताञ्जलिः ।दधीचस्य विनाशं त्वं कुरु गर्वहरं प्रभो ॥७९॥विष्णुस्तं प्रत्युवाचाऽपि विप्रहत्या भयावहा ।न कर्तव्या कदाचिद्वै राजन् स्वार्थहितैषिणा ॥८०॥किन्तु तं संकथयामि विवदस्व नृपेण मा ।इति विष्णुर्दधीचं तु शिक्षादानाय चाययौ ॥८१॥दधीचस्तं प्रभुं नत्वा रुषा नोवाच किञ्चन ।अथ विष्णुर्निजे देहे दर्शयामास वै जगत् ॥८२॥स्थावरं जंगमं रुद्रं दधीचं स्थिरजंगमम् ।तदा दधीचो हरये दर्शयामास योगिराट् ॥८३॥स्थावरं जंगमं सर्वं विष्णुं नृपं स्ववर्ष्मणि ।उवाच विष्णुं च ततो मा मायां मे प्रदर्शय ॥८४॥नाऽहं तयाऽपि मुग्धोऽस्मि सदा विप्रः समुत्तमः ।श्रेष्ठो विप्रः सदा चास्ति न क्षत्रं गर्वसंभृतम् ॥८५॥याहि विष्णो निजं स्थानं लभ जन्म पुनः पुनः ।क्षत्रपक्षगतो यस्मात् फलं भुंक्ष्व मयोदितम् ॥८६॥सुदर्शनं ते गलितं पुनः प्राप्नुहि तत्तथा ।दैत्यनाशार्थमेवापि न विप्रस्य विच्छित्तये ॥८७॥एवं शप्तो हरिस्तेन दधीचेन महात्मना ।ततो विप्रे तु बाणेन जयं करोति माधवः ॥८८॥अवतारेषु सर्वेषु दैत्ये सुदर्शनेन च ।अथ क्षुपोऽभवद् भक्तो दीक्षावान् साधुरुत्तमः ॥८९॥सन्न्यासयोगमापन्नो वैष्णवोत्तम उत्तमः ।तदा दधीचो विप्रोऽपि साधुं नेमे पुनः पुनः ॥९०॥उवाच विष्णुरूपोऽसि साधो श्रेष्ठतमोऽधुना ।ऋभुः सनत्कुमारश्च कपिलो दत्तवामनौ ॥९१॥पर्शुरामश्च सर्वे ते वैष्णवाः साधवः पराः ।परब्रह्मस्वरूपास्ते विप्राणां गुरवोऽमलाः ॥९२॥विप्राणां साधवः श्रेष्ठाः पूज्यास्ते ब्रह्मगोत्रिणः ।वर्णानां गुरवो विप्रा विप्राणां तु गुरुर्यतिः ॥९३॥साधवः सर्ववर्णानां गुरवः श्रेष्ठयोगिनः ।अनादिश्रीकृष्णनारायणः साधून् समर्हति ॥९४॥एवं बद्रीप्रिये तत्र कृष्णनारायणः प्रभुः ।समाययौ दिव्यरूपः पुपूज व्यासरूपिणम् ॥९५॥साधुं निजप्रकाशं वै महाविष्णुस्वरूपिणम् ।दधीचोऽपि क्षुपायनाऽभिधं सन्तं पुपूज ह ॥९६॥एवं साधौ हरिश्चास्ते साधुरूप स्वय हरिः ।निजप्रकाशे तत्रैव प्रभुःकृष्णस्तिरोऽभवत् ॥९७॥इत्येवं नाटकं सर्वं दर्शयामासुरुत्युकाः ।भवायनस्य शिष्यास्ते लक्षजना व्यलोकयन् ॥९८॥दर्शकाः सर्व एवैते प्रसन्नाः ऋषयोऽमलाः ।मानवाश्च नरा नार्यः प्रसन्ना वीक्ष्य नाटकम् ॥९९॥सन्तश्च मुनयः सर्वे साध्व्यश्च साधवोऽपि च ।लोमशोऽपि तथा व्यासः प्रसन्नास्तेऽभवँस्तदा ॥१००॥वरदानाय तानाहुस्ते सर्वे वरदानकम् ।पापनाशं मोक्षणं च ययाचिरे तु वाचकात् ॥१०१॥सदा लोके च नः स्याद्वै नाटकं तु यशःप्रदम् ।एवं तद्वंशजानां तु कृते ययाचिरेऽपि च ॥१०२॥तथाऽस्त्विति प्राह तत्र व्यासः प्रकाशकृत् स्वयम् ।ऋषयोऽपि तथा प्राहुर्जयकारोऽभवत्तदा ॥१०३॥प्रशशंसुर्नरा नार्यः कृष्णार्थकृतखेलनान् ।मोक्षार्थवरयाचितॄन् कृतकृत्यान् प्रभुप्रियान् ॥१०४॥श्रीलोमशाज्जगृहुस्ते मन्त्रं च नामधुन्यकम् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वहा' ॥१०५॥'कृष्णनारायण कृष्णनारायण नरायण ।बालकृष्णाऽनादिकृष्णनारायण रमायण ॥१०६॥धुन्यं प्रचक्रिरे प्रेम्णा साधुसेवां प्रचक्रिरे ।ततः पापानि नष्टानि वासना विलयं गता ॥१०७॥चैत्रकृष्णामावास्यायां सायंकाले हरिः स्वयम् ।दिव्यरूपो बालकृष्णो विमानेन समाययौ ॥१०८॥भवायनं तथा वृद्धान् कृत्वा तु दिव्यविग्रहान् ।निन्ये धामाऽक्षरं नैजं कृष्णनारायणः प्रभुः ॥१०९॥भवायनस्य शिष्या वै परे गृहस्थरूपिणः ।नरा नार्यश्च ते सर्वे भावायना भुवि श्रुताः ॥११०॥अभवन् पावना लोकरञ्जका खेलकोविदाः ।वैष्णवास्तेऽभवन् सर्वेऽवशिष्टाः शर्करापुरे ॥१११॥कथान्ते ते ययुनैजं मूलतन्तुकपत्तनम् ।त्रिगालवास्ते सर्वे वै बद्रिके च ततः परम् ॥११२॥भक्त्या नारायणरता यास्यन्ति परमं पदम् ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भण्डशीलाख्यं भाण्डं सार्धशतभाण्डसहितं तथा भवायनत्रिगालवं क्षुपदधीचनाट्यकारिणं बहुभिः सहितं च कथाश्रवणतो हरिर्मुक्तिस्थानमनयदित्यादि निरूपणनामा नवपञ्चाशत्तमोऽध्यायः ॥५९॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP